________________
द्रव्यक्रियैकान्तवादनिरसनम्] द्वादशारं नयचक्रम्
૨૮૨ अप्रवृत्तत्वात् , खपुष्पवत्। भवदेव हि भवति।खपुष्पमपि वाऽभविष्यत्, अभवद्भवनात्, द्रव्यवत् । आत्माद्यपि च प्रवृत्तमेव, द्रव्यत्वात् , तन्तुवद् बीजवत् । तथा च चैतन्यादिलक्षणता आत्मादेस्तथाभवनप्रवृत्तिसामर्थ्यात् सत्यपि द्रव्यत्वतुल्यत्वे ।
अथ तु प्रवृत्तिरित्येवाद्रव्या ततो नैव स्यात् सा प्राक् पश्चात् तदा वाऽद्रव्यत्वा
15
रित्यर्थः, यदि न प्रवर्तेत न परिणमेत् न क्रियापि स्यात् द्रव्यं प्राक् केनचिद् गमनादिप्रकारेणावृत्तम् । 'तंदा वा' इति सामान्यकालवाचिना शब्देन इदानीमपि निर्देशकाले तदप्रवर्तमानम् पश्चाच्चैष्यत्कालेऽप्यप्रवर्तिध्यमाणं न स्यादित्यर्थः, अप्रवृत्तत्वात् । किमुक्तं भवति ? प्राग् नासीत् इदानीमप्रवृत्तत्वात् खपुष्पवत् । इदानीं न स्यात् प्रागप्रवृत्तत्वात् खपुष्पवत्, पश्चान्न भविष्यति इदानीमप्रवृत्तत्वात् खपुष्पवदेवेत्यभूतं तत् स्याद् द्रव्यं क्रियाशून्यत्वात् परिणामशून्यत्वादप्रवृत्तत्वादित्यर्थः । भवदेव हि भवति, प्रवर्तमानमेव हि केनचिद्धर्मेण मृदिव शिवकादिना भवति, न निरुपाख्यम् । यदि निरुपाख्यमपि 10 स्यात् खपुष्पमपि स्यात् , खपुष्पमपि वाऽभविष्यद् भवति भविष्यति [च] त्वदभिमतद्रव्यवत् अभवद्भवनादिति अक्रियभवनादित्यर्थः । ____ स्यान्मतम् , अनैकान्तिकमेतत् - अभवद्भवनात् खपुष्पमपि भवेद् द्रव्यवत् , द्रव्यमपि मा भूदप्रवृत्तत्वात् खपुष्पवदिति । कस्मात् ? आत्माकाशादीनामप्रवृत्तिभवनानां सत्त्वदर्शनादपरिणामित्वादित्यर्थ इति । एतच्चायुक्तम् , तद्विपक्षत्वासिद्धेः, यस्माद् आत्माद्यपि च प्रवृत्तमेव द्रव्यत्वात् तन्तुवद् २०१-२ बीजवदिति । यथा तन्तवस्तन्त्ववस्थायां पटावस्थायां च प्रवृत्तत्वाद् भवन्येव तथा आत्मादयः, एवं बीजमेव ह्यङ्करादिभावेषु प्रवृत्तमेव तथात्मादय इति दृष्टान्तद्वयोपादानाद् न्यायव्यापिता प्रदर्श्यते । यथोक्तम् - अस्ति-भवति विद्यति-पद्यति-वर्ततयः सन्निपातपष्ठाः सत्तार्थाः [ ] इति । तस्मात् तेन तेन प्रकारेण परिणममानं प्रवर्तमानं वस्तु भवतीत्युच्यते, स्वेन स्वेन च पारिणामिकेन प्रकारेण भवति परिणमतीति । अत्रोपचयहेतुमाह -तथा च चैतन्यादिलक्षणतेत्यादि यावत् तुल्यत्वे । सत्यपि तुल्ये 20 द्रव्यत्वेऽत्येव जीवद्रव्याणामजीवद्रव्याणां च भवनविशेषः । तद्यथा-जीवद्रव्यस्य चैतन्यवीर्यामूर्त्यसङ्ख्यातप्रदेशावगाहादिस्तथाभवनप्रवृत्तिसामर्थ्यम् , अजीवद्रव्येष्वपि पुद्गलानां रूपरसादिकर्मदोषकर्मादि तथाभवनसामर्थ्यम्, यथासङ्ख्यं च धर्माधर्माकाशकालानां गतिस्थित्यवगाहवर्तनास्तथाभवनसामर्थ्यानि । तस्मादास्मादेव्यत्वतुल्यत्वे सत्यपि तथाभवनप्रवृत्तिसामर्थ्याच्चैतन्यादिप्रतिविशिष्टलक्षणतोपपद्यते ।
एवं तावद् द्रव्यस्य क्रियाविरहितस्याभाव उक्तः, तयैव युक्त्या क्रियाया अपि विना द्रव्येणासत्त्व-25 मित्यत आह - अथ तु प्रवृत्तिभूतिरित्येवाद्रव्या प्रतिक्षणप्रवृत्त्युपरमलक्षणा भूतिरित्येव, एवेत्यवधारणादद्रव्या द्रव्यविरहिता क्रियैवेत्यर्थः, ततो नैव स्यात् सा पूर्ववत् प्राक् पश्चात् तदा वाऽद्रव्यत्वादभूतत्वात् खपुष्पवदिति तथैव व्याख्येयं निर्बीजत्वादस्थितत्वादित्यादिपर्यायैस्त्रिष्वपि कालेषु साधनानि
१प्रवर्तेन परिणामेत् भा० । प्रवर्तेत परिणामेत य० ॥ २ तदेवेति प्र०॥ ३ पश्चात्वै भा० । अत्र पश्चाद्वै इत्यपि पाठः स्यात् ॥ ४ एवं य० प्रतिषु नास्ति ॥ ५ दृश्यतां पृ० ३४ पं० २० ॥ ६ वि. विनान्यत्र कर्मदोषाकर्मादि य० । कर्मादि वि०॥ ७°हा वर्तना तथा प्र०॥ ८ दृश्यतां पृ० ३८० ५० ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org