________________
४५३
आगमानुसारेण नयस्वरूपप्रदर्शनम् ] द्वादशारं नयचक्रम् गन्धादिभिश्च । शाश्वती द्रव्यार्थतः। इति षष्ठो विधिनियमविध्यरः।
संयोगविभागौ सक्रियेषु, पृथक्त्वं सर्वद्रव्येषु, परत्वापरत्वे दिग्देशकालापेक्षे तेल्लिङ्गे, आदिग्रहणाद् गन्धशब्द-ज्ञानादयोऽसाधारणगुणाः पृथिव्याकाशात्मादीनाम् , एकत्वादिसङ्ख्याः सर्वद्रव्यसाधारणा एव, गन्धादिभिरिति तृतीयानिर्देशादेभिश्वाशाश्वती । [शाश्वती] नित्या रूपादिमूर्तिसंस्थानसामान्यधर्मेद्रव्यार्थतो रत्नप्रभेत्यर्थः ।
इति षष्ठो नयो नैगमभेदो द्रव्यास्तिकान्तःपाती परिसमाप्त 'इतिशब्दसमाप्त्यर्थत्वात् , विधि. नियमविध्यर इति नामनिर्देशोऽयं नयचक्रविभागविन्यस्तचक्रार इवार इति ।
समवायाभावात् कर्मत्ववत् । एतेन पाकजा व्याख्यानाः [ वै० सू० १११३], अग्निसंयोगानिवृत्तेषु श्यामादिषु पाकजा जायन्ते इति तेऽपि गुणरहिते सिद्धाः । संयोगवति संयोगारम्भवद् गुणवति पाकजा इति चेत् , न, एकद्रव्यवत्वात् [वै. सू० ११।१४ ], एकद्रव्यवन्तः पाकजाः, ते कथं तत्रैवारभ्येरन् विरुद्धत्वात् ? संयोगस्य तु संयोगवति आरम्भो न दुष्यति अनेकदव्यत्वात् ।” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० २५ ॥
१ "एकदिकालाभ्यां सन्निकृष्टविप्रष्टाभ्यां परमपरम् [वै० सू० ७।२।२५], एकदिक्को पिण्डौ दिकृतयोः परत्वापरत्वयोः कारणम्, एककालो वर्तमानकालसम्बद्धौ काल कृतयोः परत्वापरत्वयोः कारणम् । तौ च सन्निकृष्टविप्रकृष्टबुद्ध्यरेक्षया पिण्डौ कारणम् । कारणपरत्वात् कारणापरत्वाच्च [वै० सू० ॥२।२६], परापरदिक्प्रदेशसंयोगावसमवायि. कारणम् । तथैव परापरकालप्रदेशसंयोगौ । दिकालप्रदेशैः संयोगात् सन्निकृष्टविप्रकृष्टयोः पिण्डयोः सन्निकृष्टविप्रकृष्टबुद्ध्यपेक्षया सन्निकृष्टेऽपरत्वं विप्रकृष्टे च परत्वम् ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P.पृ० २८॥ २"काल इदानीं कथ्यते-अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि [वै० सू० २।२।६], एतान्यपरत्वव्यतिकरादीनि काललिङ्गानि । तत्र परेण दिप्रदेशेन संयुक्ते यूनि परत्वज्ञाने जाते स्थविरे चापरेग दिक्प्रदेशेन संयुक्तेऽपरत्वज्ञानोत्पत्तौ कृष्ण केशादिवलीपलितादिपर्यालोवनया येन निमित्तेन यूनि अपरत्वज्ञान स्थविरे च परत्वज्ञानं जायते स कालः । तथा तुल्यकार्येषु कर्तृषु 'युगपत् कुर्वन्ति, अयुगपत् कुर्वन्ति' इति यतः प्रत्ययो जायते स कालः । तथैकक्रियाफलमुद्दिश्य ओदनाख्यं भूयसीनामधिश्रयणादिक्रियाणां प्रबन्धप्रवृत्तौ तुल्यकर्तरि 'चिरमद्य कृतम् , क्षिप्रमद्य कृतम्' इति यतः प्रययौ भवतः स काल इति । तस्य गुणाः सङ्ख्य परिमाणपृथक्त्वसंयोगविभागाः ।............इत इदमिते यतस्तद्दिशो लिङ्गम् [वै० सू. २।२।१२], मूर्त द्रव्यमवधिं कृत्वा यत एतद् भवति इद(य?)मस्मात् पूर्वेत्यादिप्रत्ययः तद् दिशो लिङ्गम् । गुणाः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागाः।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० १३ ॥ ३ "घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः-सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।.............. श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः ।........... सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः,..."सर्वेषामनुकूलतया वेदनीयं सुखम् , सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् , इच्छा कामः, क्रोधो द्वेषः, कृतिः प्रयत्नः, विहितकर्मजन्यो धर्मः, निषिद्धकर्मजन्यस्त्वधर्मः, बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ।" इति अन्नम्भट्टविरचिते तर्कसङ्ग्रहे॥ ४“इदानीं सङ्ख्य दीनुपक्रमते, भेदव्यवहारहेतुः सङ्ख्या, साधुना रूपादिव्यतिरिक्तेत्येतदर्थमाह - रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वं तथा पृथक्त्वम् [वै० सू० १२।१], 'एकोऽयम्' इत्यादिप्रत्ययो न रूपादिनिमित्तः तत्प्रत्ययविलक्षणत्वात् । रूपादिनिमित्तो हि 'रूपवान्' इत्यादिप्रत्ययः स्यात् । तस्मादर्थान्तरनिमित्तः । एकत्वैकपृथक्त्वे कार्येषु कारणगुणपूर्वे । द्वित्वादेरेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः । तथैव द्विपृथक्त्वादेः पृथक्त्वेभ्यः, किन्तु एकपृथक्त्वाद्यपरसामान्याभावः । तयोर्नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते [वै० सू० ॥२॥२]. यथा द्रव्यनित्यत्वात् तेजःपरमाणुरूपस्पशौं नित्यौ एवमेकत्वैकपृथक्त्वे नित्यद्रव्यवर्तिनी निये, यथा चानित्ये तेजसि द्रव्यानित्यत्वाचानित्यौ रूपस्पशौं तथैव कार्यवर्तिनी अनित्ये एकत्वैकपृथक्त्वे। निवृत्तिश्च (निष्पत्तिश्च T)[वै० सू० ॥२॥३], यथा च तेजसि कार्ये कारणगुणपूर्वा रूपस्पर्शयोस्त्पत्तिरेवमेकत्वपृथक्त्वयोः । एवं गुरुत्वद्रवत्वस्नेहानाम् ।" इति चन्द्रानन्दविरचिताय वैशेषिकसूत्रवृत्ती P.पृ. २७॥ ५ इतिशब्दः य इति इतिशब्द: भा०॥ ६श्चकार प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org