________________
न्यायागमानुसारिणीवृस्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे पदव्यङ्गयेन सह परस्परसंसर्गलक्षणस्यान्वयव्यतिरेकवतोऽर्थस्य परिपूर्णत्वात् । स च वाक्यार्थः पूर्वपदज्ञानाहितसंस्कारापेक्षोऽन्त्यैपदप्रत्ययः, प्रत्येकं पदैर्हि खांशार्थविषयैरुत्पादितानि विज्ञानानि संस्कारमादधति,
काशदेशाः लोकप्रसिद्धाः संयोगिवस्तुगतां परिच्छिन्नदेशतां ज्ञापयन्ति । सामान्यतया आकाशदेशत्वे रव्यादीनां प्रत्यक्षादिप्रमाणावसितरूपविरुद्धं व्यापित्वमारोपितं स्वगतेन परिमितत्वेन आकाशस्य प्रदेशकल्पनया निराक्रियते । यद्येवं कल्पिता देशाः कथमाकाशस्य खतो निरवयवस्य देशभेदनिबन्धनं कार्य जातिप्रक्लप्तिलक्षणं जातिशब्दलक्षणं वा कुर्युः, येन तद्गता आतिरभिधीयेत? उच्यते-व्यक्तिस्थानीयानां देशानामद्वैतदर्शने यथाऽसत्यत्वम् 'असत्या व्यक्तयः स्मृताः' [वाक्यप० ३।१।२८] इति वक्ष्यते तथेहाप्याकाशस्य सत्यत्वे व्यक्तीनां न कश्चिद् विरोधः । अथवा मुख्या एवाकाशस्य देशा घटादीनामिवेत्याह - अदेशानां घटादीनां देशाः सम्बन्धिनो यथा । आकाशस्याप्यदेशस्य देशाः संयोगिनस्तथा ॥ [वाक्यप० ३।१।१६ ], इह देशोऽवयव उच्यते, घटादयश्चावयविनः स्वात्मनि निरवयवाः, ये हि तेषामवयवभूताः कपालादयस्ते आरम्भकाः कारणभूता व्यतिरिक्ता एव समवायसम्बन्धेन सम्बन्धिनः । एवमाकाशमपि केनचिदप्यनारब्धत्वादमूर्त व्यापि निरवयवमित्यात्मभूतदेशाभावाद् रव्यादयः संयोगिन एवास्य देशाः तथा तद्भेदादाकाशभेदे सर्वत्राभिन्नप्रत्ययानुगमाज्जातिरपि कल्प्या। आकाशं ह्यवच्छिन्दन्तोऽर्था देशास्तस्य भवन्ति तत्कृतावच्छेदं चाकाशमपि तेषामधारभावापत्तेर्देश इत्यन्योन्यदेशत्वम् । मूर्तामूर्तयोर्मूर्तास्त्वव्यापकाः परस्परमवच्छेदका न भवन्तीत्याधार एवैतेषां देशः।...............। तदेवं वैशेषिकदर्शनाश्रयेण जातिपदार्थव्याप्तिरुपपादिता।" इति हेलाराजकृतायां वाक्यपदीयवृत्तौ तृतीयकाण्डे जातिसमुद्देशे ॥
१ पूर्वत्वात् प्र०॥ २ “एवं शब्दस्य प्रयोजनसहितं खरूपादिकं लेशतो निर्णीतम् , तस्य च साधारण्येन वाचकरव्यवस्थापितम् । इदानी मतभेदेन केषाञ्चित् पदं वाचकमन्येषां वाक्यमिति वाचकात्मनो वाक्यस्वरूपस्य तावद् बितत्य खरूपप्रतिपादनाय द्वितीयकाण्डप्रारम्भः । तत्राचार्यमतभेदाश्रयेण तावद् वाक्योद्देशार्थमाह -आख्यातशब्दः सातो जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्धयनुसंहतिः ॥ पद्यमाधं पृथक् सर्वे पदं साकाङ्गमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ [वाक्यप० २११,२], एतेऽष्टौ वाक्यविकल्पा आचार्याणाम् । तत्राऽखण्डपक्षे 'जातिः सङ्घातवर्तिनी, एकोऽनवयवः शब्दः, बुझ्यनुसंहतिः' इति त्रीणि लक्षणानि । खण्डपक्षे तु 'आख्यातशब्दः, क्रमः, सङ्घातः, पदमाद्यम् , पृथक् सर्वपदं साकाइम्' इति पञ्च लक्षणानि । अत्रापि 'सङ्घातः, क्रमः' इत्यभिहितान्वयपक्षे लक्षण द्वयम् । 