________________
४५८
न्यायागमानुसारिणीवृस्यलङ्कृतम्
[ सप्तम उभयोभयारे
कर्माणि भवन्तु तत्पदार्थत्ववदिति सत्तासम्बन्धात् सन्ति द्रव्यादीनीत्ययुक्तम् । ततोऽनुपपन्नविकल्पत्वात् सत्तासमवायस्य सत्ताद्रव्यत्व गुणत्वकर्मत्वरूपत्वादिसम्बन्धात् सद्रव्यगुणकर्मरूपादय इत्याद्यविशेष-लक्षणविरोधाविरोधारम्भानारम्भादिविशेषधर्माभिधानमयुक्तं सर्ववाक्यानृतत्ववत् ।
० त्वादभावः स्यात् सत्ता समवाययोः खपुष्पवदिति । इति सत्तासम्बन्धात् सन्ति द्रव्यादीनि इत्ययुक्तम्, तस्मात् सत्तासम्बन्धाद् द्रव्यं सद् गुणः सन् कर्म सच्चेत्ययुक्तम् । आदिग्रहणाद् 'द्रव्यत्वाभिसम्बन्धाद् द्रव्याणि पृथिव्यादीनि, गुणत्वाभिसम्बन्धाद् गुणा रूपादयः, कर्मत्वाभिसम्बन्धात् कर्माणि गमनादीनि' इत्ययुक्तम्, इतिशब्दस्य निगमनार्थत्वाद् एवं तावद् यत् प्रत्यज्ञासिष्महि - असन्निहितभविकत्वात् खपुष्पवत् कार्यमसदिति पूर्वनयदर्शनेनैव तदुपापीपदामेति ।
10 इत उत्तरमस्मादेव न्यायात् कटन्द्यां टीकायां च यत् पूर्वपेक्षितं तदेव समर्थयितुमाह - ततोऽनुपपन्नविकल्पत्वादित्यादि उद्देशवाक्यम् । सत्तासम्बन्धात् सन्ति द्रव्यत्वाद् द्रव्याणि, गुणत्वाद् गुणाः, कर्मत्वात् कर्माणि, रूपत्वाद् रूपम्, आदिग्रहणात् पृथिवीत्वादिभ्यः पृथिव्यादयः रसत्वादिभ्यो रसादयः, गमनत्वादिभ्यो गमनादय इत्यादि । क्रियावद् गुणवत् समवायिकारणं द्रव्यलक्षणम् । द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । एकद्रव्यमगुणं संयोग विभागेष्वैनपेक्षं 15 कारणमिति कर्मलक्षणम् [ वै० सू० १।१।१४-१६] इत्यादिना द्रव्यादीनां नानात्वं विरोध्यविरोध्यारम्भानारम्भकार्यकारणादिभिश्च सत्तादिभ्यश्च त्रिभ्यः सदनित्यै द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः [ बै० सू० १।१।७ ] इति षडविशेषमुखेन विशेषाभिधानं सत्तासमवायबीजं सर्वत्र तत् सर्वमयुक्तं वक्तुम् । कस्मात् ? अनुपपन्नविकल्पत्वात्, सर्ववाक्यानृतत्ववत्, यथा 'सर्वं मदीयं त्वदीयमन्यदीयं च वाक्यमनृतम्' इति ब्रुवाणस्य तस्य वाक्यं सत्यमनृतं सत्यानृतं वा स्यात् ? सर्वथा 20 नोपपद्यते । यदि तद् वाक्यमप्यनृतं सत्यानृतं वा ततः सर्ववाक्यानृतत्वप्रतिपादनासमर्थम् स्वयमप्रमाण३१८-१ त्वात्, अप्रमाणत्वमसत्यत्वात् । अथ सत्यं न तर्हि सर्वमनृतम्, तस्य सर्वान्तः पातित्वात् तत्सत्यत्ववच्छेषस्यापि सत्यत्वात् सर्वथानुपपन्नं वाक्यमेवं 'सत्तासमवायात् सत्' इत्यादिसदाद्यविशेषलक्षण विरोधारम्भादि
१त्वाभावः प्र० ॥ २ महि सन्न प्र० । दृश्यतां पृ० ४५५ पं० १ ॥ ३ पक्षिस्तं भा० । पक्षस्तं य० ॥ ४ अत्र 'समवायिकारणमिति द्रव्यलक्षणम्' इत्यपि पाठः स्यात्, दृश्यतां पृ० ४४० टि०५ ॥ ५ नपेक्ष य० ॥ ६ दृश्यतां पृ० ४४० टि० ५ ॥ ७ दृश्यतां पृ० ४५७ टि० ५ ॥ ८ " विज्ञातसाधर्म्यवैधर्म्याणां च द्रव्यादीनामभ्युदयनिःश्रेयसहेतुत्वात् साधर्म्य तावत् कथयति सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः [ वै० सू० १1१1७ ], 'सद् द्रव्यं सन् गुणः सत् कर्म' इति सत्ता त्रयाणामविशेषः तथैव अनित्यत्वमन्यत्राकाशादिभ्यः । द्रव्यवदिति समवायिकारणवत्त्वमविशेषः परमाण्वाकाशादिवर्जम् । कार्यत्वमभूत्वा भवनं तथैवाविशेषोऽन्यत्र नित्यद्रव्येभ्यः । कारणत्वं कार्यजनकत्वं त्रयाणामविशेषः, क्षित्यादीनि द्रव्यगुणकर्मणां समवायिकारणम्, आकाशादीनि गुणानाम्, मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम्, गुणास्तु रूपरसगन्धानुष्णस्पर्शसङ्ख्यापरिमाणैकपृथक्त्वस्नेहशब्दा असमवायिकारणम्, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना निमित्तकारणम्, संयोगविभागौष्ण्यगुरुत्वद्रवत्ववेगा उभयथा कारणम्, परत्वापरत्वद्वित्वद्विपृथक्त्व पारिमाण्डल्यादयोऽकारणम्, कर्माणि संयोगविभागेष्वसमवायिकारणम् । सामान्यानि च तानि द्रव्यत्वादीनि विशेषाश्च त इति सामान्यविशेषाः, तद्वत्ता त्रयाणामविशेषः ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ७ ॥ ९ अ सत्यं प्र० ॥ १० अत्र विरोधाविरोधारम्भानारम्भादि इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org