________________
ॐ अर्ह V सद्गुरुभ्यो नमः
अथ नवमो नियमारः। यदि भेदप्रधानो भावः कथमसौ ? स भवितारमन्तरेण खरूपमपि प्राप्तुमसमर्थोऽस्वतन्त्रत्वादसन् खपुष्पवत् । तदभावे भेदा एव विप्रकीर्णाः स्युः। ततश्च भेत्तव्याभावाद् भेदा अपि न भवितुमर्हन्तीति धर्मधर्मिस्वरूपविरोधः । घटादि5 भेदाभावः, भेत्तव्याभावात् , गगनोदुम्बरकुसुमवत् । ततश्चात्यन्तनिरुपाख्यत्वात् खवचनाभ्युपगमानुमानप्रत्यक्षविरोधा अपि ।
'पृथिवी घटो भवति' इत्यत्र यदि विशेष एव भवति तर्हि सामान्यस्याभावे विशेषोऽपि नास्त्येव । असति च विशेषे कुतः सामान्यस्यासत्प्रधानोपकारिता?
विधि-नियमसर्वभङ्गवृत्त्यात्मकैकतत्त्वाधिकारे वर्तमान उभयनियमभङ्गारदर्शनेऽप्यपरितुष्यत उत्तर10 नयस्य नियमभङ्गस्योत्थानम् । तस्मिंस्तु दूषिते स्वमतप्रदर्शनं युक्तमिति तद्दषणार्थमाह -यदि भेदप्रधानो
भाव इत्यादि यावद् धर्म-धर्मिस्वरूपविरोधः । यद् 'भेदो भवति प्राधान्येन, अन्वयोऽस्योपसर्जनम्' ४७७-१ इत्युक्तं तत्र तमेवंविधं भावमवधारयामः-कथमसौ ? इति, स त्वयेष्टोऽन्वयो भावो भवितुर्भेदस्य क्रिया
भेदातिरेकेण भवितारं कर्तारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थो 'निश्चयो( ये ?)। कस्मात् ? अस्वतन्त्रत्वादकर्तृत्वादभविता, अभवितृत्वादसन् खपुष्पवत् । तस्य अन्ययस्य भावस्य अभावे भेदा एव विप्रकीणो 15 भेद्यवस्तुरहिताः स्युः । ततश्च भेत्तव्यस्यान्वयस्याभावाद् भेदा अपि न भवितुमर्हन्ति । "भिद्यमानो हि
भेदः, कुतो भिद्यतेऽसौ निर्भेद्यत्वात् खपुष्पवदिति भेदाभावाद् धर्मधर्मिणोः स्वरूपाभावे 'अन्वयोपसर्जनो भेदप्रधानः शब्दार्थः' इत्येतद् वाक्यं निराकृतधर्मधर्मिस्वरूपकं संवृत्तम् । तदुपसंहृत्य साधनमाहघटादिभेदाभावः, भेत्तव्याभावात् , गगनोदुम्बरकुसुमवदिति । उभयोर्मेत्तृभेत्तव्ययोरभावः, न गगनकुसुमादुदुम्बरकुसुम[मु]दुम्बरकुसुमाद्वा गगनकुसुमं भेत्तृ भेत्तव्यं वेति दृष्टान्तः, तथा उपसर्जन20प्रधानयोः सामान्य-भेदयोरिति दार्टान्तिकोऽर्थः । ततश्चात्यन्तेत्यादि । इत्थं निरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचना-ऽभ्युपगमा-ऽनुमान-प्रत्यक्षविरोधा अपि प्राप्ताः, ते चानिष्टा इति ।
किञ्चान्यत् , 'पृथिवी घटो भवति' इत्यत्र निर्धार्यम्-किं पृथिवी भवति न घटः, उत घटो भवति न पृथिवी, उभयं वा भवति, न भवति ? इति । तत्र यदि विशेष एवेत्यादि, सामान्यस्योपसर्जनस्याभावे 'विशेषोऽपि नास्त्येवेतीदानीमेवोक्तत्वादसति च घटे विशेष कुतः सामान्यस्यासतोऽसत्प्रधानोप
१कतत्वाधि भा० । °कत्वाधिय०॥ २ दृश्यतां पृ० ७३७ पं० २॥ ३ (ऽनिश्चयाय?) (निश्चयेन ?) (ऽनिश्चयः ? ) ( निरुपाख्यः ?) ॥ ४ विद्यमानो प्र० ॥ ५ निरूपणाख्य य० ॥ ६ विशेषणोवे नास्त्ये य० ॥ ७ पृ० ७३८ पं० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org