________________
७३५
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
अपि च भावान्तर ............... । यथा जातिखरूप........ अनाक्षेपस्तथा यथाकथञ्चित् .............. ... अस्वातन्त्र्यहेतुत्वात् । __यदि चार्थान्तरापोहो न भावान्तरं कथमिदम्-यत् सत् तद् द्रव्यं यद् द्रव्यं तत् सदिति ? उभयशब्दव्युदासानुगृहीतस्य शब्दद्वयाभिधेयस्य समुदायस्यैकत्वात् तथोच्यते न तु सदर्थस्य द्रव्यशब्देनाभिधानात्, अर्थान्तरापोहो यस्मिन् । वस्तुनि क्रियते तद् द्रव्यं शब्दार्थो नापोहमात्रम् । तस्मादपरिहृतः पश्चिमदोषोऽपि ।
अपि च भावान्तरेत्यादि । अत्र प्रस्तुतार्थोपकारापकारानङ्गत्वाद् भावान्तराभावान्तरत्वाभ्यां विचारिताभ्यां न किञ्चित् प्रयोजनमस्ति, किन्तु इदमत्र प्रस्तुतार्थोपयोगिकम् , तद्यथा-बुद्धिस्थस्य शब्दप्रयोगजनितज्ञानोपलक्षितस्यान्वयव्यतिरेकद्वारेणावधारितस्यार्थस्याऽऽनुगुण्येन वशवर्तितया 'अयं भवति, अयं न भवति' इति तयोविधिप्रतिषेधयोर्भेदेन प्रत्ययः शब्दार्थसम्बन्धज्ञस्य शब्दप्रयोगादुत्पद्यते, सामान्यो-10 पसर्जनविशेषशब्दार्थपक्षे वा। द्वयोरपि च पक्षयोरुपसर्जनीकृतविशेषणत्वाद् भेदानाक्षेपादस्वातत्र्यादनभिधानं तुल्यमित्येष विचारप्रयासार्थः । तद् दृष्टान्तेन दर्शयति – यथा जातिस्वरूपेत्यादिना तद्वत्पक्षवादिमतेन यावदनाक्षेप इति, दार्टान्तिकेन च तथा यथाकथञ्चिदित्यादिना यावदस्वातन्त्र्यहेतुत्वादिति सुष्टुच्यते-पश्चिमस्यापि दोषस्य सातिशयस्य भाव एवेति । ___यदप्युक्तम्-अर्थान्तरापोहोऽसदघटनिवृत्तिः सन् घट इति, तस्मात् सामान्यदोषोऽपोहपक्षे नास्तीति, 15 तदपि प्रत्यासन्नमात्मोक्तं विस्मृत्य त्वयाभिहितमिति बोधयितुकाम इदमेव तावत् प्रत्युच्चारयति-यदि चार्थान्तरापोहो न भावान्तरमित्यादि । अभावान्तरत्वादर्थान्तरापोहस्यापोहवानर्थः शब्दवाच्यो न भवति, अतो नापोहो विशेषणं नापोहवान् सोऽर्थ इति यदि त्वयेष्टमिति अस्य विरोधापादनार्थमुच्यतेकैथमिदमित्यादि पूर्वपक्षितमस्माभिर्यावन्न तु सदर्थस्य द्रव्यशब्देनाभिधानादित्येतस्य सूचनं सूत्रेण यावद् नापोहमात्रमिति गतार्थम् । किमुक्तं भवतीति चेत् , उच्यते-यदि द्रव्यं यद्यद्रव्यमर्थान्तरापोहः 20 तद्वांस्त्वर्थः त्व(स्व)शब्दार्थत्वेन विवक्षितत्वादुच्यत एव बुद्धिस्थान्वयव्यतिरेकार्थभेदप्रत्ययोत्पत्तिदर्शनादित्युक्तं भवति । न हि लोके शब्दप्रयोगजनितप्रत्ययपरिच्छेद्यापलापेनान्यः शब्दार्थः शक्यः कल्पयितुं सुदूरमपि गत्वा प्रतिपत्तिशरणावस्थानाद् वादानामिति नायं निःसरणोपायः । तस्मादपरिहृतः पश्चिमदोषोऽपीति । एतेन 'अस्वातन्त्र्याद् भेदाजातेरजातितः' [ ] इति सव्याख्याविकल्पा दोषहेतवोऽपरिहृता वेदितव्याः, तेषां त्वदुक्तन्यायाध्यानतिक्रमात् परिहारहेतूनां तद्विकल्पानुसारित्वाच्चेत्यलं प्रसङ्गेन । 25
१ 'कथमिदम्-यत् सत् तद् द्रव्यं यद् द्रव्यं तत् सदिति ? अर्थान्तरापोहो यस्मिन् वस्तुनि क्रियते तद् द्रव्यं शब्दार्थो नापोहमात्रम् । तस्मादपरिहृतः पश्चिमदोषोऽपि।' इत्यपि मूलं स्यादत्र ॥ २ यत्र प्र०॥ ३तार्थी प्र०॥ ४० ७३३ पं० ४ ॥ ५ तुलना-पृ० ७३२ पं० ७॥ ६ पृ० ७३२ पं० २५॥ ७सूचनसूत्रेण प्र०॥ ८ शरणो° प्र० ॥ ९ दपहृतः य० ॥ १० दृश्यतां पृ० ६२३ पं० १७, पृ० ६२५ पं ८, पृ० ६२८ पं० ३, पृ० ७३३ पं० १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org