________________
७३४
न्यायागमानुसारिणीवृत्त्यलङ्कतं
[अष्टम उभयनियमारे स्वादस्माभिः । सच्छब्दोऽपोहमात्रखरूपोपसर्जनं द्रव्यमाह, न साक्षादित्यादि सर्व प्रागुक्तम् ।
यत्तूक्तं परं प्रत्याशङ्कय - स्यादेतत्-अपोहविशिष्टार्थत्वे...."तुल्यं शब्दार्थस्य समानत्वम् । ततःअद्रव्यत्वाच्च भेदाच.............॥ [
] नाप्यर्थान्तरापोहो नाम [ भावान्तरम् .......... ... .... नास्ति सामान्यदोष इति । अत्र ब्रूमः-तद्वत्त्वं च त्वदुक्तवत् । ननु भावान्तरतैव................।
सातिशयस्योक्तत्वादस्माभिः, तदेव स्मारयन्नाह—सच्छब्दोऽपोहमात्रस्वरूपोपसर्जनं द्रव्यमाह, न साक्षादित्यादि सर्व प्रागुक्तं 'जातिमद्वदपोहवान्' इत्युपक्रम्य । तत्र च जातिमतीवापोहवत्यपि 10 सर्वे दोषा यथा सङ्गतास्तथा प्रतिपादिता इति न पुनर्लिख्यते ।
स्यान्मतम्-जातिमत्त्ववदपोहवत्त्वमप्ययुक्तमिति, तैदाशङ्कयते यत्तूक्तमन्यापोहवादिना परं प्रति आशङ्कय तद्यथा-स्यादेतदपोहविशिष्टार्थस्त(र्थत्व) इत्यादि यावत् तुल्यं शब्दार्थस्य समानत्वम् शब्दस्य च समानत्वमर्थस्य च 'अपोहपक्षेऽपि' इति वाक्यशेषः । इत्थं पूर्वपक्षीकृत्योत्तरमाह-ततः अद्रव्यत्वाच्च भेदाच्चेति कारिकया चशब्दा[द् भा]ध्ये लिखितम् । तद्व्याख्या-नाप्यर्थान्तरापोहो नामेत्यादि 15 यावन्नास्ति सामान्यदोष इत्यपोहपक्षे जातिमत्पक्षगतदोषाभावप्रतिपादनं 'विशेषप्रदर्शनादिति त्वदभिप्रायं प्रदर्य वयमत्रोत्तरं ब्रूमः-तद्वत्त्वं च त्वदुक्तवत् । अस्य व्याख्या-ननु भावान्तरतैवेत्यादि । यदि परमताभ्युपगमात् सामान्यवत्पक्षे सत्सामान्यान्वयात् सामान्य[व]द्विशेषणस्य सामान्यस्यार्थान्तरत्वं
पारतव्यादि च ब्रूषे सामान्यवद् व्यावृत्तेरपि अर्थान्तरत्वं विशेषणत्वं पारतव्यादि च ननु तदवस्थमेव, ४७४-२ तद्वतोऽन्यप्रत्ययात्मकत्वात् सामान्यवत् तद्व्यावृत्तेरपि । अथ स्वमतेन ब्रूषे न सामान्यं न व्यावृत्तिमदिति 20 कुतस्तद्विशिष्टवस्त्वभिधानं खपुष्पशेखरविशिष्टवन्ध्यापुत्राभिधानवत् ।
वर्तते' इति वा पाठो दृश्यते। दृश्यता पृ० ६२९ पं० १४ । अत इदं कारिकाध दिनागस्य ग्रन्थान्तरादत्रोद्धृतं प्रतीयते । 'सत्वान् सत्तावान् घटादिरों न न सच्छब्दार्थ इत्याशयः, कस्मादिति चेत् , पटादिषु न वर्तते, स हि घटादिरर्थः पटादिषु न वर्तते, तस्मात् सामान्यमर्थः स कथम्? सामान्यं ह्यनेकवृत्ति, घटादिरर्थस्तु पटादिषु न वर्तते तस्मात् स न सामान्यमित्याशयोऽत्र भाति ॥ २१ तुलना-पृ० ६२९ पं० १४॥ २२ वर्तते प्र०॥
१ पृ० ६०७ पं० २६ ॥ २ पृ. ६०६ पं० २२ ॥ ३ 'तदाशङ्कय ते[न] यत्तूक्त' इत्यपि पाठोऽत्र भवेत् ॥ ४°ष्टार्थस्त इत्यादि भा० । ष्टास्त इत्यादि य० ॥ ५ स्यासमानत्वं शब्दस्य चासमा भा० । स्यास
दस्य च समा य० ॥ ६दिङागस्य ग्रन्थान्तरादियं का रिकात्रोद्धृता प्रतीयते, प्रमाणसमुच्चये तु नेयं कारिका दृश्यते । किश्चान्यत्, प्रमाणसमुच्चयवृत्तौ 'अर्थान्तरापोहमात्रस्य अभिन्नत्वादद्रव्यत्वाच्च' इति पाठ उपलभ्यत इति ध्येयम् । दृश्यतां पृ. ७२९ पं० ४, पृ० ७३३ पं० २१॥ ७ कारिकाया प्र० । 'कारिकायां' इत्यपि पाठोऽत्र स्यात् ॥ ८ चशब्दाख्ये भा० ॥ ९विशेषदर्श य० ॥ १० °दिव ननु भा० । 'दिषुव ननु य० ॥ ११ द्रूपे न य० । द्रूयते न भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org