________________
द्रव्यक्रिययोरुभयोरर्थत्वप्रतिपादनम्] द्वादशारं नयचक्रम्
३७९ द्रव्यवद्रव्यसंयोजनवियोजनोत्क्षेपणापक्षेपणादितथा भवन विशेषणसमवयनादयो भवनमेव द्रवति जानाति इच्छति द्वेष्टि ध्वनति यतते संयुनक्ति वियुनक्ति श्वेतते इत्यादि।
पृथिव्यादिसंयोजनवियोजनोत्क्षेपणापक्षेपणतथा भवनविशेषणसमवयनादिभवनेन विना न द्रव्यभेदाः सम्भवन्ति यावदन्त्यं द्रव्यम् , पृथिव्यादिना विना न 5 संयोजनवियोजनोत्क्षेपणापक्षेपणतथाभवनविशेषणसमवयनादयो न मूलादिभावो वेति द्रव्यभावपरिग्रहः।
एवं च कृत्वोक्तम् - न हि किञ्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्धते यावदनेन
अद्रव्यद्रव्यवद्रव्यसंयोजनेत्यादयः, गुणादयस्तावत् क्रियैव इति प्रागुक्तम् , अधुनाप्युच्यते तद्वारेण जात्यभेदश्च । द्विविधं हि द्रव्यम् - अद्रव्यमनेकद्रव्यं च । नास्य द्रव्यं समवायिकारणमित्यद्रव्यमात्माकाशकाल-10 दिक्परमाण्याख्यम् । द्रव्यवद् द्रव्यं तु द्वयणुकादि महापृथिवीपर्यन्तम् । तस्य द्विविधस्यापि द्रव्यस्य जातिभेदाभावः, यस्मात् संयोजनं प्राप्तिः क्रिया परिणतिलक्षणा, सैव संयोगो गुणोऽण्वाकाशादीनाम् , आत्माकाशादेरपि परिणमनक्रियावत्त्वादुक्तवद क्रियस्यासत्त्वात्। एवं वियोजनं विभागः क्रियामानं न गुणः। तथा रूप्यतेऽक्षिभ्यामिति रूपम् , रस्यते जिह्वयेति रसः, एवं गन्धस्पर्शशब्दा अन्ये च सङ्ख्यादयो नेया बुद्ध्या सङ्ख्यायमानत्वात् । उत्क्षेपणापक्षेपणादीति ऊर्ध्वक्षेपणादिक्रिया द्रव्यधर्मो द्रव्यप्रभेदः । तथाभवनमिति 15 सत्तासामान्यं द्रव्यस्यैव समानस्य भवनम् , यत् समानेन भूयते। विशेषणमिति विशेषः क्रियैव येन नीलादिना गमनादिना क्रियामात्रेण द्रव्यस्य विशेषेण भवनं स स विशेषः । समवयन सम्बन्धः, सोऽपि संयोग एव, 'सम्' इत्येकीभावेनावयवानामवस्थानं तन्त्वादीनां पटादित्वेन समवाय इहे ति कार्यकारणयोरेकीभवनम् ।
आदिग्रहणाद् यावत्समवायिद्रव्यं भेदात् समवायानन्यं दर्शयति षट्पदार्थरिमाणाभावं [च] परिणामधर्मानन्त्यात् क्रियागुणादिपदार्थानन्त्याच्च । भवनमेव भाव एव क्रियैव, न गुणादयः सन्तीति भवनशब्देन 20 क्रियां दर्शयति । इदानीं द्रव्यं दर्शयितुकाम आह - द्रव॑तीत्यादि यावच्छेतत इत्यादि कारकं तल्लंकारेण कर्तृवाचिना द्रुशेषिद्विषिध्वनियतिसंयुजिवियुजिश्वितीनां साध्यानां क्रियाविशेषाणां सकर्तृकाणामभिधानात् ।
तयोरन्योन्यरहितयोर्द्रव्यक्रिययोरभावप्रदर्शनार्थो ग्रन्थः-पृथिव्यादिसंयोजनेत्यादि । यावद् द्रव्यभावपरिग्रहः । आदौ तावद् भवनेन यिया भावेन विना न द्रव्यभेदाः सम्भवन्ति पृथिव्यादयो यावदन्त्यं द्रव्यं परमाणुद्रव्यमिति, पृथिव्यादिनेत्यादि, यावन्न मूलादिभावो वेत्युक्तानामेव द्रव्यभेदा-25 नामभावे संयोजनादयः क्रियाभेदा न सन्तीत्यादि तेनानिष्ींपादनम् । तस्माद् द्रव्यभावपरिग्रहो युक्त इत्युपनयति, इतिशब्दस्य हेत्वर्थत्वात् ।
एवं च कृत्वेत्यादि यावदपायेन वा युज्यत इति भाष्यकारेण साङ्ख्यादाहृत्योक्तो ज्ञापकग्रन्थः
२७०-१
१नाधुच्यते प्र०॥ २ “यावदवधारणे ।२।१।८। यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छोकम् ।” इति पा०सिद्धान्तकौमुद्याम् ॥ ३ परिणामाभावं प्र०॥ ४ द्रव्यती प्र० ॥ ५ दृश्यतां पृ० १२६ टि०७॥ ६॥ एतचिहान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ७क्रियाया भा०॥ ८टानपा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org