________________
विशेषप्रधानस्य भावस्य निराकरणम्] द्वादशारं नयचक्रम् ।
७४३ पत्तिः, अनियततथाप्रवृत्तेः। सत्यां च तथानियतप्रवृत्तौ 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम् , विशेषस्तु पृथिवीमनुवर्तते । लोके प्रधानं ह्यनुवृत्यते, न गुणः ।
सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, एतद्वद् विशेषाभावात्।
अतस्त्यक्त्वेमौ सामान्यविशेषकान्तपक्षी अवचनीयं वस्तु प्रतिपत्तव्यम् । नाप्यभावं न तदुपसर्जनं न भाव एव नाविशेषं न विशेषोपसर्जनं न विशेष एव । नोभयोपसर्जनं नोभयप्रधानं वस्तु । अवचनीयभावविशेषकारणकार्येकानेकप्रधानोपसर्जनं वस्तु।
स्तत्प्राप्यमोक्षानुपपत्तिरपि, ततः शास्त्राभ्यासादिपुरुषकारानुपपत्तिः, अनियततथाप्रवृत्तेः । अथ मा भूव-४८०-१ नेते दोषा इति तथानियतप्रवृत्तिरिष्यते ततः सत्यां च तथानियतप्रवृत्तौ जीवकर्मसम्बन्धसंसारमोक्षादिकायां 'जीवो नारकः संसारी मुक्तः' इत्यादिवत् 'पृथिवी घटः' इत्यन्वयप्राधान्यमेवैषितव्यम् , 10 विशेषस्तु घटः पृथिवीमनुवर्तते जीवत्वं नारकत्वादिः । कस्मात् ? यस्माद् लोके प्रधानं ह्यनुवृत्यते न गुणः, गुणस्त्वनुवर्तते न प्रधानं नीलोत्पलवदिति । सदापि विशेषानुवृत्तेरुक्तवद् नेति चेत्, । स्यान्मतम्-ननूक्तम्
अर्थशब्दविशेषस्य वाच्यवाचकतेप्यते ।।
तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥ इत्यादिप्रपञ्चेन विशेष एव सामान्येनाऽनुवृत्यते न विशेषेण सामान्यमिति । [एतञ्च न,] ऐतद्वद् विशेषाभावात् , स एव हि विशेषो नैवास्तीति पूर्वनयेषु बहुधा भावितम् । तस्मान्न विशेषैकान्तपक्षः सामान्यं शक्नोत्यत्यन्तं निवर्तयितुं नापि सामान्यैकान्तपक्षो विशेषपक्षम् ।
अतस्त्यक्त्वेमौ सामान्य-विशेषैकान्तपक्षौ वक्ष्यमाणमनन्तरं वस्तु प्रतिपत्तव्यम् । अवचनीयं 'भवनविशेषाभ्यां कारणकार्यत्वाभ्यामेकानेकत्वाभ्यां प्रधानोपसर्जनत्वाभ्याम्' इत्यादिभिर्विकल्पैर्विकल्प्यमानम-20 वक्तव्यतत्त्वं वस्तु भवति । नाप्यभावं निरन्वयम् न तदुपसर्जनं भावोपसर्जनं विशेषप्रधानं 'वस्तु' इत्यभिसंबध्यते, न भाव एव निराकृतविशेषः, तथा नाविशेषं विशेषशून्यम् , न विशेषोपसर्जनं सामान्यप्रधानमिति, न विशेष एवाऽत्यन्ततिरस्कृतसामान्यः, नोभयोपसर्जनं वस्तु अत्यन्तनिराकृत-४८०-२ स्वातन्त्र्यसामान्यविशेषम् , नोभयप्रधानमत्यन्तस्वतन्त्रतुल्यकक्षसामान्यविशेषम् , सर्वविकल्पेष्वेष्वभावापत्तिदोषदर्शनात् । कीदृक् तर्हि वस्तु भवति ? इत्यत आह-अवचनीयभाव-विशेषेत्यादिः समासदण्डको गतार्थ उक्तपर्यायविकल्पयुगैलकैः ।
25
१ नरक प्र० ॥ २ नुवृत्त्यते य० । नुवृर्त्यते भा० ॥ ३ अर्थशब्दावि प्र० । दृश्यतां पृ० ६१६ पं० ३ ॥ ४ एतद्विशेषाभावात् प्र० । अत्र 'एतन्न विशेषाभावात्' इत्यपि पाठश्चिन्त्यः ॥ ४°स्त्यक्षेमौ भा० । °स्तक्षेमौ य०॥ ५ न्याय्यभावं प्र०॥ ६त तदुप° मा । तत्तदुप य०॥ ७ तविशेषं प्र०॥ ८ सामान्य प्रधान प्र०॥ ९कल्पोष्वष्वभावा भा० । ल्पोष्वणुभावा य० । ल्पेष्वभावा इत्यपि पाठोऽत्र स्यात् ॥ १० लकेः भा०। लके य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org