________________
वाक्यार्थनिरूपणम्] द्वादशारं नयचक्रम्
४४५ अतोऽन्त्यपदज्ञानं पूर्वपदज्ञानसंस्कारपरिपाकवशात् सम्बन्ध्यन्तरव्यवच्छेदि परस्परसंसर्गविषयमुपजायते इति
पुनरनेन [भर्तृहरिणा] वृत्तावुक्तम् 'उदाहरणमात्रमेतत् , अन्यान्यपि वाक्यलक्षणानि दर्शयिष्यति' इति तद् वार्तिककारीयवाक्यलक्षणादेरन्तर्भावमनपेक्ष्येति मन्तव्यम् । उद्दिष्टानां च वाक्यलक्षणानां यथान्यासमग्रे कारिकाभिरेव दर्शितक्रमेण स्वरूपमुन्मीलयिष्यतीति नार्थ इह तत्प्रदर्शनेन ।
वाक्यलक्षणप्रसङ्गेन च तथा वाक्यार्थस्य सम्बन्धस्य च मतभेदं दर्शयिष्यति । तत्राखण्डपक्षे त्रिष्वपि लक्षणेषु प्रतिभा वाक्यार्थः, यथा दर्शयिष्यति 'विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः [वाक्यप० २११४४ ] इति। अवशिष्टेषु पञ्चसु लक्षणेसु मध्यादाख्यातशब्दो वाक्यमित्यस्मिन् पक्षे क्रिया वाक्यार्थः, यथा वक्ष्यति ‘क्रिया क्रियान्तराद् भिन्ना' [वाक्यप० २४१७ ] इत्यादि । यथा च 'प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् । फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ॥'[
1 इति । सङ्घातपक्षे क्रमपक्षे च संसर्गो वाक्यार्थः, स च 'सम्बन्धे सति यत् त्वन्यदाधिक्यमुपजायते । वाक्यार्थमेतं संप्राहुरनेकपदसंश्रयम् ॥' [वाक्यप० २।४२] इत्यादिना दर्शयिष्यते। तथा सङ्घातपक्ष एव 'सर्वमेदानुगुण्यम्' [वाक्यप० २।४४ ] इत्यादिना प्रकारान्तरेणाभिहितान्वयपक्षे प्रतिपाद्यमाने 'कार्यानुमेयः सम्बन्धो रूपं तस्य न विद्यते।' [वाक्यप० २१४६] इत्यनेन श्लोकेन विशेषविश्रान्तः पदानामेवार्थो वाक्यार्थ इति लक्ष्यते। पदमाद्यं पृथक् सर्वपदं साकाहमित्यस्मिंस्तु पक्षद्वये संसृष्ट एव प्रथमतरं प्रक्रम्यते वाक्यार्थः, यथा निरूपयिष्यति-'तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं । समाप्यते ।' [वाक्यप० २।१८], तथा 'पूर्वरथैरनुगतो यथार्थात्मा परः परः । संसर्ग एव प्रक्रान्तस्तथायेष्वर्थवस्तुषु ।' [वाक्यप० २१४१४ ] इति । 'अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् [वाक्यप० २।११४ ] इत्यनेन प्रयोजनं वाक्यार्थत्वेन प्रदर्शितम् , तत् केषाञ्चिद् मते सर्वलक्षणसाधारणमिति न प्रयोजनं वाक्यार्थो वाक्यलक्षणेषु पृथग विभज्यते । तदेवं 'प्रतिभा, संसर्गः, संसर्गवशान्निराकाहो विशेषावस्थितः पदार्थ एव, संसृष्ट एवार्थः, क्रिया, प्रयोजनं च' इति षड् वाक्यार्था इहोपदर्शिताः । संसर्गे संसर्गवशाद् विशेषावस्थिते पदार्थे च वाक्यार्थेऽभिहितान्वयः । संसृष्टे क्रियायां चान्विताभिधानम् । प्रतिभायां त्वेकरसैव प्रतिपत्तिरिति न तत्र काचिदभिहितान्वयचर्चा । प्रयोजने त्वभिहितान्वय एव ।
