________________
७३९
भेदप्रधानस्य भावस्य निराकरणम्] द्वादशारं नयचक्रम् । अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति ततश्चोपसर्जनत्वं सामान्यस्य नास्ति। उभयस्मिंस्त्वसति स यद्य भाव एव भेदः, तेनैव भेदेन न भूयेत अभावत्वात् खपुष्पवत् । न ह्यभावो भावो भवति । अथ भाव एव ततो भावाव्यतिरेकाद् भूतत्वादुभयथापि न पुनभूयेत, भूतघटादिवदाकाशादिवत् । न हि भूत एव भवति, तथाऽसत्त्वापत्तेः। यदि भूतमेव भवेत् ततस्तदसत् स्यात्, उत्पद्यमानत्वात् , अजात-5
घटादिवत् ।
४७७-२
भेदेषु भवनान्वय औपचारिकः [ इति चेत् ], नन्वन्वयद्रव्यं स्वात्मन्येव तिष्ठति, ततश्च तदवस्थामात्रं घटादिभेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति । यथा 'अङ्गुलिर्वक्रा भवति' इत्युक्ते वक्रता अङ्गुलेः भेदावस्थामात्रमित्यौ कारिता ? इति । अथेत्यादि । अथ मा भूत् पृथिव्यादिसामान्योपसर्जनत्वे द्वयोरपि सामान्य-विशेषयो- 10 रभावदोष इति पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात् , ततश्चोपसर्जनत्वं सामान्यस्य नास्ति स्वतत्त्वव्यापित्वात् भावत्वात् प्रवर्तमानत्वाद् भेदवत् , इत्थमप्युपसर्जनत्वनिवृत्तिः । ।
उभयस्मिंस्त्विति सामान्ये पृथिव्यां भेदे च घटे द्वयेऽपि असति भावेऽन्वये भवितरि च विशेषे स यद्यभाव एव 'भेदो येन भूयते भेदेन स भेद इतीष्यते तेनैव भेदेन न भूयेत अभावत्वात् , अभावत्वमभवनक्रियात्मकत्वात् खपुष्पवत् । न ह्यभावो भावो भवतीति दृष्टान्तार्थप्रदर्शनात् । अथ 15 भाव एव, मा भूदेष दोष इति अन्वयस्वभाव एवासी भेदो भाव एवेष्यते : ततो भावाव्यतिरेकाद् भावा मकत्वादन्धयात्मकत्वाद् भूतत्वादुभयथापि प्रधानोपसर्जनत्वाभ्यां पृथिवी-घटत्वाभ्यां न पुनभूयेत, भूतत्वात् , भूतघटादिवत् आकाशादिवद् वैयर्थ्यात् । तदर्शयति-न हि भूत एव भवतीति । कस्मात् ? तथाऽसत्त्वापत्तेः । यदि भूतमेव भवेत् उत्पन्नमेवोत्पद्यते ततस्तदसत् स्यात् , उत्पद्यमानत्वात् , अजातघटादिवदित्यसत्त्वापत्तिः, अनिष्टा च सेति न भावो भवति नोभावो भवत्युभयं 20 पृथिवी घटश्चेति ।
भेदेष्वित्यादि । स्यान्मतम्-भेदेषु घटादिष्वेव पृथक् सत्सु परमार्थतः योऽसौ ' भवति भवति' इति भवनान्वयः स औपचारिक इति । अत्रोच्यते-नन्वन्वयेत्यादि । ननु त्वयैव स्वद्रव्ये पृथिव्यादि तिष्ठति स्वात्मन्येव ततश्च तस्य पृथिव्यादिद्रव्यान्वय[स्या]वस्थामात्रं घटादिभेदा इति 'घटादिभेदा एवौपचारिकाः, पृथिव्यादिसामान्यमेव तत्त्वम्' इत्युक्तं भवति । किमिव ? इत्यत आह-यथाङ्गुलि-११
१ 'येन भूयते भेदेन तेनैव न भूयेत' इत्यपि मूलमन्त्र स्यात् ॥ २ व्यापितत्वात् प्र० ॥ ३ भेदोप्यनुभूयते य० । भेदोत्यनुभूयते भा० ॥ ४ प्राधानो प्र०॥ ५नाभावो भा० । न भावो य० । अत्रेदमवधेयम्-लेखकप्रमादात् ति न भावो भवति न भावो भव इति द्विर्भावोऽप्यत्र संभवति, तथाङ्गीकारे तु 'अनिष्टा च सेति न भावो भवत्युभयं पृथिवी घटश्चेति' इति पाठोऽप्यत्र सम्भवेत् ॥ ६ नन्वत्वयेत्यादि य० । नच्चयेत्यादि भा० । अत्रेदमवधेयम् अत्र यदि ननु त्वयेत्यादि इति प्रतीकः शुद्ध इत्यभ्युपगम्यते तदा 'ननु त्वयैव तदवस्थामात्रं घटादिमेदा इति घटादिभेदा एवौपचारिका इत्युक्तं भवति' इति मूलमत्र सम्भाव्यते ॥ ७ स्वात्मनोव भा० । स्वात्मन्येन य० । (स्वात्मनैव ?)॥ ८ द्रव्यस्यावयवस्थामात्रं य० । अत्र द्रब्यस्यावस्थामात्रं इति पाठोऽपि सम्भवेत् ॥ ९भवतीति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org