SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॐ अहम् अथ पञ्चम उभयारः। सत्यमेतद् भवतीति भावः' इति । किन्त्विदं 'द्रव्यमेवार्थः' इति विरुध्यतेऽभ्युपगमेन खवचनेन वा तदवयवेन वा, यत् तद् भवति तस्य भावत्वादपि, अतोऽन्यथाऽसत्त्वात् खपुष्पवत्, उभयम् - द्रव्यं भावश्च ।। एवमनन्तरनयेनाभिहिते ब्रवीत्युत्तरः ---सत्यमेतद् यदुच्यते त्वया 'भवतीति भावः' इति ।। किन्त्विदं 'द्रव्यमेवार्थः' इति विरुध्यते, द्रव्यं च भव्ये [पा० ५। ३ । १०४ ], द्रवतीति द्रव्यं द्रूयत इति वा द्रव्यमिति कर्तृकर्मसाधनव्युत्पत्तिमात्रभेदे सत्यपि अर्थभेदाभावात् सर्वसर्वात्मकत्वाञ्च द्रव्यमेव पृथिव्यादिव्रीह्यादिभावेन भवति नान्यः कश्चिद्भावोऽस्ति इत्येतदवधारणं विरुध्यते, केन सह विरुध्यते ? अभ्युपगमेन, यस्मात् त्वयैवाभ्युपगतं विशेषणं 'द्रव्यं भवतीति भावः' इति भवनलक्षणस्य प्रकृत्यर्थस्य साध्यस्य द्रव्यलक्षणेन प्रत्ययार्थेन साधनेन का विशेषणात् तद्वयर्थताभ्युपगतेति, विशेषणविशेष्ययोश्च 10 भेदात् 'द्रव्यमेवार्थः' इति पूर्वोऽभ्युपगमो विरुध्यते, इतरथा वैयर्थ्यं पौनरुक्त्यं वा स्याद् 'द्रव्यं भवति' २६८-२ इति । अथवा प्रकृष्टकालेनाभ्युपगमेन विरुध्यते इति किं चित्रायत्याम् ? किन्तु स्ववचनेन वा 'विरुध्यते' इति वर्तते, वाशब्दस्य विकल्पार्थत्वात् समुच्चयार्थत्वाद्वा अभ्युपगमेन स्ववचनेन च विरुध्यत इति, अत आह-तदवयवेन वा, 'भवति' इति 'द्रव्यम्' इति वा विशेषणविशेष्यभेदानुपादानेऽपि एकस्मिन्नेव पदे प्रकृतिप्रत्ययार्थभेदोपादानात् , सत्तायां प्रकृतिः, लेट्प्रत्ययः कर्तरि, तौ प्रकृतिप्रत्ययौ प्रत्ययार्थ सह 15 ब्रूतः प्रधानोपसर्जनभावेन, यथा राजपुरुषौ पुरुषार्थमिति, तथा द्रव्यमित्यत्रापि द्रु गतौ [पा० धा० ९४५] कृत्यल्युटो बहुलम् [पा० ३ । ३ । ११३ ] इति कर्तृकर्माद्यन्यतमसाधने यत्प्रत्यये प्रकृतिप्रत्ययभेदोभ्युपगमात् । किं कारणम् ? यत् तद्भवति तस्य भावत्वादपि, यत् तत् त्वदिष्टं द्रव्यं तद् भावोऽपि क्रियापि, क्रिया भावः प्रवृत्तिरिति पर्यायाः, भावस्यापि भावात् 'भवतीति भावः' इति व्युत्पत्तेः 'द्रव्यम्' इति ‘भवति' इति च वचनाद् भवनस्य द्रव्याद् भिन्नत्वात् । अतोऽन्यथाऽसत्त्वात् , यदि द्रव्यं भावोऽपि न स्यात् 20 क्रियापि न स्यात् ततस्तदसत् स्यादभावत्वाद क्रियत्वात् खपुष्पवदिति । तस्माद् द्रव्य क्रिययोः सत्त्वाद् यदुक्तं त्वया 'द्रव्यमात्रमुत्क्षेपणादि' इति तदसत् । १प्रवी प्र०॥ २ दृश्यतां पृ. ३७० पं. ३॥ ३ दृश्यतां पृ. ३७३ पं०६॥ ४ दृश्यतां पृ० ३७३ पं० ३ ॥ ५ तद्यर्थ प्र० ॥ ६°मायत्यं । प्र० ॥ ७द्रव्यमतीति वा प्र० ॥ ८"भू सत्तायाम्'-पा० धा०१॥ ९ “वर्तमाने लट्”-पा० ३।२।१२३ ॥ १० दृश्यतां पातञ्जलमहाभाष्ये ३।१।६७ ॥ ११ "अचो यत्" पा० ३।११९७ ॥ १२°दात् गमात् प्र.॥ १३ दृश्यतां पृ० ३६९ पं० ४, पृ० ३७० पं० ८ ॥ नय०४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001109
Book TitleDvadasharam Naychakram Part 2 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1976
Total Pages403
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy