________________
४५४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [षष्ठविधिनियमविध्यरसमाप्तिः ___ अयं च षड्दो द्रव्यास्तिक उपवर्णितः । एषु च पर्यवशब्दो भाववचनः, पर्यायशब्दः समन्ताद्गतिवचनः । विशेषेण तु यथादर्शनमेव विध्यादिषु प्रत्येक व्याख्यातखरूपभेदमनुगन्तव्यं सर्वगतिसामान्यमत्यजद्भिः । द्रव्यशब्दार्थस्तत्र तत्र व्याख्यात एव।
। अयं चेत्यतीतान् पञ्चैतं च षष्ठं सम्पिण्ड्य एकस्य त्रिशतभेदस्य सङ्केपेण षड् भेदाः, तत्र 'विधिः 'विधि[विधिः विधिविधिनियम] 'विधिनियमः 'विधिनियमं षष्ठश्चायं विधिनियमविधिरिति षड्नेदो द्रव्यास्तिक उपवर्णितः, षडप्येते भेदा द्रव्यास्तिकस्यैवेत्यर्थः ।
. एषु च षट्सु नयेषु पर्यवशब्दो भाववचनः समन्ताद् भवनात् पर्यवः सर्वात्मना भवनात् । पर्यायशब्दः समन्ताद्गतिवचनः, समन्ताद् गमनात् पर्यायः, द्रव्यस्य वर्णाद्यात्मना परितो गमनात् । 10 अयं च विग्रहार्थः षण्णामपि सामान्येन द्रष्टव्यः, विशेषेण तु यथादर्शनमेव विध्यादिषु प्रत्येकं व्याख्यात३१५-२ स्वरूपभेदमनुगन्तव्यं सर्वगतिसामान्यमत्यज द्भिः, सर्वस्य सर्वात्मकत्वात् एकस्य सर्वात्मकत्वात् एकैकस्य
सर्वात्मकत्वात् सर्वस्य चैकैकात्मकत्वात् सर्वगतिमेव यथादर्शनमाह । द्रव्यशब्दार्थस्तत्र तत्र व्याख्यात एव यथादर्शनं द्रव्यप्राधान्यात् , पर्यायोपसर्जनादिहान्ते पर्यायशब्दो व्याख्यातः ।
8 इति द्रव्यार्थनयविकल्पाः समाप्ताः॥ XXXXXXXXXXXXXXxxxxxxxxxxx
१ अत्र 'एषु च समन्ताद् भवनात् पर्यवः, समन्ताद् गमनात् पर्यायः।' इत्यपि पाठः स्यात् ॥ २ दृश्यतां पृ० ४५१ पं० ३ ॥ ३ष्टद्रव्यः प्र० ॥ ४ पर्ययों प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org