________________
सत्तायाः सत्करत्वखण्डनम्] द्वादशारं नयचक्रम्
४५९ इह प्राक् सत्तासम्बन्धात् संतां वा असतां वा सदसतां वा द्रव्यादीनां सत्करी सत्ता? ने तावदसतां सत्करी सत्ता शशविषाणादीनामपि सत्करत्वप्रसङ्गात् । नापि सतां भूतत्वात् सत्तावत् प्रकाशितप्रकाशनवैयर्थ्यवत् । सतां च पुनः सत्तासम्बन्धात् सत्त्वादनवस्थाप्रसङ्गात् । प्राक् तत् सत्तासम्बन्धात् किमात्मकमिति स्वरूपावधारणं कार्यम्, अन्यथाऽसत्त्वात् । नापि सदसताम् , ऐकात्म्यानुपपत्तेः । घटखपुष्पवत् । उभयदोषप्रसङ्गाच, यदसत् तत् खरविषाणतुल्यम्, यत् सत् तत्र सत्तासम्बन्धो व्यर्थः, सदसतोवैधात् कार्ये सदसत्ता न [वै० सू० ९।१।१२] इति च त्वन्मतसिद्धानुपपत्तिरेवायं विकल्पः । तस्माद् विकल्पानुपपत्तेर्न सत्तासम्बन्धोऽभिधानप्रत्ययहेतुः। विशेषधर्मापादनवाक्यानि नोपपन्नानि, सर्वपदार्थानां वैशेषिकीयाणां सत्तासमवायमूलविशेषात्मकत्वाद् 10 द्रव्यादिकार्योत्पत्तिविचारप्रकृतेश्च तदेव विचार्यते तत्प्राणत्वाद् वैशेषिकीयतत्रस्येति ।
स्यान्मतम् – कथं पुनरनुपपन्नविकल्पत्वं सत्तासमवायस्य ? इति, अत्रोच्यते - इह प्राक् सत्तासम्बन्धात् सतां वेत्यादिविकल्पत्रयोपन्यासो गतार्थः, एवं भवन्मतं स्यात् । तदुत्तरम् - न तावदसतामित्यादि । लघुत्वादुत्क्रमेणासतां सत्तासम्बन्धात् सदभिधानप्रत्ययप्रतिषेधः प्रागिति ।।
नापि सतामिति वैयर्थ्यांपादनं भूतत्वात् सत्तावदिति गतार्थम् । प्रकाशितप्रकाशनवैयर्थ्यव-11 दिति द्वितीयमुदाहरणं लोकसिद्धं शास्त्रसिद्धात् सत्तोदाहरणाद् भेदेनोपन्यस्तमिति विशेषः । न वैयर्थ्यदोष एवास्मिन् विकल्पे, किं तर्हि ? सतां च पुनः सत्तासम्बन्धात् सत्त्वादनवस्थाप्रसङ्गादिति, विद्यमानानामेव पुनरपि सत्तासम्बन्धात् सत्त्वेष्टौ सत्ताया अपि तत्सत्त्वाभिधानप्रत्ययकर्याः सत्तान्तरसम्बन्धात् सत्त्वम् , वस्या अपि तथेत्यनवस्था स्यात् । किश्चान्यत् , प्राक् तत् सत्तासम्बन्धादित्यादि यावदन्यथाऽसत्त्वादिति । तञ्च द्रव्यादि पूर्व सत्तासम्बन्धात् किमात्मकम् ? इति स्वरूपावधारणं कार्यम् । 20 तस्यामवस्थायां सत्तासम्बन्धशून्यत्वाद् नैवास्ति तत्, अनवधृतात्मकत्वात् , खपुष्पवत् । अन्यथाऽस-३१ त्वात् अनवधृतात्मकत्वे तस्यासत्त्वादिति ।
नापि सदसतामिति तृतीयविकल्पस्योत्तरम् । ऐकात्म्यानुपपत्तेरित्यनेकान्तवादाभ्युपगमस्य पूर्वाभ्युपगमेन विरोधात् । अथवा ऐकात्म्यानुपपत्तरिति अनाहतनयेन प्रकाशतमसोरिवात्यन्तवैधात् 'सत् सोपाख्यम् असद् निरुपाख्यम्' तयोः सदसतोवैधादेकत्र न युज्यते सदसत्त्वम् । घटखपुष्पवविति, 25 घटः सोपाख्यः सत्त्वात् , असत्त्वात् खपुष्पं निरुपाख्यमिति वैधादेकत्वाभावस्तयोरेवं सदसदात्मकं कार्यमित्ययुक्तम् । किश्चान्यत् , उभयदोषप्रसङ्गाच्च । तद्वथाचष्टे-यदसत् तेत् खरविषाणेत्यादि यावत् त्वन्मतसिद्धानुपपत्तिरेवायं विकल्प इति । असत्पक्षे खपुष्पादविशेषः, सत्पक्षे सत्तासम्बन्ध
१ दृश्यतां पृ० ४६१ पं० ९॥२ दृश्यतां पृ० ४६१ पं० १४ ॥३ वैशेषिकमतंचस्येति भा० । वैशेषिकयतं च तस्येति य० ॥ ४प्राक्त सत्ता भा० । प्रात्क सत्ता य० । अत्र प्राक सत्ता इत्यपि पाठः स्यात्, एवं सति मूलमपि 'प्राक् सत्तासम्बन्धात् तत् किमात्मकम्' इति कल्पनीयम् । (प्राक् च सत्ता?)॥ ५ तच्छविषा भा० । (तच्छशविषा?)॥ ६°ष्पादिविशेषः भा० । पाविशेषाः य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org