________________
७४४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे एवं हि भवति भवनमग्नीन्धनवत् । यथा नैकत्वम् [ अग्नेरिन्धनेन सह इन्धनस्याग्निना वा सह] । यदि स्यादेकत्वमग्नेरिन्धनेन दग्धेन्धनबदग्निरिन्धनरहित. त्वाद् न प्रवर्तेत, अनिन्धनस्याप्रवृत्तेश्चाभावतैवाग्नेः स्यात् । न प्रवर्तेत, एकत्वात्, दग्धेन्धनवत् । 5 यथेन्धनमग्निरहितमप्यनुपजाताग्निकं प्रवर्तते तथेन्धनरहितोऽप्यग्निः प्रव
य॑ति सूक्ष्मावस्थ इति चेत्, को वा ब्रवीति 'इन्धनमग्निरहितम्' इति । तदपेक्ष
__एतस्यार्थस्य भावनार्थमुदाहरणम्-एवं हि भवति भवनमग्नीन्धनवदिति । तत्र तावदग्नीन्धनयोरेकत्वं नानात्वमुभयत्वमनुभयत्वमन्यतरप्रधानोपसर्जनता वा स्यात् ? इति विकल्प्य सर्वथाप्य
वक्तव्यतैव इति वक्ष्यमाणो दृष्टान्तार्थः, तद्विकल्पानुपपत्तेः । 10 तत्रैकत्वं तावन्न घटत इति ब्रूमः । कथम् ? यथा नैकत्वमित्यादि । तच्चैकत्वमग्नेरिन्धने न ]
सह इन्धनस्याग्निना वा सह स्यात् , सहयुक्तेऽप्रधाने तृतीया, इन्धनमेवाग्निरेव वा स्यात् । तन्न तावदग्नेरिन्धनेन सहैकत्वं घटते, तेन सहैकत्वात् तत्प्राधान्याद् वक्ष्यते दोषोऽसत्त्वम् । यदि स्यादेकत्वमग्नेरिन्धनेन दैग्धेन्धनवदग्निरिन्धनरहितत्वाद् न प्रवर्तेत, यथा दग्धेन्धनोऽग्निर्न प्रवर्तते तथास्याप्रवृत्तिः।
अनिन्धन[स्याऽ]प्रवृत्तेश्चाभावतैवाग्नेः स्यात् अस्ति-भवति-विद्यति पद्यति-वर्ततयः सन्निपातषष्ठाः 15 सत्तार्थाः [ ] इति वचनात् प्रवृत्तिसत्तार्थत्वादप्रवृत्तेरसत्तापर्यायत्वात् । तदुपसंहृत्य साधनमाह
न प्रवर्तेत, एकत्वात्, दग्धेन्धनवत् । यथा दग्धेन्धनोऽग्निरिन्धनेन सहैकत्वादिन्धनाव्यतिरेकेणाप्रवर्त५८१-१ मानत्वादेकत्वादप्रवृत्तेरसंस्तथाग्निरिति ।
अत्राह-यथेन्धनमित्यादि यावत् सूक्ष्मावस्थ इति चेत् । यथेन्धनमग्निना सहैकत्वेऽप्यनुपजाताग्निकं प्रवर्तमानं दृष्टं तथाग्निरपीन्धनेन सहैकत्वे प्रवर्तितुमर्हति सूक्ष्मावस्थः कार्यानुमेयोऽप्रत्यक्ष इत्यर्थः । 20 तस्मादि]नैकान्तिकत्वादहेतुस्तदेकत्वमिति चेन्मन्यसे, अत्र ब्रूमः -- "को वा ब्रवीतीत्यादि । अग्निरहितावस्थायामिन्धनत्वस्यैवाभावाद् विपक्षाभावेऽनैकान्तिकाभासता। तद्व्याचष्टे-तदपेक्षत्वादिन्धनत्वस्य दीपनोऽग्निरिन्धन-दीपन-दहन-भस्मीकरणार्थत्वात् तत्परिणतावेवेन्धनम् 'इंध्यते दह्यते दीप्यते' इति इन्धन मग्नित्वपरिणतावेव एकत्ववादिनो 'विशेषेण, अतत्परिणतावग्नित्वेन्धनत्वयोरभावात् जिइन्धी दीप्तौ
१ दृश्यतां पृ० ४१२-२॥ २ व प्र० ॥ ३ दृश्यतां पृ० ४८६-२॥ ४ सहयुक्ते प्रधाने भा० । “५६५ सहयुक्तऽप्रधाने २।३। १६। सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता। एवं साक-सार्ध-समंयोगेऽपि ।”-पा० सिद्धान्तकौमुदी॥ ५ तृतीयेननमेवा य० । तृतीयेनमेवाभा० ॥ ६ त । अग्ने भा० । (तत्र न तावदने ? ) ( न तावदने ? )॥ ७ दृश्यतां पृ० ४८४-१-२ । तुलना पृ० ४८६-२॥ ८ दग्नेत्वउवदग्नि भा० । दग्नत्वनवदग्नि य० ॥ ९ दृश्यतां पृ. ४८१-२, ४८४-२॥ १० दृश्यतां पृ० ३४ पं० २१ पृ. १९० पं० २३ पृ० १९९ पं० ७ पृ. ३२४ पं० २७ ॥ ११ प्रवर्ततैकत्वात् प्र० । (प्रवर्तते एकत्वात् ? )॥ १२ त्वादिन्धनात्यव्यतिप्र० । त्वादिन्धनतो व्यति' इत्यपि पाठोऽत्र सम्भवेत् ॥ १३ दृश्यतां पृ० ४८७-१॥ १४ यथा प्र०॥ १५ तस्मान्नका य० ॥ १६ दृश्यतां पृ०४८७- १॥ १७ कताभा य० ॥ १८ इष्यते य० ॥ १९ विशेषणातत्परिणता भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org