________________
-
४४७
शब्दार्थवाक्याथोदिनिरूपणम् ] द्वादशारं नयचक्रम् शब्दार्थः । अन्त्यं च पदं वाक्यार्थः।
उपचारात् । अन्त्यं च पदं वाक्यार्थः, यथा 'देवदत्तः काष्ठैः स्थाल्यामोदनं पचति' इत्यत्रान्त्येन 'पचति'
'पदार्थों' इत्युक्तः । तत्र नामपदस्य 'गौः' इत्यादेर्गोस्वादिजातिनियतक्रियाविषयसाधनैकार्थसमवेतसङ्ख्याजातिविशेषणभाव. मात्राभिधेयाया अनाश्रयाया जातेरनुपपत्तेः सामर्थ्यात् प्रतीतं द्रव्यम् । एवमाख्यातपदस्यापि विभिन्नक्रियाक्षणसमवेताभिन्नाभिधानप्रत्ययहेतुक्रियाजातिविषया साक्षाद् वाचकशक्तिः । कारकादिजातिस्त्वत्र गुणभूता । नामपदगतया च कारकजात्या क्रियाजातिराख्यातपदगता व्यक्तिद्वारेण समन्वयमेति । द्रव्यजातिस्त्वेकार्थसमवायात् साधनशक्तिद्वारेण क्रियायोगमनुभवति । सङ्ख्याजातिरपि एकार्थसमवायात् खव्यक्ता(त्या ?)त्मना शक्तिमुखेनैव क्रियान्वयमेतीति सर्वपदार्थसमन्वयोपपत्तौ कल्पते वाक्यार्थः । यथा वोत्क्षेपणादिक्षणैर नेक]समयभाविभिरपि आवृत्त्या उत्क्षेपणत्वादिजातिरभिव्यज्यते तथा अधिश्रयणादिभिः क्रियाक्षणैः पचत्यादिक्रियाजातिरिति विचारयिष्यते । व्यक्तिद्वारकं चास्या नित्याया अपि साध्यत्वमुपपद्यते । उपसर्गादिरप्यत्र नामाख्यातसहभावी तदर्थस्य विशेषावद्योतकत्वाजातिपदार्थ एव । विशेषस्य विशिष्ट विश्रान्तस्यैवावसायात् कर्मप्रवचनीयोऽपि सम्बन्धजातिनिष्ठ एव । गुणशब्दानामपि शुक्लादीनां गुणजातिर्वाच्या । संज्ञाशब्दानामपि डित्यादिशब्दानां जातिवाचित्वं समर्थयिष्यते । तदित्थं वाजप्यायनाचार्यमतेन सार्वत्रिकी जातिपदार्थव्यवस्थोपपद्यते । व्याडिमते तु सर्वशब्दानां द्रव्यमर्थः तस्यैव साक्षात् क्रियासमन्वयोपपत्तेर्वाक्यार्थाङ्गतया चोदनाविषयत्वात् , यथाह-'चोदनासु च तस्यारम्भात्[ ] इति । एकजातिसमन्वयवशेन चात्र सङ्केतोपपत्तिः । अनभिधीयमानापि जातिरुपलक्षणीक्रियते शब्दार्थ, यथा गृहादी काकादि । आख्यातेऽपि च सा, भवनाधारद्रव्यप्राधान्यं व्याडिमते, 'देवदत्तः पचति' इति द्रव्येणैव साक्षात् सामानाधिकरण्योपपत्तेः, क्रिया तु गुणभूता अत्र, व्यापाराविष्टं हि द्रव्यमाख्यातार्थः 'इदं तत्' इति सर्वनामप्रत्यवमर्शयोग्यं चात्र द्रव्यमिति सार्वत्रिकीयं व्यवस्था, तथा च वक्ष्यति - 'द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते' [वाक्यप० ३।१।१३ ] इति, अत एव शुक्लादीनामपि द्रव्यपदार्थता सिद्धा । तत्तदुपाधिव्यवच्छिन्नं वा ब्रह्म द्रव्यशब्दवाच्यं सर्वशब्दानां विषय इति वक्ष्यत एव। व्यक्तिपर्यायो वा द्रव्यशब्द इति जातिव्यक्तिविकल्पेन सर्वशब्दविषयः तथा च 'सर्वशब्दानाम्' इत्यभिधानात् । पदादप्यपोद्धारे प्रकृतिप्रत्ययरूपस्यापि शब्दस्य यथायोगं क्रियाकारकसङ्ख्यादिरपोद्धारपदार्थों जातिव्यक्तिमेदेन समानातः । उभयस्यापि वा शब्दात् प्रतीतेरुभय पदार्थः, गुणप्रधानभावभेदाश्रयस्तु मतविकल्पः । नित्यत्वोपवर्णनं च 'सिद्धे शब्दार्थसम्बन्धे [पा. म. भा. १।