________________
३७८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[पञ्चम उभयारे तत्र सम्मूञ्छितसर्वप्रभेदनिर्भेदं बीजं द्रव्यम् , तथाभवनविनाभूतसन्निधिवस्तुत्वव्यक्तिः क्रिया, प्रवृत्तिः क्रिया भावः, वदनगतनियतक्रमाकाररूपपरिमाणमायाकारकपताकिकासन्ताननिष्कालवत्, मायाकारकवद् द्रव्यादनुत्पादव्ययात्मकात् पृथिव्यादेर्मूलादयः, यथाखं पताकिकामालावत् क्रियात्मानः । अद्रव्य
5 तस्माच्च न 'एकं सर्वम्' अनन्तरनयदर्शनम् , न 'सर्वमेकं' पुरुषनियत्यादिविकल्पविधिविधिनयदर्शनम् , नापि विध्युभयदर्शनं कर्बकर्तृभूतं प्रकृतिपुरुषमिदम् , नाधिष्ठात्रधिष्ठेयमिदमितीश्वरकारणं प्रधानोपसर्जनभूतं
प्राङिर्दिष्टम् , किं तर्हि ? उभयं कर्तृ भवनस्य प्रधानं च तुल्यबलत्वादस्य भावो भवतीति सामान्येन, २६९.१ किं पुनस्तदुभयमित्यत आह - द्रव्यं भावश्च । अत्र भावशब्दः क्रियावचनः क्रिया भावो धातुः [पा० वा.
१।३।१] इति लक्षणात् । 10 तस्माइयं द्वयं सर्वं घटपटादि भवति पचत्यादिवत्। तत्र सम्मूर्छितसर्वप्रभेदनिर्भेदम् , सम्मूर्छिताः
संसृष्टाः अविनिर्भागेन सर्वे प्रभेदाः पचिपठिभुजिगेम्यासिशय्यादयः कृष्णगौरदन्तुरहस्वदीर्घतादयश्च यस्मिस्तत् सम्मूर्छितसर्वप्रभेदं तत् सर्वत्र स्वरूपासमवस्थानाद् निर्भेदं च तेंदगृहीततरङ्गादिप्रभेदसरःसलिलवत तत् तेषां बीजमाश्रयो द्रव्यमित्येतद् द्रव्यलक्षणम् । तथाभवनविनाभूत सन्निधिवस्तुत्वव्यक्तिः क्रिया,
तेन प्रकारेण पचिपठिगम्यादिना भवनं तथाभवनम् , तेन भवनेन विनाभूतः सन्निधिः शक्तिमन्मात्रावस्था 15 शक्त्यनभिव्यक्तिर्यस्य वस्तुनस्तत् तथाभवनविनाभूतसन्निधिवस्तु, तस्य भावो वस्तुत्वम् , तद्वयक्तिः वस्तुशक्त्यभिव्यक्तिः क्रिया इत्येतत् क्रियालक्षणम् । प्रवृत्तिः क्रिया भाव इति पर्यायकथनम् ।।
तस्य द्वयस्य स्वतत्रस्य भावस्य निदर्शनम् - वदनगतेत्यादि यावद् निष्कालवदिति । मायाकारकवदने व्यवस्थितः क्रमो यासामाकारा रूपाणि परिमाणानि च ता मायाकारकपताकिकाः, तासां सन्तानस्य निष्कालवत् । पृथक् तयोः स्वरूपव्याख्यानार्थमाह -मायाकारकवद् द्रव्यादनुत्पादव्ययात्मकात् 20 पृथिव्यादेर्मूलादय इति जगद् दार्टान्तिकं दृष्टान्तेन मायाकारकेण समीकुर्वन् द्रव्यं व्याचष्टे क्रियां च यथास्वं पताकिकामालावत् क्रियात्मान इति च । या या स्वा यथास्वं पताकिकामाला अव्यवच्छेदेन नीलपीतादिवर्णा हूस्वदीर्घादितनुस्थूलादिसंस्थानप्रमाणा नियता एव क्रमेण निष्कसन्ति तथा 'पचति गच्छति'
इत्यादि क्रिया द्रव्याद् देवदत्तादेरिति । ततोऽन्या अपि च तास्तेन विना न भवन्ति, सोऽपि ताभिर्विना २६९-२ न भवति, अथ च नियताकाररूपपरिमाणास्ताः स च तत्परिणतव्यक्तिरिति द्वयमपि भवतीति । 25 एवं तस्मिन्नेव द्रव्यक्रियात्मनि वस्तुन्यन्तर्भावात् पदार्थान्तरकल्पनावैयर्थ्यम् क्रियामात्रत्वाद् गुणा
द्याश्रितपदार्थानाम् । द्रव्यजातिभेदपरिकल्पनावैयर्थं च सर्वद्रव्याणां क्रियावत्त्वादिति तत्प्रदर्शनार्थमाह
कर्तकर्तभतं प्र०॥ २ "क्रियावचनो धातुः ।.."भाववचनो धातुः ।" इति पाणिनीयवार्तिके १३१॥ ३ वि० विना "द्वयं द्रव्यं सर्व य० । °द्वयं सर्व वि० ॥ ४°दं निर्भेदं य० ॥ ५ गम्याशिशुपादयः प्र० ॥ ६4 एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ७ तदार य० ॥ ८ तद्वयक्तिः वस्तुत्वव्यक्तिः वस्तुशक्त्यभिव्यक्तिःपा. डे. ली.॥ ९प्रथक तयोः प्र० । अत्र 'पृथक् च तयोः' इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org