________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७३३ अत्रापि शक्यं वक्तुम्-आश्रितस्य गुणि(ण ?)त्वाद् गुणगुणिनोर्भेदात् सामानाधिकरण्याभावस्तदवस्थः । इह तु जातियोगी यस्मिन् वस्तुनि वर्तेयातां [तद् द्रव्यं सदित्युच्यते......] शब्दद्वयाभिधेयत्वात् ।।
पश्चिमस्यापि दोषस्य भाव एव, साक्षादवृत्त्यादिदोषजातस्य सातिशयस्योक्त
उत्तरपक्षस्तु-अत्रापि शक्यमित्यादि । सत्ता-योगपक्षगतो विभक्तिभेदप्रसङ्गदोषोऽत्रापि शक्यो । वक्तुम् , आश्रितस्य गुणित्वात् । तद्यथा-सदभावाभाव आश्रितः, द्रव्याद्यभावाभाव आश्रयः, तयोश्च गुणगुणिनोर्भेदात् तदभिधायिनोः सामानाधिकरण्याभावस्तदवस्थः । या त्वयोक्तोपपत्तिः साऽपि जातियोगपक्षयोरपि क्रमत इत्यतस्तत्प्रदर्शनार्थमाह-इह तु जाति-योगी यस्मिन् वस्तुनीत्यादि । सत्तातः सच्छब्दः तत्सम्बन्धाद्वा सति वर्तते वस्तुनि द्रव्यादिभेदवति ‘सत्त्ववत् सत्' इत्यभेदोपचाराद् मतुब्लोपाद्वा, वयोक्तापोहवृत्तिवद् वर्तेयातां जातियोगौ 'सदेव सत्त्ववत्' इति । शेषस्त्वदुक्तोपपत्तिँग्रन्थवत्तुल्यगमो 10 यावच्छब्दद्वयाभिधेयत्वादिति गतार्थः । तस्मात् तदवस्थ एवापृथक्च्छ्रुतिदोषः । किश्चान्यत्-पश्चिमस्यापि दोषस्य भाव एव, नाभावः । यदुक्तं जातिमत्पक्षे
तद्वतो नास्वतन्त्रत्वाद् भेदाजातेरजातितः । इत्यादि दोषजातं तस्याभावोऽन्यापोहपक्षे साक्षाद्वृत्तेः, तत्र हि सैच्छब्दः सत्तामुदापाय द्रव्ये ४४, वर्तमानस्तद्भेदान् घटादीना[क्षे] तुमसमर्थः । अत्र पुनरसत्प्रतिषेधेन साक्षाद्वर्तत इति तस्य ये विशेषास्तान 15 न प्रतिक्षिपति । तस्मादिहानाक्षेपदोषो नास्ति । भोक्तदोषोऽप्यत एव नास्ति, न ह्यन्यत्र मुख्या वृत्तिईव्यादिषूपचर्यते । नापि भेदानवस्थानादनभिधानदोषः, कस्मात् ? अभेदात् , न ह्यर्थान्तरापोहो भेदेषु भिद्यते, अभावात् । तन्मात्रं च शब्देनोच्यते, न “भेदाः । तथा सामान्यदोषोऽपि नास्ति । यत्तूक्तम्
सत्वान् घटादिरर्थो न पटादिषु न वर्तते [ ] इति, साक्षाद् घटपटादिष्वसत्प्रतिक्षेपादिति । तन्न भवति, यस्मात् साक्षादवृत्त्यादिदोषजातस्य 20
१ दिनागेन क्वचिद् ग्रन्थे यत् स्वमतं प्रतिपादितं तदत्र निराक्रियते । प्रमाणसमुच्चयवृत्तावपि “पश्चिमस्यापि दोषस्याभावः । कथम् ? साक्षाद्वत्तेरमेदाच अर्थान्तरमुपादाय स्वभेदेषु शब्दो न वर्तते । तस्मात् पारतन्त्र्येण खमेदानाक्षेपदोषो भाक्तदोषश्च न स्तः । नापि भेदानवस्थानादव्यापकत्वाचानभिधानासामान्यदोषौ स्तः, अर्थान्तरापोहमात्रस्याभिन्नत्वादद्रव्यत्वाच्च" इत्यभिहितं दिनागेनेति ध्येयम् । दृश्यतां पृ. ७२९ पं० २॥ २ अवापि य० ॥ ३'गुणत्वात्' इत्यपि भवेदत्र पाठः। 'आश्रितस्य [गुणत्वादाश्रयस्य च ] गुणित्वात्' इत्यपि पाठोऽत्र चिन्त्यः ॥ ४ पात्त्वयोक्तों प्र० ॥५पृ० ७३२ पं० १॥ ६ तुलना-पृ० ७३२ पं० १॥ ७त्तयोक्तापोहनिवृत्तिवत् प्र०। (त्वदुक्तापोहवृत्तिवत्)॥ ८ ग्रंथवस्तुल्य प्र०॥ ९ तुलना-पृ० ७३२ पं० २५॥ १० तुलना-पृ० ७३५ पं० १४॥ ११ दृश्यतां पृ० ६०७ पं० २५ टि० ५, पृ० ६२३ पं० १७, पृ० ६२५ पं० ८, पृ० ६२८ पं० ३, पृ० ७३५ पं० २४ ॥ १२ पृ. ७२८ पं० ३०॥ १३ पृ. ७२९ पं०३ ॥ १४ सन्न पुन प्र०॥ १५ पृ० ६२३ पं० ४॥ १६ पृ. ६२५ पं० ८॥ १७ अभावत्वेन तस्यैकत्वादित्याशयः ॥ १८ भेदात् तथा प्र०॥ १९ पृ० ६२९ पं० १४ । अत्रेदमवधेयम्-प्रमाण समुच्चयवृत्तौ 'असामान्यदोषः' इत्यभिहितं दिकागेन, अत्र तु पृ. ७३४ पं० १५ इत्यत्र च 'सामान्यदोषः' इत्यभिहितं ग्रन्थकृता । अतो दिङागेन ग्रन्थान्तरेऽभिहितं 'सामान्यदोषोऽपि नास्ति' इति वचनमत्र विवक्षितं भाति । प्रमाणसमुच्चयवृत्तौ असामान्यदोष उक्तः, अन्यत्र तु दिनागेन सामान्यदोष उक्त इति भाति ॥ २० सदस्यास्तीति सत्वान् , दृश्यतां पृ० ६२८ पं० १९ । प्रमाणसमुच्चये 'तद्वानों घटादिश्च न पटादिषु वर्तते' इति 'तद्वानर्थो घटादिश्चेन्न पटादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org