________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ पञ्चम उभयारे
दभूतत्वाद् निर्बीजत्वादस्थितत्वात् 'खपुष्पवत् । भवदेव हि भवति द्रव्यार्थतः । खपुष्पमपि वा स्यादद्रव्यत्वाद् भाववत् । भूतार्थ सामर्थ्यादेव हि प्रवृत्तिः । गुणाद्यपि च द्रव्यमेव वृत्तत्वात् तन्त्वादिवत् । एवं क्रियापि द्रव्येण विना नास्ति । भवतीति भावः । यतोऽसौ भवतीति भावः तद् भवनम् । अत एव उभयनियमः - प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरैव प्रकृतिः । २७२ १ योजयद्भिरिति विशेषः । भवदेव हि भवति द्रव्यार्थत इति स्थितिरूपं द्रव्यार्थभवनमाचष्टे । एतदनिच्छतोऽस्थितभवनसाधर्म्यात् खपुष्पमपि वा स्यादद्रव्यत्वाद् भाववत् क्रियावत् अनिष्टापादनमेतत् । भूतार्थसामर्थ्यादेव हि प्रवृत्तिः, द्रव्यार्थसामर्थ्यादेव यस्मात् प्रवृत्तिः क्रिया, न निर्बीजेत्यर्थः । अ पूर्ववदनैकान्तिकत्याशङ्का – ननु निर्बीजगुणादिप्रवृत्तिर्दृष्टेति । अत्रोत्तरमाह - गुणाद्यपि च द्रव्यमेव वृत्त10 त्वात् तन्त्वादिवत् तन्तुबीजमृदादिवदिति प्राग्वत्, इह तु द्रव्यभवनमन्तरेण प्रवृत्त्यभाव इति प्रदइर्योपनेयमिति विशेषः । एवं क्रियापि द्रव्येण विना नास्तीत्युक्तन्यायवदेव ।
३८२
इति द्रव्यक्रियालक्षणं द्वैतमुक्त्वा अक्षरार्थन्यायेनापि प्रतिपादयिष्यन्नाह - भवतीति भाव इति । अत्र भुवश्च [ ] इतीष्टा कर्तरि 'ण' प्रत्ययं केचिदाहुः, इह तु भूयत इति भावे घञ्प्रत्ययः, स च येन भूयते स भाव इत्यर्थसामर्थ्याद् यो भवति स एव सम्बध्यत इति 'भवतीति भावः' इत्युक्तम् । 15 स च कर्ता, कर्ता च द्रव्यम् तस्माद् भावशब्दो द्रव्यवाची, क्रियार्थ्यांचित्वमपि यतोऽसौ भवतीति भावः, यस्माद्धेतोर्येन प्रकारेण यतो धर्मेण धर्माद् वा भवति तद्रव्यं स भाव इति, इतिशब्दस्य हेत्वर्थत्वाद् 'भवति' इत्येतद् यतो भवति भावः सा क्रिया । कुतः पुनर्भवेतीति भवति ? भवनसम्बन्धाद् भवति भवति तस्य द्रव्यस्य तस्मात् तद् भवनं भावः सा क्रिया प्रवृत्तिर्भवनमित्यर्थः ।
अत एवेत्यादि तस्योभयार्थत्वदर्शनस्य दृढीकरणार्थं यावत् प्रत्ययपरैव प्रकृतिरित्युत्तानार्थम् । 20 क्विप्प्रत्यये "चिदादीनां प्रथमैकवचने प्रकृतिमात्रप्रयोजनदर्शनात् 'अधुना' इत्यादिषु च प्रत्ययमात्रश्रवणाद्
१ “किमयं प्रत्ययनियमः - प्रकृतिपर एव प्रत्ययः प्रयोक्तव्योऽप्रकृतिपरो नेति, आहोखित् प्रकृतिनियमः - प्रत्ययपरैव प्रकृतिः प्रयोक्तव्या प्रत्ययपरा नेति ? | कश्चात्र विशेषः ? 'तत्र प्रत्ययनियमे प्रकृतिनियमाभावः । तत्र प्रत्ययनियमे सति प्रकृतेर्नियमो न प्राप्नोति, अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति । अस्तु तर्हि प्रकृतिनियमः, 'प्रकृतिनियमे प्रत्ययानियमः', प्रकृतिनियमे सति प्रत्ययस्य नियमो न प्राप्नोति, अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति । 'सिद्धं तूभयनियमात्' । सिद्धमेतत्, कथम् ? उभयनियमात् उभयनियमोऽयम् - प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरैव च प्रकृतिरिति । " इति पातजलमहाभाष्ये ३।१।२ ॥ २ हि प्रवृत्तिः द्रव्यार्थ सामर्थ्यादेव हि प्रवृत्तिर्द्रव्यार्थ सामर्थ्यादेव प्र० ॥ ३ दृश्यतां पृ० ३८१ पं० १३ ॥ ४ दृश्यतां पृ० ३८१ पं० २ ॥ ५ दृश्यतां पृ० १७३ पं० २५, टि० ९ । “विभाषा ग्रहः ।३।१।१४३ | णो वा, पक्षेऽच् । व्यवस्थितविभाषेयम्, तेन जलचरे ग्राहः, ज्योतिषि ग्रहः । भवतेश्व' इति काशिका, भवो देवः संसारच, भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् भावः । " इति सिद्धान्तकौमुद्याम् ॥ ६ वाचीत्वमपि य० ॥ ७ भवति भावः य० ॥ ८ भवति स भावः य० ॥ ९ 'तीति भवनस य० ॥ १० विदा प्र० । “पृथक् सर्वेषामिति चेत्, एकशेषे पृथग्विभक्त्युपलब्धिस्तदाश्रयत्वात् । पृथक् सर्वेषामिति चेत्, एकशे पृथग्विभक्त्युपलब्धिः प्राप्नोति । किमुच्यते 'एकशेषे पृथग्विभक्त्युपलब्धिः' इति ? यावता समयः कृतः 'न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्ययः प्रयोक्तव्यः' इति । तदाश्रयत्वात् प्राप्नोति, यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्राप्रत्ययिकायाः प्रकृतेः प्रयोगो भवति - अग्निचित् सोमसुदिति यथा । यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्राप्रकृतिकस्य प्रत्ययस्य प्रयोगो भवति - अधुना इयानिति यथा ।" इति पातञ्जलमहाभाष्ये १।२।६४ | " अधुना | ५|३|१७| इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे ‘अधुना’प्रत्ययः स्यात् । इशू, 'यस्य' [ ६।४।१८४ ] इति लोपः, अधुना ।" इति पा० सिद्धान्तकौमुद्याम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org