________________
४४६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ षष्ठे विधिनियमविध्यरे
द्रव्यादि । विशेषेऽप्युभयता सामान्यविशेषान्त्यविशेषाभ्याम् । कर्मणि तु स्वभावसम्बन्धसद्भावाभ्याम् ।
अयं च नैगमैकदेशत्वाद् द्रव्यास्तिकः । द्रव्यमपि द्रव्यत्वसम्बन्धात् । जातिः
विभुपरिमण्डलपरिमाणगुणादि । सर्वत्र चेतरेतरासत्त्वान्यथात्वमिति विशेषः, स्वभावसत्त्वं सामान्यम् । 5 विशेषेऽप्युभयतेति सामान्यविशेषा द्रव्यत्वगुणत्वकर्मत्वादयः, अन्त्यविशेषा योगिनामेकाकाशदेशस्थाण्वन्यत्वकराः । कर्मणि तु स्वभावसद्भावेन कर्मत्वसम्बन्धसद्भावेन चेतरेभ्यो भेदाभेदौ । एवं ३१४-१ द्रव्यगुणयोर्द्रव्यत्वगुणत्वसम्बन्धसद्भावात् स्वभावसद्भावाच्चेत्येवमादिसाधर्म्यवैधर्म्याभ्यां षट्सु पदार्थेषु विशेषा एव वैशेषिकं विशेष प्रयोजनं वा वैशेषिकमिति विधिनियमयोर्विधिरुपपद्यते, न तु त्वदिष्टैकवस्तुविधिनियमविधिरिति ।
अत्राह – किमयं द्रव्यास्तिकभेदः पर्यायास्तिकभेदः ? इति उच्यते - नैगमैकदेशत्वाद् द्रव्यास्तिकः, द्रव्यमस्तीत्यस्य मतिः, न पूर्ववद् द्रव्यमेवास्ति, नाप्युत्तरवत् सदसद् नास्त्येव वा द्रव्यमिति । नैगमँशब्दो 'निरुक्तार्थभेदः, तेषु द्रव्यमपीत्यादि द्रव्यत्वसामान्यविशेषविशेषणसम्बन्धाद् द्रव्यम्, न व्यद्रवणगुणसन्द्रावसमुदायाद्यात्मकम् ।
जातिः शब्दार्थ इति । सर्वशब्दानां जातिवाचित्वमेव, आकाशादीनामपि 'जातिवज्जातिः' इति
10
१ " किन्तु नित्यं परिमण्डलम् [वै० सू० ७ १/२६ ], परमाणुपरिमाणं परिमण्डलम्, तन्नित्यम्, तस्य अविद्या विद्यालिङ्गम् [वै० सू० ७।१।२७], परिमाणरहितस्य द्रव्यस्या [त्यन्त ]मसम्भवः परमाणूनां परमाणुपरिमाणस्य सम्भवे लिङ्गम्। ‘अविद्या' असम्भवः, सम्भवो 'विद्या' । विभवाद् महानाकाशः [ वै० सू० ७।१।२८ ], विभवाद् मूर्तद्रव्यैः समागतैरगच्छतः संयोगात् परममहत्त्वमाकाशस्यास्तीति गम्यते । तथात्मा ( तथा चात्मा T ) [ वै० सू० ७|१|२९], आकाशमिवात्मापि परममहान् द्रष्टव्यः असमासा [द] दिक्कालावपि महान्तौ ।” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ. २६ ॥ २ द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च [ वै० सू० १/२/५ ], क्षित्यादिषु यतो 'द्रव्यं द्रव्यम्' इत्यनुवृत्तबुद्धिः, रूपादिषु च 'गुणो गुणः' इति उत्क्षेपणादिषु 'कर्म कर्म' इति तानि द्रव्यत्वगुणत्वकर्मत्वानि सामाभ्यानि, परस्परतश्च व्यावृत्तेर्विशेषाः । अन्यत्रान्त्येभ्यो विशेषेभ्यः [वै० सू० १।२६ ], नित्यद्रव्येषु परमाण्वाकाशादिषु समवायेन वर्तमानास्तुल्याकृतिगुणेषु 'अयमन्योऽयमन्यः' इत्यत्यन्तव्यावृत्तिबुद्धि हेतवस्तद्दर्शिनां विशेषकत्वाद् विशेषाः । एवं विशेषा व्याख्याताः ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ०९ ॥ ३ दृश्यतां पृ० २५ टि० १२ ॥ ४ “द्रव्य-गुण-कर्म-सामान्य विशेष समवायानां पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रेयसहेतुः । " इति प्रशस्तपादभाष्ये । दृश्यतां पृ० ४४४ पं० ३२ ॥ ५ दृश्यतां पृ० ७ पं० ११ । " अस्ति नास्ति दिष्टं मतिः [ पा० ४/४/६० ], तदस्येत्येव, अस्ति परलोक इस्येवं मतिर्यस्य स आस्तिकः, नास्तीति मतिर्यस्य स नास्तिकः दिष्टमिति मतिर्यस्य स दैष्टिकः ॥” इति पाणिनीयव्याकरणसिद्धान्तकौमुद्याम् ॥ ६ नाव्युत्तर भा० । वाव्युत्तर य० ॥ ७ मशक्तो निरु प्र० ॥ ८ दृश्यतां पृ० ४०८ पं० १६, पृ० ४१४ पं० २३ ॥ ९ दृश्यतां पृ० ४४४ पं० २७ ॥ १० दृश्यतां पृ० २४४ पं० १९-२३॥ ११ “तदित्थं पदापोद्धारे प्रदर्शिते तदर्थस्यापोद्धृतस्य सिद्धसाध्यरूपद्वययोगिनो मतभेदेन खरूपेण दर्शनार्थमाह - पदार्थाना मपोद्धारे जातिर्वा द्रव्यमेव वा । पदार्थों सर्वशब्दानां नित्यावेवोपवर्णितौ ॥ [ वाक्यप० ३।१/२ ], अर्थद्वारेण पदं परीक्ष्यते इति दर्शनभेदेन प्रथममपोद्धारपदार्थविचारः । तथाहि सर्वेषामपि शब्दानां पदरूपाणां नामाख्यातादिस्वभावानां आतिवादिमते जातिरेवार्थः, न द्रव्यम् । द्रव्यवादिमते तु द्रव्यमेव, न जातिः । द्वितीयेन वाशब्देन पदार्थान्तरं सूचितम् - जातिविशिष्टद्रव्याभिधानमिति । अत एव तदेव सङ्कलनारूपं 'पदार्थों' इति स्फुटीकृतम् । अन्यथा वार्थे प्रक्रान्ते वार्थोपसंहारोऽयं नोपपद्यते । तदभिधाने त्वभिधानं तावद् द्वयोरपि समानम्, विरम्यव्यापाराभावाच्छन्दस्य । वार्थस्तु नातिद्रव्ययोर्गुणप्रधानभावः । यद्वा प्राधान्येनैव भिन्नविषयतया पाणिनिदर्शने जातिद्रव्ये शब्देनाभिधीयेते इत्ययमत्र पक्षः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org