________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ षष्ठे विधिनियमविध्यरे
अस्य निर्गमसूत्रम् - इमा णं भंते । रतणप्पभा पुढवी किं सांसता, असासता ? गोतमा ! सिया सासता सिया असासता । से केणट्टेणं भंते ! एवं वुञ्चति - सिया सासता सिया असासतत्ति ? गोमा ! देव्या सासता, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं संठाणपज्जवेहिं
5
ઘણન
सम्बन्धोऽन्वयव्यतिरेकवानन्त्यपदार्थव्य क्तिर्वाक्यार्थ इति । यथाह -
नादैराहितबीजायामन्त्येन ध्वनिना सह ।
३१४-२
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ [ वाक्यप० ११८४ ] इति ।
स च कृतसङ्गीतेरेव पदादिशब्दार्थज्ञस्य पुरुष [स्य ] प्रत्ययहेतुर्वाक्यार्थः शब्दो वा, नाकृतसङ्गीतेः, म्लेच्छप्रयुक्तशब्दार्थापरिज्ञानवत् ।
नैताः स्वमनीषिका उच्यन्ते, किं तर्हि ? अस्य नयस्य यतो निर्गमस्तन्निर्गमसूत्रम् - इमा णं भंते 10 तत्यादि यावत् संठाणपज्जवेहिंति । एतमेवागमं भेदवचनादिति हेतुत्वेनाह नयचक्रकारः,
१ पूर्वं [पृ० ३ पं० १४-१६] नयचक्रवृत्तिकृता उल्लिखितं जीवाजीवाभिगमसूत्रपाठमनुसृत्यैवात्र अयं मूलपाठो निर्दिष्टः, किन्तु अत्र “अस्य नयस्य यतो निर्गमस्तन्निर्गमसूत्रम् - इमा णं भंते रतणप्पभेत्यादि यावत् संठाणपज्जवेहिंति” इति नयचक्रवृत्तौ पाठदर्शनात् 'दव्वद्वयाए सासता, असासता वण्णपजवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं संठाणपज्जवेहिं' इत्यपि पाठः स्यात् ॥ २ "नादैः शब्दात्मानमवद्योतयद्भिर्यथोत्तरोत्कर्षेणाधीयन्ते व्यक्त परिच्छेदानुगुणसंस्कार भावनाबीजानि । ततश्चान्त्यो ध्वनिविशेषः परिच्छेदसंस्कार भावनाबीजवृत्तिलाभप्राप्तयोग्यतापरिपाकायां बुद्धावुपग्रहेण शब्दस्वरूपाकारं सन्निवेशयति ।" इति भर्तृहरिविरचितायां वाक्यपदीयस्ववृत्तौ । "नादैरिति ध्वनिभिः 'स्फोटमवद्योतयद्भिः' इति शेषः । आहितबीजायामिति, बीजानि शक्तयः, ता आधीयन्ते तस्यां शक्तिद्वारेण । ध्वनिना सह इति, तस्मिन् काले शब्दोऽवधार्यत इति सम्बन्धः | आवृत्तपरिपाकायामिति, आवृत्तः परिपाको यस्या इति, परिपाकः कार्योत्पादनं प्रति विशिष्ट आत्मलाभः । स च बीजानामपि वर्तते । सह सन्निधानात् । यतः प्रतिध्वनिविभागं विशेषप्रतिपत्तेः तस्य वृत्तिलाभः, अन्त्यध्वनिकाले चावस्थानात् कालान्तरावभासोऽप्यस्ति । स तु बीजानामपि परिपाको बुद्धेरव्यतिरेकाद् बीजानां बुद्धेरेव सम्बन्धित्वेनोपात्तः, न तु बुद्धेः परिपाकः 1 आवृत्तः परिपाको यस्यामिति विग्रहः । व्यक्तपरिच्छेदेति, व्यक्तपरिच्छेदो विशिष्टस्वरूपावधारणम्, व्यक्तस्य परिच्छेदः । संस्कारभावनेति शक्तय एवाधीयन्ते तास्तु संस्कारादिभिरुच्यन्ते । तथाहि - शक्तयश्चेतः संस्कुर्वन्ति विशिष्टं जनयन्तीति 'संस्कार' शब्दोक्ताः तद्रूपभावनं च भावना, यतश्चेतनेनाकारेण भावयन्ति । विशिष्टोत्तर बुद्धिजनकत्वेन बीजानि । तेन संस्कारश्चासौ भावना च बीजं चेति समानाधिकरणसमासः । परिच्छेदेति स्फोटपरिच्छेदोपायाः संस्कारादयः, तेषां वृत्तिलाभो विशिष्टकार्योन्मुखता । प्राप्तेति योग्यतैवात्र परिपाकः, स प्राप्तो यया स्फोटपरिच्छेदसमर्थेति यावत् ।” इति वृषभदेवविरचितायां वाक्यपदीयस्ववृत्तेर्व्याख्यायाम् । “नादैर्ध्वनिभिरा हितबीजायाम्, आहितं भावनाबीजं यस्यां सा तथोक्ता । आवृत्तपरिपाकायामिति, आवृत्तोऽभ्यस्तः परिपाको यस्याः सा तथोक्ता, प्रथमेन ध्वनिना किञ्चिदु भावनाबीजमाहितं तेन च कश्चित् परिपाकः कार्यजननशक्तिविशेषः, एवं द्वितीयेनेति । यद्यपि परिपाका भिन्नास्तथापि जातिमाश्रित्य 'आवृत्त' वाचो युक्तिः 'अष्टकृत्वो ब्राह्मणा भुक्तवन्तः' इतिवत् । भावृत्तेत्यस्य अन्या व्याख्या - आवृत्तोऽवधारणविघ्नभूतस्य रागादिकषायस्य परिपाकः परिपाचनं यस्यामिति, आवृत्तेन वा आवृत्त्या कषायपरिपाको यस्यामिति । क्वचित् तु 'आवृत्ति' इति पाठः । बुद्धावन्तःकरणे शब्दोऽवधार्यते अन्त्येन ध्वनिना सह यदा अन्त्यो ध्वनिरवधार्यते तदा 'गौः' इत्येवं शब्दोऽप्यवधार्यते इत्यर्थः । अवधारणापरपर्यायं ज्ञानमपि बुद्धयाख्यान्तःकरणाधिकरणमिति साङ्ख्या मन्यन्ते । एतच्चावधारणं चित्रबुद्धिरिति वार्तिककारीया मन्यन्ते । अथवा अन्त्येन ध्वनिना सह पूर्वनादैराहितबीजायां बुद्ध पश्चिमध्वन्यनन्तरं शब्दोऽवधार्यते गौरित्येकं पदमिति, यदव - धारणं समस्तवर्णविषयं स्मरणमित्याचक्षते । परमार्थतस्तु प्रत्यक्षज्ञानमेवैतत् ध्वनिसंस्कृतश्रोत्रेन्द्रियजनितत्वात् न ह्यन्यथा स्फुटप्रकाश उपपद्यत इति ।" इति रामचन्द्रविरचितायां मण्डनमिश्रकृतस्फोटसिद्धेर्व्याख्यायां गोपालिकायाम्, पृ० १३२ ॥ ३ तप्प भा० । एतदन्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ४ दृश्यतां पृ० ४ ठि०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org