________________
৩৪০
.. न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [नवमे नियमारे पचारिकत्वं वक्रतायाः, नाङ्गुले, न हि वक्रत्वमङ्गुलिर्भवति अनुत्पन्नत्वात् खपुष्पवत् । भेदत्वाच रूपवत् । ____ अत उक्तन्यायात् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव द्रव्याश्रितत्वाद् भेदानाम् । पर्यायप्रवृत्तेः सर्वथैव भवनविध्यनुपपत्तिः।
विशेषस्वरूपप्रत्यवेक्षायां भवनं स्वेनैव महिम्ना पृथग् वर्तते । तद् यदि पूर्व भवनमवतन्त्रं पृथक चावृत्ति ततो निर्मूलत्वादसन् घटः खपुष्पवत् । नापि स स्वयमेव भावः, विशेषप्रधानपक्षहानेः। नाप्यस्य भावः, ततश्च असत्वाविशेषात्
रित्यादि, यथा 'अङ्गुलिर्वक्रा भवति' इत्युक्तेऽङ्गुलेरवस्था वक्रताऽङ्गुले: सामान्यस्य भेदावस्थामात्रमित्यौप
चारिकत्वं वक्रतायाः, नाङ्गुलेः । यस्मादू न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्याऽनवस्थात्वादमुलेः । अङ्गुलिरेव 10 वक्रीभवति, न वक्रतैवाङ्गुलीभवति । कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ? उच्यते-अनुत्पन्नत्वात्
खपुष्पवत् । एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमानत्वमुक्तम् । युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि भेदत्वाच्च रूपवत् 'तेदवस्थामात्रम्' इति वर्तते । यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वात् 'रूपं रसो गन्धः' इत्यादिभेदेनोच्यतेऽङ्गुलिर्वा, विज्ञानमात्रस्य तत्र भेदत्वाद् वस्तुनो घटस्या
भिन्नत्वात् , एवं पृथिव्यादिसामान्यभेदा घटादयोऽश्म-सिकतादय[श्च ] विज्ञानमात्रेणेति । 13 किञ्चान्यत् , अत उक्तन्यायादित्यादि । अतीतविध्यादिद्रव्यार्थिकनयेषु एक-सर्वगत-नित्यकारण
वस्तुमात्रविजृम्भितं स्तिमितसरस्तरङ्गादिव[त् ] त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रितत्वाद् भेदानामवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् द्रव्यस्य पर्यायानाश्रितत्वाच्च । पर्यायप्रवृत्तेरित्या दि, इति सर्वथैव भवनविध्यनुपपत्तिरेवं पूर्वातीतद्रव्यन यदर्शनेन ।
विशेषस्वरूपेत्यादि । तस्यापि च विशेषस्य स्वरूपं !त्यपेक्ष्यमाणमन्वयसामर्थ्याहते न लभ्यते, 20 तद्यथा-पूरयति पालयति कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्खेनैव महिम्ना पृथगू वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु । तद् यदि पूर्व भवनमस्वतन्त्रं पृथक् चावृत्ति यथा त्वयेष्टं स्यात्, ततः किम् ? ततो निर्मूलत्वादित्यादि, निर्मूलत्वादसन् घटः खपुष्पवत् । स्यान्मतम्-किं घटस्य मूलेन भवनेन ? किं न स स्वयमेव भवति ? इति, एतच्च नापि स घटः स्वयमेव
भावः, कस्मात् ? विशेषप्रधानपक्षहानेः । यदि विशेष एव भावस्ततो घट एव विशेषः, स एव भावो 25 भवनम् , तेन भूयतेऽन्वयेन भावेनेत्यतस्तथाभावत्वाद् घटस्यापि भावमात्रं सामान्यमर्थ(र्थः ? ) घटादि
१ अङ्गुलिर्वक्रीभवति' इत्यपि पाठोऽत्र स्यात् , दृश्यतां पं० १०-११॥ २ भदवस्था प्र.। तदवस्था' इत्यपि पाठोऽत्र सम्भवेत , दृश्यतां पं० १२॥ ३ भवतीति भा०॥ ४ त्वयुक्तम् प्र०॥ ५ दृश्यतां पं० ८, पृ० ७३९ पं० २४ ॥ ६ (पर्यायाप्रवृत्तः ? ?) ॥ ७°त्यादिः । अथ सर्वथैव भा० ॥ ८ (प्रत्यवेक्ष्यमाण°?)॥ ९ लभ्येतो भा० । लभ्यते य० ॥ १० पृथक्त्वावृत्ति यथा त्वयेष्टं भा० । पृथक्त्वा वृत्ति(त्ते ! )र्यथात्वयवेष्टं य० ॥ ११त्वादि निर्मूल य० ॥ १२ न स्वयमेव य० ॥ १३ सामान्यामर्थ भा० । सामान्यमर्थ य० । 'सामान्यमेवं' इत्यपि पाठोऽत्र स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org