११] इत्यत्र भाष्ये 'यस्मिंस्तत्त्वं च न विहन्यते' [पा० म० भा० १।१।१] इति द्रव्यस्यापि नित्यत्वं प्रवाहनित्यतया शब्दात सदैव प्रतीतेः ।" इति वाक्यपदीयस्य पुण्यराजकृतायां वृत्तौ ३।१।२॥
१“कालाकाशदिशामेकत्वाद् नित्यत्वेनावस्थाभेदाभावाच कथं जातिः, येन व्याप्तिसिद्धिः ? इत्यत आह-संयोगिधर्ममेदेन देशे च परिकल्पिते । तेषु देशेषु सामान्यमाकाशस्यापि विद्यते ॥ [वाक्यप० ३।१।१५], यथा सामान्य. विशेषाणामन्वयिधर्मोपाधिरभेदः तथा आकाशस्यापि संयोगोपाधिर्भेद इति प्रकृतापेक्षः समुच्चयः । आकाशेन संयोगो विद्यते येषामाकाशाधिकरणानां घटादीनां ते संयोगिनः । आकाशं हि सर्वेषां मूर्तानामधिकरणम् । अवकाशदानाद्धि तदाकाशम् । मूर्तास्तु भावाः परस्परप्रतिबन्धका इति न तेऽवकाशदायिनः । संयोगिनां धर्मभेदः प्रत्यक्षादिप्रमाणसिद्धं परिमितत्वं तद्वशाद्वा लोकप्रसिद्धं परिमितदेशवृत्तित्वम् । यत्र हि देशे संयोगः परिसमाप्तो वर्तते स प्रदेशो भवत्याकाशस्यानेकः, कार्य प्रति देशः प्रदेशः इति निर्वचनात् । गुणाश्च केचिद् व्याप्यवृत्तयो यथा रूपादयः, संयोगस्तु मूर्तिपरिच्छिन्नवस्तुवृत्तिरिति सर्वदा प्रदेशवृत्तिरेव । अतः संयोगस्य नियतदेशतया संयोगिनोऽपि नियतदेशवृत्तय इति संयोगिधर्मभेदेन आकाशस्य भेदो भवत्युपाधिकृतः, न स्वतः। यदाह-देशे च परिकल्पिते इति । देशभेदाच सामान्यमाकाशस्यापि विद्यते । अतश्च प्रतिदेशमिदमाकाशमिदमाकाशमित्यभिन्नाभिधानप्रत्ययानुवृत्तिलक्षणमाकाशसामान्यमाकाशशब्दगोचरोऽस्ति । एवं समानन्यायत्वात् कालादीनामपि प्रदेशपरिकल्पनेन सामान्यमुपवर्णनीयम् । तथाहि-कालस्य युधिष्ठिरादिसंयोगवशेन मेदे सति अभिन्नं कालसामान्यं कालशब्दवाच्यमस्ति । एवं मेरुं प्रदक्षिणमावर्तमानस्य सवितुर्लोकपालगृहीतैर्देशविशेषैर्ये संयोगाः तदुपाधिना सूर्येण दिशः संयोगे सति भेदेऽभिन्नं दिक्सा. मान्यं दिक्शब्दवाच्यं परिकल्प्यम् । आत्मा तु प्रतिशरीरमन्य एवेति तत्राप्यस्त्येव आत्मत्वसामान्यम् । एवं समवायस्यापि सम्बन्धिभेदान्नानात्वोपचारे सर्वत्र 'इह'बुद्धयनुवृत्तेर्जातिः परिकल्पनीया । ननु च संयोगिदेशेनाकाशस्य देशपरिकल्पनेन संयोगिनामितरेतराश्रयत्वम् , नैतदस्ति, इतरेतरव्यावृत्तिरूपतैव रव्यादीनां मूर्तत्वात् परिच्छिन्नपरिमाणत्वं बोधयति, कल्पितास्त्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org