________________
४५२
न्यायागमानुसारिणीवृत्यलतम् [षष्ठे विधिनियमविध्यरे एव वर्णान्तरं तदारम्भनियमादेव पृथिव्यादिषु भवति समन्ताद् गच्छति वा । तानि प्रागभावप्रध्वंसात्मकानि गृह्यन्ते, तस्मात् तैर्वर्णादिपर्यवैरशाश्वती, वर्ण एव च पर्यवो गुणः यथासम्भवं श्यामादिः संयोगविभागपृथक्त्वपरत्वापरत्वादिश्च, तैः
पाकजो वा तदारम्भनियमादेवेति, यथोक्तम् - येषामधिकृतमारम्भसामर्थ्यम् [ ] ईति, पृथिव्यादिषु 5 वर्णान्तरं भवति समन्ताद् गच्छति वा । तानि वर्णादिपर्यवाः पर्याया वा घटादीनि वा द्रव्याणि ३१५-१आरब्धानि तैरप्यन्यारब्धद्रव्याणि प्रागभावप्रध्वंसात्मकानि वर्णाानात्मकान्येव मृत्पिण्डाद्यवस्थानानि
घटादीनि कपालादीनि च गृह्यन्ते । तस्मात् तैः प्रागभावप्रध्वंसात्मकैर्घटाद्यात्मभूतैर्वर्णादिपर्यवैरशाश्वती कार्यकारणभूतैरित्यर्थः । कर्मधारये वा वर्ण एव च पर्यवो गुणो यथासम्भवमित्यादि, गुणा इमे, तैः 'अशाश्वती' इति च वर्तते वर्णादिपर्यवैरिति सम्बन्धः । यथासम्भवमारब्धानारब्धद्रव्यगताः केचिच्छया10 मादयोऽनारब्धचतुर्विधाणुगताः तदारब्धद्रव्यान्तरे कारणगुणपूर्वाश्चतुर्विधे, पार्थिवेष्वेव रक्ताद्याः पाकजाः,
यथा शुक्लानामिति । यथा हि बहूनि शुक्लरूपाण्येकं शुक्लरूपमारभन्त इत्युपलब्धम् , तथा नीलादीनामपि चित्ररूपारम्भकत्वं दृष्टत्वादभ्युपगन्तव्यम् ।” इति प्रशस्तपादभाष्यव्याख्यायां व्योमवत्यां पृथिवीनिरूपणे । "क्वचिदेकस्यामपि व्यक्तावनेकप्रकाररूपसमावेशः यत्र नानाविधरूपसम्बन्धसम्बन्धिभिरवयवैरवयवी आरभ्यते । कथमेतदिति चेत् , उच्यते-यथावयौरवयव्यारब्धस्तथावयवरूपैरवयविनि रूपमारब्धव्यम् , अवयवेषु न शुक्लमेव रूपमस्ति नापि श्याममेव, किन्तु श्यामशुक्लहरितादीनि । न च तेषामेकं रूपमेवारभते नापराणीत्यस्ति नियमः, प्रत्येकमन्यत्र सर्वेषामपि सामर्थ्यदर्शनात् । न च परस्पर विरोधेन सर्वाण्यपि नारभन्त एवेत्यपि युक्तम्, चित्ररूपस्यावयविनः प्रतीतेररूपस्य द्रव्यस्य प्रत्यक्षत्वाभावाच्च । न चाववयवरूपाणि समुचितान्यत्र चित्रधिया प्रतीयन्ते तैरेवावयवी प्रत्यक्ष इति कल्पनाप्रामाण्यम् , अन्यत्रापि तथाभावप्रसङ्गेनावयविरूपोच्छेदप्रसङ्गः । तस्मात् सम्भूय तैरारभ्यते, तच्चारभ्यमाणं विविधकारणस्वभावानुगमाच्छयामशुक्लहरितात्मकमेव स्यात् 'चित्रम्' इति च व्यपदिश्यते।" इति प्रशस्तपादभाष्यव्याख्यायां कन्दल्यां पृथिवीनिरूपणे ॥
१ दृश्यतां टि० ८॥२ मधिपत्तिकृत प्र० । दृश्यतां पृ० ४३७ पं० १२॥ ३ (इत्यादि।)॥४°नि तैरप्यन्यारब्ध भा० प्रतौ नास्ति ॥ ५ (°द्यात्मका ? ? ? ) ॥ ६ कथं धारये प्र० ॥ ७ व इत्यादि प्र० ॥ ८ “इदानीं रूपादीनाहउक्ता गुणाः [ वै० सू० ७।१।१ ], रूपादिसूत्रेणोद्दिष्टा इत्यर्थः । गुणलक्षणं चोक्तम् [वै० सू० ७।१।२ ], 'द्रव्याश्रयी' [१११११५] इत्यादिना द्रव्यकर्मभ्यां वैधयं कथितमित्यर्थः । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् [वै० सू० ॥१।३ ], तथा युक्तं 'रूपरसगन्धस्पर्शवती पृथिवी' [११] इत्यादि । तत्र प्रथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याः [ वै. सू० ॥११४ ], घटादेः पार्थिवस्य विनाशात् तद्गतानामपि रूपादीनां विनाश आश्रयविनाशात् । अग्निसंयोगाश्च [वै० सू० १५], अग्निसंयोगाच्च पार्थिवेषु परमाणुषु रूपादीनां विनाशः कार्ये समवेतानां त्वाश्रयविनाशादेव । परमाणुष्वग्निसंयोगादेव कुतः१ गुणान्तरप्रादुर्भावात [ वै० सू० ७११६ 1. यस्माच्छयामादिगुणेभ्यो व्यतिरिक्तं गुणान्तरमुत्पद्यते ततः पूर्वे परमाणुगुणा विनष्टाः गुणवति गुणानारम्भात् । एतेन नित्येष्वनित्यत्वमुक्तम् [ वै० सू० १११७ ], एतेन गुणान्तरप्रादुभावेन नित्येषु परमाणुषु रूपादीनामनित्यत्वमुक्तं पार्थिवेष्वेव, यतः अप्स तेजसि वायौ च नित्या द्रव्यनित्यत्वात् [ वै० सू० ॥१८ ], सलिलानलानिलपरमाणुरूपादयो नित्या [आश्रयनित्यत्वात् विरोधिगुणान्तराप्रादुर्भावाच नाग्निसंयोगाद् विनाशः । अनित्येष्वनित्या द्रव्यानित्यत्वात् [ वै० सू० १९ ], अनित्येषु सलिलादिषु' अनित्या रूपादय आश्रयविनाशे तेषामपि विनाशात् । कारणगुणपूर्वाः पृथिव्यां पाकजाश्च [ वै० सू० ॥१।१० ], अनित्यायां कार्यरूपायां पृथिव्यां कारणगुणपूर्वी रूपादयो जायन्ते, नित्यायां तु परमाणुखभावायां पाकजाः पाकादग्निसंयोगाजाताः । अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते [ वै० सू० ७१।११ ], कार्ये उदकाद्यवयविनि समवायिकारणरूपे रूपादय आरभ्यन्ते, पाकजास्तु जलाद्यणुषु नैव सन्ति विरोधिगुणान्तराभावात् । अगणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः [वै० सू० १११२], अगुणस्य द्रव्यस्यैवोत्पन्नस्य कारणगुणैर्गुणा जन्यन्ते न गुणकर्मणाम् , अशेषावयवगुणेकार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org