विधिनियोगभावनासंज्ञास्तु वाक्यार्था न निरूपिताः, यस्माद् भावनाक्रिययोः पर्यायता प्रायशो लक्ष्यते, केवलं प्रकृत्यर्थप्रत्ययार्थतायामत्र वैयाकरणमीमांसकयोर्विवादः । किञ्च, भावना सकर्मिकैव अकर्भिकापि क्रियेति सत्यपि भेदे साध्यत्वाविशेषादभेद एवानयोः । यथा धात्वर्थरूपा क्रिया साध्यभूतैव तथा भावनापीति कथमवान्तरभेदादू मेदोऽनयोर्भवेत् ? विधिनियोगौ तु लिङ्लोट्कृत्यान्तेष्वेव वाक्येष्वर्थावित्यसर्वविषयत्वादनादृताविहेति न तत्प्रदर्शनं कृतम् ।
तत्तदनादिवाक्यार्थविकल्पाहितवासनाप्रबोधजन्मा क्रमवद्भिरिवाकमैर्बहीरूपतया अध्यस्तैः पदार्थैश्चित्रीकृत इव विकल्पविशेषोल्लिख्यमान आकारो बहीरूपतया अध्यस्तो निर्विभाग एव शाक्यानां वाक्यार्थ इति प्रायशः 'प्रतिभा'सोदर एवासौ मन्तव्यः । वाक्यमपि तत्तदनादिवाक्यविकल्पाहितवासनाप्रबोधजन्म क्रमवद्भिरिवाक्रमैः पदैश्चित्रीकृत इव बहीरूपतया अध्यस्यमानो विशिष्टविकल्पोल्लिख्यमान आकारविशेष एव बहीरूपतया अध्यस्त इति प्रायशो बुद्ध्यनुसंहृतिरित्यस्य सोदरमेवेति न तन्मतानुसारेण वाक्यवाक्यार्थयोरिहासंग्रहो वेदितव्यः ।
नैयायिकादीनां तु पूर्वपूर्ववर्णस्मृतिसचिवोऽन्त्यो वर्णों नश्यदवस्थानुभवविषयीक्रियमाणः पदं यथा, तथैव पूर्वपूर्वपदस्मृतिसचिवमन्त्यमेव पदं नश्यदवस्थानुभवविषयीक्रियमाणं वाक्यमिति प्रायशः सङ्घातपक्ष एवान्तर्भवति । तथा पूर्वपूर्वपदार्थस्मरणसचिवेतान्त्येन पदेनोपजन्यमाना प्रतीतिर्वाक्यार्थ इति प्रायशः संसर्गपक्ष एवास्यान्तर्भाव इति न तदसङ्ग्रहेणाव्याप्तिरत्र वकन्या।
अथात्रानवयवे एकस्मिन् स्फोटात्मके वाक्ये प्रतिभालक्षणे च वाक्यार्थे वाक्यवाक्यार्थयोरध्यासरूपः सम्बन्धः, तद्वक्ष्यति'वाक्यवृत्तस्य वाक्यार्थे वृत्तिः' [वाक्यप० २।२६३] इत्यादि । अवशिष्टेषु पक्षेषु वाच्यवाचकभावलक्षणो योग्यताख्य एव शब्दार्थयोः सम्बन्धो मीमांसकदृष्टया । शाक्यदर्शनानुसारेण तु विज्ञानवादनयेन बौद्धे शब्दार्थे सर्वत्र कार्यकारणभाव एव, बाह्यार्थवादे तु तत्र सङ्केतलक्षणोऽसौ बोद्धव्यः । नैयायिकाद्यनुसारेण च सङ्केतलक्षण एवासौ । इत्येवमत्र वाक्यवाक्यार्थसम्बन्धानां संक्षेपतः खरूपं बोद्धव्यम् । सम्बन्धेषु मध्यादत्र अध्यासमेव दर्शयिष्यति, पदकाण्डे तु सर्वानभिधास्यति । तत्र वैयाकरणस्याखण्ड एवैकोऽनवयवः शब्दः स्फोटलक्षणो वाक्यम् , प्रतिभैव वाक्यार्थः, अध्यासश्च सम्बन्ध इति पद(र.)वादिपक्षदूषणपरः परं टीकाकारो व्यवस्थापयतीत्यस्य काण्डस्य संक्षेपः।" इति पुण्यराजरचितायां वाक्यपदीयटीकायाम् २।१।२॥
नय०५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org