________________
सत्तासमवायनिराकरणम् ] द्वादशारं नयचक्रम्
४५७ एवं तर्हि सर्वासत्त्वप्रसङ्गः परमाण्यवादीनामकारणत्वादनुत्पन्नत्वादनाश्रयत्वे सत्तासमवायाभावः, तेषां ह्याश्रयत्वे सत्त्वसमवाय इष्टः, ततः सत्तासमवायाभावात् कारणानां परमाण्वादीनामभावात् कार्यस्य कार्यसमवायिनां च खपुष्पाद न कश्चिद् विशेष इति सर्वशून्यतेति सर्वविरोधाः।
अथोच्येत- नित्योत्पन्नत्वात् खसद्भावेनैव सन्ति परमाण्वाकाशादीनि, कार्य-5 द्रव्यगुणकर्मणामेव सत्तासमवायात् सत्त्वमिति । एवं तर्हि आकाशपरमाण्वादिषु अनुपनिपातिखरूपत्वादात्माभेदाच न केनचित् सम्बन्धोऽस्याः स्यात् । असति च सम्बन्धे यथा सत्ता सती एव पदार्थत्वात् स्वरूपसद्भावाच तथा तान्यपि द्रव्यगुण
सत्कार्यमिति । अत्रोच्यते - एवं तर्हि सर्वासत्त्वप्रसङ्ग इत्यादि यावत् सर्वशून्यतेति सर्वविरोधा इति । परमाणवोऽकारणत्वाद् वियदादीनि च नोत्पद्यन्ते, अनुत्पन्नत्वादनाश्रयः सत्तायाः, तदनाश्रयत्वे 10 सत्तासमवायाभावः, तेषां ह्याश्रयत्वे सत्त्वसमवाय इष्ट इति तद्वैधयं दर्शयति । ततश्च सत्तासमवाया-३१७ १ भावात् खपुष्पवत् कारणानां परमाण्वादीनामभावः, तदभावात् कार्यमकारणत्वादनाधारं क समवैतु ? तस्मात् कारणासमवायित्वात् खपुष्पात् तस्य न कश्चिद् विशेषः, अतः प्रागुक्ताविशेषदोषस्तदवस्थः कार्यसमवायिभिः परमाणुभिः सहितस्य कार्यस्येदानी प्रापितस्त्वयैव, कार्ये समवेतानां रूपादिघटत्वाद्युत्क्षेपणादीनां कार्यसमवायिनां चेति विग्रहान्तरात् । ततः किमिति चेत् , उच्यते - इति सर्वशून्यता, इति सर्वभावा न सन्तीति ।। ब्रुवतः परमशून्यवादिता भवतः इतिशब्दनिगमनार्थत्वात् । इति सर्वविरोधाः, इत्थं स्ववचनाभ्युपगमप्रत्यक्षानुमानरूढिविरोधाः सर्वासद्वादिनः प्रमाणाभावात् । कारणाकारणकार्याकार्यविरोधाविरोधलक्षणभेदसूत्राणां सदाद्यविशेषसूत्रस्य च सत्तासमवायप्राणोत्थानत्वात् किमवशिष्टं स्याच्छास्त्रस्य तन्नानात्वप्रयोजनस्य वैशेषिकाख्यस्य कार्यकारणखपुष्पाविशेषादिति । - इत्थं प्रागसतः सकारणस्य कार्यस्य खपुष्पाविशेषो मा भूदिति अथोच्येत-नित्योत्पन्नत्वा- 20 :, वित्यादि । स्वसद्भावेनैव सन्ति पृथिव्यादिचतुर्विधपरमाण्वाकाशकालदिगात्ममनांसि द्रव्याणि सत्तासमवायौ गुणाश्च विभुपरिमण्डलादयः । किन्तु कार्यद्रव्यगुणकर्मणामेव सत्तासमवायात् सत्त्वमिति । अत्रोच्यते - एवं तह-त्यादि यावत् तत्पदार्थत्ववदिति । यथाकाशपरमाण्वादिषु नोपनिपतितुं शीलमस्याः सत्तायास्तथा कार्यद्रव्यगुणकर्मस्वपि सत्तास्वरूपत्वादनुपनिपातिस्वरूपत्वम् , अनुपनिपातिस्वरूपत्वाच्चात्माभेदस्तस्याः सर्वपरमाण्वाकाशादिष्वगंगनादिपदार्थेष्वात्माभेदाच्च न केनचित् सम्बन्धोऽस्याः स्यात् । असति च ३१७-२ सम्बन्धे यथा सत्ता सत्ताद्रव्यत्वगुणत्वादिसम्बन्धाभावे सत्येव पदार्थत्वात् स्वरूपसद्भावाच्च 'स्वात्मस्वरूपं खात्मनि आदधाति' इत्येवंस्वरूपा तथा सत्तादिसमवायमन्तरेण तान्यपि कार्यद्रव्यगुणकर्माणि भवन्तु आकाशपरमाण्वादिवत् सत्तावञ्चेति किं तद्वयतिरिक्तसत्ताद्रव्यत्वादिसमवायकल्पनया ? तस्माद्धेतुफलवन्ध्य
१°त्वात् नाश्रयः य० ॥ २'यत्वा(यत्वात् ?) सत्ता भा० । 'यत्व सत्ता य० ॥ ३°णात्सम प्र०॥ ४ कार्यसम पा० ॥ ५ दृश्यतां वैशेषिकदर्शनस्य प्रथमाध्यायस्य प्रथममाह्निकम् । दृश्यतां पृ० ४३७ दि० ५,८, पृ० ४४० टि० ५,६॥ ६सत्तासत्तालमवाय भा० । दृश्यतां पृ० ४५५ पं० ११ ॥ ७°गमनादि प्र. ..
नय०५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org