________________
४५१
अस्य नयस्य आर्षमूलकत्वप्रदर्शनम्] द्वादशारं नयचक्रम् असासता [जीवाजीवाभि० ३।१७८] इति भेदवचनात् । वर्णादिपर्यायादिषु वर्णः पर्यवः समन्ताद् भविता एकवाक्यभावात् वर्णस्यैव परितो भवनाद् गमनाच्च । वर्णेभ्य व्याचष्टे च-वर्णादिपर्यायादिष्वित्यादि । पर्यायशब्दस्य परिगमनार्थस्य पर्यवशब्दस्य भाववाचिनो ग्रहणाद् वर्णादिपरिगमनानि यस्मिन् समन्ततो भावो वा, अवतेर्धातोर्भावार्थस्य रक्षणादिदण्डके पाठात् , वर्णादय एव पर्यायाः पर्यवा इति कर्मधारयो वा सरूपैकशेषत्वात् सङ्ग्रहीतसमासद्वयत्वात् , समन्ताद् गमनत्वात समन्ताद् भावित्वाच्च पर्यायाणां पर्यवाणां च, अत्र केनार्थेन पर्यायपर्यवार्थयोरेकस्योक्ती द्वितीयस्यापि सैव निरुक्तिः ? इति मन्यमान आह-वर्णः पर्यवः समन्ताद् भविता एंकवाक्यभावात् द्रव्यगुणकर्मणां सप्रभेदानां सत्तासमवायसम्बन्धप्रधानानां संसृष्टरूपाणामेकवाक्यभावादिति, बहुव्रीहिं दर्शयति -वर्णस्यैव परितो भावाद् गमनाच्चेति ।
कथं पुनस्तत्परिगमनं पर्यवनं च ? इति तद् भावयितुं सोपपत्तिकं सनिदर्शनमाह-वर्णेभ्य 10 एवेत्यादि यावद् गृह्यन्त इति । वर्णेभ्य एव रूपादिभ्यो गुणान्तरं 'चित्रवर्णो रक्तश्यामपाण्ड्वादिः
१ अधुनोपलभ्यमानेषु जीवाजीवाभिगमसूत्रग्रन्थेषु संठाणपज्जवेहिं इति पाठो नोपलभ्यते, किन्तु पूर्वमवश्यमासीत्, दृश्यतां पृ. ३ पं० १६ । अधुना तु अधोलिखितः पाठ उपलभ्यते-“इमा णं भंते। रयणप्पभा पुढवी किं सासया असासया? गोयमा! सिय सासता सिय असासया। से केणटेणं भंते! एवं वुच्चइ 'सिय सासया सिय असासया'? गोयमा! दव्वट्ठयाए सासता, वण्णपज्जवेहिं गंधपजवेहिं रसपजवेहिं फासपजवेहिं असासता ।" इति जीवाजीवामिगमसूत्रे ३।११७८१ अस्य व्याख्या- "इमा ण भंते इत्यादि । इयं भदन्त | रत्नप्रभा पृथिवी कि शाश्वती अशाश्वती? भगवानाह -गौतम! स्यात् कथंचित् कस्यापि नयस्याभिप्रायेणेत्यर्थः शाश्वती। स्यात् कथञ्चिदशाश्वती। एतदेव सविशेष जिज्ञासुः पृच्छति-से केणतुणमित्यादि । 'से'शब्दः 'अथ'शब्दार्थः, स च प्रश्ने, केन अर्थेन कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति ? भगवानाह-गौतम ! दवट्ठयाए इत्यादि, द्रव्यार्थतया शाश्वतीति । तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्तद्रव्यमेवार्थः तात्त्विकः पदार्थों यस्य न तु पर्यायाः स द्रव्यार्थः द्रव्यमानास्तित्वप्रतिपादको नयविशेषः, तद्भावो द्रव्यार्थता, तया द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेति यावत् शाश्वती, द्रव्यार्थिकनयमतपोलोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात् । वर्णपर्यायः कृष्णादिभिः गन्धपर्यायैः सुरभ्यादिभिः रसपर्यायैः तिक्तादिभिः स्पर्शपर्यायैः कठिनत्वादिभिः अशाश्वती अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वा अन्यथाभवनात् अतादवस्थ्यस्य चानित्यत्वात् । न चैवमपि भिन्नाधिकरणे नित्यानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथा उभयोरप्यसत्त्वापत्तेः, तथाहि शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत् पर्यायव्यतिरिक्तत्वाद् बालत्वादिपर्यायशून्यवन्ध्यासुतवत् , तथा परपरिकल्पिताः पर्याया असन्तः द्रव्यव्यतिरिक्तत्वात् बन्ध्यासुतगतबालत्वादिपर्यायवत् । उक्तं च - 'द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन घा ? ॥ १॥' इति कृतं प्रसङ्गेन । विस्तरार्थिना च धर्मसङ्ग्रहणिटीका निरूपणीया ।" इत्याचार्यश्रीमलयगिरिविरचितायां जीवाजीवाभिगमसूत्रवृत्तौ ॥ २“अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिंसादहनभाववृद्धिषु इति पठितत्वात्" इति नवमारसमाप्तौ नयचक्रवृत्तौ वक्ष्यते । हैमधातुपाठेऽपि “४८९ अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिंसादहनभाववृद्धिषु एकोनविंशतावर्थेषु" इति पाठः । मुद्रिते पाणिनीयधातुपाठे तु “६०१ अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु" इति पाठ उपलभ्यते ॥ ३ “सरूपाणामेकशेष एकविभक्तौ” पा० १।२।६४॥ ४एकवाच्यभावात् प्र०॥ ५ “एकं चित्रं रूपं नीलादिरूपैरेकरूपारम्भात् । यथा हि शुक्लादिर्विशेषो रूपस्य तथा चित्रं रूपादिविशेष एव, यद्यपि शुक्लादिशब्दैन व्यपदिश्यते तथापि खशब्देन व्यपदेशादस्तित्वम् । अथ विरुद्धानां नीलादीनां कथमेकरूपारम्भकत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org