________________
ॐ अहम्
।
- अथ सप्तम उभयोभयारः। यद्यसत् कार्य नोत्पद्येत असन्निहितभवितृकत्वात् खपुष्पवत् । खपुष्पमपि वोत्पद्येत असन्निहितभवितृकत्वात् कार्यवत् ।
खपुष्पसत्त्वस्याश्रयो नास्तीति चेत्, न, इतरत्रापि तुल्यत्वात् । घटस्य मृदोऽतत्त्वाद् घटादिसत्त्वस्याप्याश्रयो नास्त्येव उत्पत्स्यमानस्य असतः सत्तासमवायित्वात् ।
इदानीं पर्यायनयप्रथमशिराप्रदिदर्शयिषया अनन्तरनिर्दिष्टवैशेषिकोभयविधिनिराचिकीर्षया चोत्तरः समनन्तरानुलोमत्वात् पूर्वविरुद्धत्वानिवृत्तनिरनुशयत्वाच्च नयानामसत्कार्यवादमेव दूषयितुमाह - यद्यसदित्यादि । आस्तां तावदस्मन्मतम् , पूर्वनयमतेनैवैतत् त्वदर्शनमनुपपन्नमिति ब्रमः, द्रव्यार्थिकनयानां सन्निहितभवितृकभवनाभ्युपगमाद् नासत् कार्यमुत्पत्तुमर्हति, असन्निहितभवितृकत्वात् , खपुष्पवत् । खपुष्पमपि 'वोत्पघेतासन्निहितभवितृकत्वात् कार्यवत् । षट्पदार्थसंसर्गवादस्य सत्तासमवायबलेन प्रवृत्तत्वात 10 सत्तासमवायोन्मूलनात् तत्रस्यैवोन्मूलनमित्यभिप्रायेणायं सत्तासमवायविचारप्रस्ताव इति ।
खपुष्पसत्त्वस्याश्रयो नास्तीति चेत् । स्यान्मतम् – कारणद्रव्येष्वाश्रयभूतेषु सत्स्वेव सत्तासमवायात् कार्य प्रागसत् पश्चादुत्पद्यते, खपुष्पं तु निराश्रयत्वाद् नोत्पत्स्यते कार्यवैधादिति । एतच्च न, इतरत्रापि तुल्यत्वात् , कार्यमपि हि निराश्रयमसत्त्वादेव खपुष्पवत् , अतो न कश्चित् कार्यखपुष्पयोर्वि-१७ शेषः । किं कारणम् ? घटस्य कार्यस्य मृदोऽतत्त्वात् , मृद्रव्यस्य पिण्डादिरूपैर्भवितृणो न तत्त्वं त्वन्मते ।। पिण्डादि कार्यमसत्त्वात् । तस्माद् घटादिसत्त्वस्याप्याश्रयो नास्त्येव खपुष्पादिसत्त्वस्येव । त्वन्मतेनैवोत्पत्स्यमानस्य पिण्डघटादेः कार्यस्य निःसत्तासमवायस्याऽसतः सत्तासमवायित्वात् सत्तासमवायित्वाभ्युपगमात् उत्पन्न ह्याश्रयमाश्रयन्त्याश्रयिणः सत्तादयः [ ] इति सिद्धान्तात् तस्यां ह्यवस्थायां
१ भयमविधि प्र० ॥ २ 'रुद्धानिवृत्त भा० । 'रुद्धान्निवृत्ति य० । दृश्यतां पृ० २२१ पं० ८ ॥ ३ दृश्यतां पृ० ३१७-२ पं० २॥ ४ चोत्पद्यतासन्नि प्र० । दृश्यतां पृ० ३२३-१ । अत्र वोत्पद्यतामसन्निहित. भवितकत्वात् इत्यपि पाठः स्यात् , तुलना पृ० ३५१-२॥ ५ स्यासतः सतः सत्ता भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org