________________
४५६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् सप्तम उभयोभयारे अथाश्रयिसमवायाहतेऽपि कार्य खेनैवास्तित्वेनोत्पन्नमाश्रयो भवति खपुष्पवैधhण, एवं तर्हि तस्य स्वत एव सतः किं तदतिरिक्तसत्तासम्बन्धकल्पनया प्रयोजनम् ? कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा। यद्यसत् सद् भवति, विशेषहेतुर्वक्तव्यः-खपुष्पं कस्मान्नोत्पद्यते? घटादि कस्मादुत्पद्यते? 6 अथोच्येत-कारणवदकारणविशेषात् । यद्यकारणं नोत्पद्यते तत्पुरुषवाच्यं ततः कार्य नोत्पद्यत एव कारणमेवोत्पद्यते इति स एव कारणवादः परिगृहीतः स्यात् । अथ बहुव्रीहिसमासाश्रयणम् , तन्नोत्पद्यतेऽविद्यमानकारणत्वाद् घटवत्;
स्वयमसतः कार्यस्याश्रयस्वाभावात् खपुष्पमुत्पन्नमाश्रयम्त्वाश्रयिण इत्यहो परमताकिङ्करत्वं भवतामिति ।
सत्तायाः समवायाभावे च कुतः कार्योत्पत्तिः ? इति । 10 अथाश्रयीत्यादि । अथैतस्मात् खपुष्पतुल्यत्वापत्तिदोषभयात् सत्ताया आश्रयिण्याः समवायाहतेऽपि सत् कार्य तदाश्रयभूतं स्खेनैवा स्तित्वेन स्वभावसत्तयैवोत्पन्नमाश्रयो भवति कदाचिदप्यनुत्पत्स्यमानस्य खपुष्पस्य वैधयेणेतीष्यते, तत एवं तहीत्यादि, इष्यत एवैतदस्माभिः 'स्वेनैव महिना तत् सत्' इति, न तु त्वया । त्वया चैवमस्माभिरिवेष्यमाणे खरविषाणाद्यसद्विलक्षणस्य तस्य कार्यस्य स्वत एव सतः किं तदतिरिक्तसत्तासम्बन्धकल्पनया प्रयोजनम् ? न किञ्चित् तेन कल्पितेनेत्यर्थः, सत्तासम्बन्धानर्थक्यम् , 15 अतः सर्वद्रव्यगुणकर्मादिकारणसमवायिकार्यसंसर्गवादो निवर्तते तस्मादेव । तदनिष्टानभ्युपगमे यो मया ११६.२ प्रागुक्तः कार्यखपुष्पयोराश्रयकृतविशेषाभावो वा, तत्र तुल्ये तयोरसत्त्वे कार्यमेवोत्पद्यते खपुष्पमेव
नोत्पद्यत इति को विशेषहेतुः ? तद्वयक्तिः - यद्यसदित्यादि गतार्थं यावद् घटादि कस्मादुत्पद्यत इति , इत्यतः कार्यखपुष्पयोरविशेषदोषस्तवस्थः ।
___अथान्यथैतदोषपरिहारार्थमुच्येत-कारणवदकारणविशेषात् , यथासङ्ख्यं सकारणं घटादि 20 खपुष्पमकारणमित्यस्ति विशेषः, कारणैः समवाय्यसमवायिभिर्घटीदि सम्बध्यते न तु खपुष्पादीति । स
एव स्वाभिप्रायं विवृणोति - यद्यकारणं नोत्पद्यते तत्पुरुषवाच्यमिति 'न भवति कारणमित्यकारणम्' इत्थं तत्पुरुषसमासश्चेदिष्टः ततः कार्य नोत्पद्यत एव कारणमेवोत्पद्यते, तस्यैव विधिविध्यादिप्राच्य'नयदर्शनात् कार्यतयोत्पादात् स एव कारणवादः परिगृहीतः स्यात्, स च मया नेष्टः । तस्मात्
तत्पुरुषे नैव विचारः कार्यः । अथ यस्य न कारणं तदकारणमिति बहुव्रीहिसमासाश्रयणं तन्नोत्पद्यते 25 कार्य तस्यां बहुव्रीहिकल्पनायामविद्यमानकारणत्वात् खपुष्पवत् । घटवदिति वैधर्म्यम् , यथा घट उत्पद्यते न तथेति । ततः किम् ? ततोऽनुत्पन्नत्वात् तदनाश्रयः सत्तायाः, सत्तानाश्रयत्वात् तत्सम्बन्धाभावाच्च न
१श्रयंत्यायिण प्र० ॥ २ 'किंकत्वं भा० । ( परमतकिङ्करत्वं ?)॥ ३ सत्ताया प्र० ॥ ४ अथैव तस्मात् प्र० । (अथ वैतस्मात् ?)॥ ५ तुल्ये जयो प्र० । (तुल्येऽनयो ?)॥ ६°टादिभि सम्ब' पा० डे. भा० । टादिभिः सम्ब० वि० । (टादि अभिसम्ब?) ॥ ७ वाच्यं इति भा० । वाच्य इति य० । (°वाक्यमिति ? वाक्ये इति)॥ ८°समाश्रयणं प्र० । दृश्यतां पृ० ३२०-१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org