________________
७३६
न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे ... अत्र च 'संघातः शब्दार्थ उत्पत्तावभिव्यक्ती वा । यद्यप्राप्तयोगपद्यानि पदानि कार्यात् प्रसिद्धाद् व्यवस्था लोकप्रसिद्धेरेव वा, अनवस्थिततर्कत्वात् पुरुषाणाम् । आगममात्रं त्वेतत् पदसमूहोऽनियतानुपूर्यो वाक्यम् ।
प्रस्तुतनयमतः शब्दार्थो विधीयते-अत्र च विधि नियम]नियमे सङ्घातो वर्ण-पद-वाक्यादीनां 5 शब्दार्थ उत्पत्तावभिव्यक्तौ वेति । यदि वर्णादयो जन्यन्ते यद्यभिव्यज्यन्ते कार्य-नित्यपक्षयोर्द्वयोरपि
अविरुद्धः सङ्घातो वाक्यादिः शब्द इति । स्यान्मतम्-उत्पन्नमात्रप्रध्वंसित्वाद् वर्णादीनां योगपद्याभावे ४७५२ कुतः सङ्घात इति, अत्रोच्यते यद्यप्राप्तयोगपद्यानि पदानि कार्यात् प्रसिद्धाद् व्यवस्था लोके, किं तत
कार्यम् ? अर्थप्रतिपादनम् , तद्यथा-वर्णादीनां तिरोहितानां परिणामान्तरमापन्नानां विनष्टानां वा बुद्धौ
संस्कारमाधायाऽभिधेयविज्ञानोत्पत्तिनिमित्तत्वं तदभावे तदभावात् प्रयोगानन्तरीयकत्वाच्च प्रत्ययस्यानु10 मीयते । लोकप्रसिद्धरेव वा व्यवस्था, दृष्टा हि लोके तेषां वर्णपदादीनां शब्दानामर्थप्रत्यायनासम्भवादर्थ
प्रत्यायकस्तत्समुदाय इति शक्तिः प्रसिद्धा । सन्निदानी समुदायः समुदायिभ्यो वर्णादिभ्यस्तदसम्भविकार्यान्तरदर्शनादन्य इति केचिदाहुः, तस्मादेव कार्याद् मा भूदहेतुकमर्थप्रत्यायनं तेषु तस्य प्रतिदेशं समस्तेषु वा देशैः सामस्त्येन वा वृत्त्यसम्भवान्न व्यतिरिक्त इत्यपरे । पूर्ववर्णज्ञानाहितसंस्कारांपेक्षान्त्यवर्णे 'संहृताशेषशेषावयवः समुदायोऽभिधाता पूर्ववर्णजनितबुद्धिपरिपाकादित्येके । सिकतातोयवद् देशान्तरेषु 15 असतोऽन्त्येऽशे कुतः सम्भवः प्रत्यायनस्य ? किन्तु तिलतैलवत् सर्वावयवेषु तिरोहिताभिमतेषु सूक्ष्मतामापन्नेषु वितत्य व्यवस्थितो बुद्धिसंस्कारपरिपाकसमुदायोऽभिव्यञ्जकः प्रत्ययस्येत्यपरे । स च समुदायात्मा शब्द एक एवाभिन्नः प्रत्यायकोऽर्थस्यैकप्रत्ययदर्शनात् , अनेक एव वा प्रत्यवयवाहितसंस्कारबलाधेयार्थज्ञानत्वादित्येवमादीनि विचारान्तराण्येवैतानि । पुरुषमतिसमुत्थापितशुष्कतर्कविषयत्वात् किं न एतैः, यदि व्यतिरिक्तः यद्यव्यतिरिक्तः अन्त्ये शेषसमस्तेष्वभिन्नो भिन्नो वा प्रत्यायकः समुदायोऽवयवा एव 20वा ? योऽस्तु सोऽस्तु, सर्वथाऽर्थप्रत्यायनात् फलात् समुदायः शब्द इत्येतावदुपयुज्यते । किं कारणम् ? ४७६-१ अनवस्थिततर्कत्वात् पुरुषाणाम् , यथोक्तम्-यत्नेनानुमितोऽप्यर्थः [ वाक्यप० ५ । ३४ ] इत्यादि तथा
हस्तस्पर्शादिवान्धेन [ वाक्यप० १ । ४२ ] इत्यादि । किं तर्हि प्रतिपत्तव्यम् ? आगममात्रं त्वेतत् पदसमूहो वाक्यमिति । यथोक्तम्
जो हेतुवादपैक्खमि हेतुओ आगमे य आगमिओ।
सो ससमयपण्णवओ सिद्धंतविरोधओ इतरो [ सम्मति. ३ । ४५ ] त्ति । स चाऽनियतानुपूर्व्यः पदसमूहः । अनुपूर्वभाव आनुपूर्व्यम् , तदनियतं यस्य सोऽनियतानुपूर्व्यः
१ पृ० ४४८ टि० २ ॥ २ 'शब्दार्थोऽभिधीयते' इति पाठः समीचीनो भाति ॥ ३ मावयोभिधेय भा० । मावयोरभिधेय य० ॥ ४ रापेक्ष्यन्त्य भा० ॥ ५संहृताशेषदोषावयवः य० । संहताशेषशेषावयवः भा० । भा० प्रतिपाठोऽपि शोभन इति ध्येयम् ॥ ६ समस्तेप्यभिन्नो य०॥ ७ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥” इति सम्पूर्णा कारिका । दृश्यतां पृ०३६ पं. ४॥ ८"हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥' इति सम्पूर्णा कारिका ॥ ९ वायपक्खंमि हेउओ य० ॥ १० परिक्खंमि भा० ॥ ११ राहओ इयरो य० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org