________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् - [सप्तम उभयोभयारे नन्वगुणादिवद् द्रव्यादीनां सत्तासम्बन्धः प्रतिषिध्यते न तु स्वरूपसद्भाव इति सत्ता नैवासतां सत्करी । एष विकल्पोऽनुपपन्न इति त्वयैव तर्हि कृतम् । एवमपि नैवैतत्, सत्तासम्बन्धात् प्राक् खभावसद्भूतकार्यासत्त्वप्रतिपादनद्वारेणायं विचारः प्रस्तुत एव।। 5 ननु स प्राग्विषयासत्सत्करत्वे शशविषाणादिसत्करत्वप्रसङ्गस्तदवस्था, द्रव्यादीनां खत एवास्तित्वे सत्तासम्बन्धो व्यर्थः स्यादतोऽसत्सत्करत्वमेव सत्तायाः,
वैयर्थ्यम् , सदसतोवैधात् कार्ये सदसत्ता न [वै० सू० ९।१११२] इति च त्वन्मताविरुद्धमेवानुपपन्नत्वम् । तस्माद् विकल्पानुपपत्तेर्न सत्तासम्बन्धोऽभिधानप्रत्ययहेतुरिति निगमनम् । . आह - नन्वगुणादीत्यादि यावद् नैवासतां सत्करीति । अस्तु तावत् सतामेव सत्करी सता 10 नासताम् , यथा मया प्रागुक्तो दृष्टान्तः स्वभावसद्भावप्रतिपादनार्थं भावस्य यथा नास्य गुणोऽस्तीत्यगुणो गुण एव सन्नगुण इत्युच्यते तथा स्वभावसद्भावसन्नेव भावो नास्त्यस्य सन्नित्यसन्नुच्यते न तु स्वयमसन्निति,
तथा द्रव्यादयोऽपि सन्तः, तेषां तु सत्तया सह सम्बन्धः प्रतिषिध्यते न तु स्वरूपसद्भाव इत्यतो ३१९-१नैवासतां सत्करी सत्ता, किं तर्हि ? सतामेव । तस्मादसतां सत्तासम्बन्धानभ्युपगमाददोष इति ।
अत्रोच्यते - एष विकल्पोऽनुपपन्न इति त्वयैव तर्हि कृतम् , एवं ब्रुवता त्वयैव तर्हि 'असतां 10 सत्करी सत्ता न भवति' इत्येतदस्मदनुष्ठेयमनुष्ठितम् , अतोऽस्य सिद्धत्वादत्र वयं निश्चिताः संवृत्ताः ।
अपि च - एवमपि नैवैतदित्यादि । यद्यपि मया त्वदनभिज्ञताख्यापनार्थमुक्तम् - असतां सत्तासम्बन्धो नास्तीति । नैतदप्येवम् । किन्त्वसतामेव सत्तासम्बन्धः स्याद् वा न वा ? इति विचार्यम् । किं कारणमिति
चेत्, उच्यते - शशविषाणादिसत्करत्वप्रसङ्गः । सत्तासम्बन्धात् प्राक् तद्विषयो द्रव्यादि कार्य तत् । स्वभावेनैव किं सत् ? उत सत्तासम्बन्धात् सत् ? इत्येतस्मिन् सन्देहे स्वभावसद्भूतस्य कार्यस्यासत्त्व20 प्रतिपादनद्वारेणायं विचारः प्रस्तुत एवेति कथं प्रस्तुतपरित्यागेन परिहारो युज्यत इत्यभिप्रायः । ।
अपि च ननु स प्राग्विषयेत्यादि । योऽयमस्माभिः प्रागुद्राहितः यद्यसत् सद् भवति इत्यादिनोपपत्तिप्रन्थेन अगुणगुणस्थानीयसत्ताया एवाभाव इति यद्यविद्यमानं द्रव्यादिविषयं सत्ता स्वयमसती सन्तं कुर्यात् शशविषाणादीन् बन्ध्यापुत्रादिः संतः कुर्यादित्येष प्रसङ्ग आपिपादयिषितस्तदवस्थः । एतदनिच्छतो द्रव्यादीनां स्वत एवास्तित्वे सत्तासम्बन्धो व्यर्थः स्यादित्येष वा दोषः निर्विषयत्वात् सत्तासम्बन्धस्य, अनिष्टं . १ "सिकताभ्योऽनुत्पत्तेर्दनः क्षीराच्चोत्पत्तेः प्रत्यक्षेण चाग्रहणात् सदसत् कार्य कारणे । सदसतोर्वैधात् कार्ये सदसत्ता न [वै० सू० ९।१।१२], सत्त्वासत्त्वयोर्युगपद्विरुद्धत्वान्न सदसत् कार्य कारणे, तस्मादसदेव ।” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ३१। "नासन्न सन्न सदसत् सदसतोधात् [न्या० सू० ४।१।४८], प्रागू निष्पत्तेर्निष्पत्तिधर्मकं नासत् उपादाननियमात् , कस्यचिदुत्पत्तये किञ्चिदुपादेयं न सर्वं सर्वस्येत्यसद्भावे नियमो नोपपद्यते इति । न सत्, प्रागुत्पत्तेर्विद्यमानस्योत्पत्तिरनुपपन्नेति । न सदसत्, सदसतोवैधात् , 'सत्' इत्यर्थाभ्यनुज्ञा 'असत्' इत्यर्थप्रतिषेधः, एतयोाघातो वैधर्म्यम् , व्याघातादव्यतिरेकानुपपत्तिरिति ।" इति न्यायभाष्ये ॥ २ त्वन्मतविरुद्धमेवानुपपन्नत्वम् प्र.। (त्वन्मतसिद्धमेवानुपपन्नत्वम् ?)॥ ३ दृश्यतां पृ० ४४५ पं० ३॥ ४ दृश्यतां पृ. ४५६ पं० ३, पृ० ४५९ पं० २॥ ५संत रं० । संतं पा० वि० भा० । सतं डे० ॥ ६ स्तथावस्थः य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org