'आख्यातशब्दः, पदमाद्यम् , पृथक् सर्वपदं साकासम्' इत्यन्विताभिधानपक्षे लक्षणत्रयमिति विभागः । इह च 'पदप्रकृतिः संहिता' [ऋक्प्रातिशाख्ये ] इति प्रातिशाख्यम् , तत्र पदानां प्रकृतिः कारणं पदप्रकृतिः संहितेत्यखण्डपक्षः, पदानि प्रकृतियस्याः सेति खण्डपक्षःप्रादुर्भवति। तत्राख्यातशब्दो वाक्यमिति परस्ताच्छब्दार्थनिर्णय इति प्रकरणे दर्शयिष्यति, यथा-'आख्यातशब्दो नियतं साधनं यत्र गम्यते । तदप्येकं समाप्तार्थ वाक्यमित्यभिधीयते ॥' [वाक्यप० २।३२८] इति । 'केवलेन पदेनार्थः' [वाक्यप० २।४१] इत्यादिना श्लोकाष्टकेन 'सङ्घातो वाक्यम्' इति दर्शयिष्यति । 'यथैक एव सर्वार्थः' [वाक्यप० २१७ ] इत्यादिना 'देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः' वाक्यप० २।१४] इत्यन्तेन ग्रन्थेन तथा 'अव्यक्तः क्रमवान्' [वाक्यप० २।१९] इत्यादिना 'व्यावृत्तभेदो येनार्थः' इत्यन्तेन चाखण्ड एव स्फोटलक्षणः शब्दो वाक्यमिति दर्शितम् । उक्तं च- 'येनोच्चारितेन सास्नालाजूलखुरककुद विषाण्यर्थरूपं प्रतिपाद्यते स शब्दः [पा० म० भा० १११।१], तथा 'स्फोटः शब्दः ध्वनिः शब्दगुणः [पा. वा. ११७०] इति ।स्फोटश्च द्विविधो बाह्य आभ्यन्तरश्चेति । बाह्योऽपि जातिव्यक्तिभेदेन द्विविधः । तत्र जातिलक्षणस्य 'जातिः सङ्घातवर्तिनी' इति व्यक्तिलक्षणस्य ‘एकोऽनवयवः शब्दः' इति आभ्यन्तरस्य तु 'बुद्ध्यनुसंहृतिः' इत्यनेनोद्देशः । तत्र जातिव्यक्तिलक्षणस्य बाह्यस्य 'यथैक एव' [ वाक्यप० २१७] इत्यादिना पुनः 'अव्यक्तः क्रमवान्' [वाक्यप० २।१९] इत्यादिना ग्रन्थेन स्वरूपमुक्तम् । 'यदन्तः शब्दतत्त्वम् [वाक्यप० २।३० ] इत्यादिना श्लोकचतुष्टयेन आन्तरस्य स्वरूपमुक्तम् । 'सन्त एव विशेषा ये' [वाक्यप० २।४९ ] इत्यादिना 'समानेऽपि त्वशब्दत्वे' [वाक्यप० २५३ ] इत्यन्तेन श्लोकपञ्चकेन क्रमो वाक्यमिति दर्शयिष्यति । 'नियतं साधने साध्यम्' [बाक्यप० २१४७] इत्यनेन च श्लोकद्वयेन ‘पदमाद्यम् , पृथक् सर्वपदं साकाइम्' इति लक्षणद्वयं व्याख्यास्यति । अन्यदपि वार्तिककारीयं पारिभाषिकं शास्त्रे वाक्यलक्षणमस्ति 'आख्यातं साव्ययकारकविशेषणं वाक्यम् । एकति [पा. वा० २।१।१] इति च । जरन्मीमांसकोक्तं लौकिकमप्यस्ति 'अर्थैकत्वादेकं वाक्यं साकाझं चेद् विभागे स्यात्' [ मीमांसाद० २।१।४६ ] इति । अनयोः सङ्घातपक्षेऽन्तर्भावः । एते अपि प्रथममेव 'निघातादिव्यवस्थार्थम् [वाक्यप० २।३] इत्यादिना विचारयिष्यते। इत्थमष्टावेव वाक्यविकल्पा मतभेदेन सम्पद्यन्ते इति बोद्धव्यम् । यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org