________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ पञ्चम उभयारे
वर्धितव्यमपायेन वा युज्यते [ पो० म० भा० १/२/६४ ] । न हि कश्चिदर्थो द्रव्यं स्वस्मिन्नात्मनि निर्भेदनिरुपाख्ये मुहूर्तमपि अवतिष्ठते, अपिशब्दाद् यावत् समयमपि नावतिष्ठते, वर्धते यावदनेन वर्धितव्यम्, यावदनेन अपेतव्यं तावदेव अपायेन युज्यते, सन्निहितव्यक्ति युक्तत्वात् ।
यदि तु द्रव्यमित्येवाक्रियमभविष्यत् ततो नाभविष्यत् प्राक् तदा वा पश्चाच्च
5
३८०
सोऽयमस्मिन्नेव द्रव्यक्रियात्मकवस्तुवादे घटते, न परमतैकान्तद्रव्यपरिणामवादे नापि सततप्रवृत्तक्षणिकवादे । तद् व्याचष्टे - न हि कश्चिदर्थो द्रव्यम्, 'न हि किञ्चित्' इति प्राप्तस्य सामान्यनपुंसकनिर्देशस्य ‘अर्थः’ इति पुंल्लिङ्गेन विशेष्य व्याख्यानम्, यथोक्तम् - अव्यक्ते गुणसन्देहे नपुंसकलिङ्गं प्रयोक्तव्यम्, जायमानं हि द्वयमेव जयते - पुमान् स्त्री वा, तथापि वक्तारो भवन्ति - किमस्य जातम् ? इति [ प० म० भा० १/२/६९ ]। 10 पुनरपि चार्थशब्दपर्यायमाह - द्रव्यमिति भाष्यकारमतेनैव, स्वस्मिन्नात्मनि द्रव्यात्मनीत्यर्थः, निर्भेद२७० २ निरुपाख्ये गमनस्पन्दननिमेषोन्मेषादिभेदविरहिते तस्य भेदविरहितस्य निरुपाख्यत्वात्, तद्धि द्रव्यं धर्मरहितमुपाख्यातुमशक्यम्, अनुपाख्यत्वाच्चासदेव स्यात्, अतस्तद् मुहूर्तमपि नावतिष्ठते परिणतिक्रियाविरहितम् । तद् व्याचष्टे – 'अपि ' शब्दाद् यावत् समयमपि नावतिष्ठते नालिकालवस्तोकप्राणोच्छ्वासनिःश्वासक्रमहान्या, ततः परं सूक्ष्मकालाभावात् । एतेन स्वात्मन्यनवस्थानवचनेन वृद्धिहानिसततर्सम्प्रवृत्तिरूपं सर्वं 15 वस्तु इति द्रव्यप्रत्याख्यानमेव कृतम् । वर्धते यावदनेन वर्धितव्यमिति तु पुनः 'यत् परिमाणमस्य यावत्' इति नियतपरिमाणां वृद्धिं पद्मादीनामिव साधिकसहस्रयोजनात् परतो न भूतां कदाचिदिति दर्शयता तस्यैव द्रव्यस्यावस्थितस्यावस्था विशेष एव वृद्धिरिति दर्शितं भवति । तथापायोऽपि यावदनेनापेतव्यं तावदेवापायेन युज्यत इति यावच्छब्दार्थमधिकृतं भावयति, यथा सूक्ष्मनिगोदापर्याप्तकजीवस्यावरणान्तरायक्षयोपशमकृतयोगोपयोगस्वरूपस्याक्षरानन्ततमभागोपलम्भमात्रेऽवश्यमवतिष्ठते ज्ञानदृष्टावरणवीर्यान्तरायोदय20 जनितोपघातयोगोपयोगहानिः, न ततः परं हीयते, अन्यथा तस्याजीवत्वप्रसङ्गादिति । तस्माद् यावद्वचनाद् द्रव्यमेवावस्थितं वर्धतेऽपैति वा, न च वृद्ध्यपायरहितसमवस्थितत्वे सत्यपि इत्येषोऽस्य ग्रन्थस्यार्थः । तस्मादयमपि ग्रन्थो द्वयात्मकदर्शनेनैव नेतुं शक्यते, नान्यथेति प्रतिपत्तव्यम् । किं कारणम् ? सन्निहितव्यक्तियुक्तत्वात्, सन्निहितस्य अवस्थितशक्तेरेव व्यक्तिराविर्भावः सलिलसेकेन भूमिगन्धस्य, तस्या २७१-१ व्यक्तेर्युक्तत्वात् 'द्रव्यं च क्रिया च भवति' इति ग्राह्यम्, अन्यथा तदयुक्तेरसत्कार्यवादप्रसङ्गादसम्भवाञ्च । 'द्रव्यमेव, क्रियैव' इत्यनयोर्वादयोरयुक्तिरुच्यते । तत्र 'द्रव्यमेव' इति तावन्न युज्यते । कथम् ? यदि तु 'द्रव्यम्' इत्येवाक्रियमभवनमभविष्यद् वृद्धिव्ययरहितमपरिणामैकान्तरूपं यद्यभविष्यत् ततो नाभविष्यदिति क्रियातिपत्तौ लृङ् न भवनमेवापद्यत इति न भवत्येवेत्यर्थः, क्रिया भवनं प्रवृत्ति -
25
१ दृश्यतां पृ० २८४-२ २८५- १ । “प्रवृत्तिः खल्वपि नित्या । न हीदं कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्धते यावदनेन वर्धितव्यमपचयेन वा युज्यते । तच्चोभयं सर्वत्र ।” इति पातजलमहाभाष्ये पाठः ॥ २ दृश्यतां पृ० २४२ टि० ४ ॥ ३ निश्वास प्र० ॥ ४ संवृत्ति प्र० ॥ ५ वि० विना 'पस्त्याक्ष प्र० । वक्ष वि० ॥ ६ सपि भा० ॥ ७ थेति पत्तव्यम् प्र० ॥ ८ लगभवन प्र० । “लिङ्गिमित्ते ऌडू क्रियातिपत्तौ " पा० ३।३।१३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org