________________
७३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
याभावो युक्तः, इह तु अर्थान्तरापोहो यस्मिन् वस्तुनि क्रियते तद् द्रव्यं शब्दार्थः नापोहमात्रम् । स च सच्छब्देन व्याप्तः, अपरित्यागात्, न तु साक्षादुक्तः ।
5
तद्यथा - सच्छन्दः [ असन्निवृत्त्युपसर्जनं द्रव्यमाह, न साक्षात्, ] संशयोत्पत्तेः, तस्माद् विशेषार्थैर्द्रव्यादिशब्दैः सच्छन्दस्य सामानाधिकरण्यं वाक्यार्थे युक्तं सद्द्रव्यं सद्गुणः सत्कर्म । तथा हि स्वार्थाव्यभिचारो विशेषशब्दसहितस्य । यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः, तस्य च वाचकौ तौ समुदितौ, न तु सच्छन्दो द्रव्यार्थमाह न द्रव्यशब्दः सदर्थम् । कथं तार्ह यत् सत् तद् द्रव्यं यद् द्रव्यं तत् सदिति ? उभयशब्दव्युदा सानुगृहीतस्य शब्दद्वयाभिधेयस्य समुदायार्थस्यैकत्वात् तथोच्यते, न तु सदर्थस्य द्रव्यशब्देनाभिधानात् ।
10 सम्बन्धौ विशेषणत्वात्, तद्वस्तु गुणीत्यतः सामानाधिकरण्याभावो युक्तः । इह त्वर्थान्तरापोहः सदित्यसन्न भवतीति नासद्भावमात्रमेवोच्यते, किं तर्हि ? अर्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते, यस्मिन् वस्तुनि सोऽपोहः क्रियते तच्च द्रव्यं शब्दार्थः, नापोहमात्रम् । स चापोहविशिष्टोऽर्थो द्रव्यादिः सच्छब्देन व्याप्तोऽपरित्यागात्, न तु साक्षादुक्तः ।
तद्व्याख्या- तद्यथा संच्छन्द इत्यादि । कस्मादनभिधानमिति चेत्, संशयोत्पत्तेः, उपात्तत्वे 15 सति अनभिहिते संशयः स्यात् । तस्मात् सामानाधिकरण्यं विशेषार्थैद्रव्यादिशब्दैः सच्छब्दस्य वाक्यार्थे युक्तं न पदार्थे । तद्दर्शयति-सद्रव्यं सद्गुण इत्यादि । तथा हि स्वार्थाव्यभिचारो विशेष सहितस्येति विशेषशब्दप्रयोगः । कोऽसौ वाक्यार्थ इत्यत आह- यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः, सद्दव्यशब्दार्थावयवावसदद्रव्यनिवृत्त्युपलक्षितौ ताभ्यामन्य उभयशब्दव्युदासानुगृहीतः समुदायार्थः, तस्य च ४७३-२ वाचकौ तौ समुदितौ न विपरीतार्थौ, तद् दर्शयति- न तु सच्छन्दो द्रव्यार्थमाह, न द्रव्यशब्दः 20 सदर्थमिति । यथोक्तम्
अपोह्यभेदाद् भिन्नार्थाः स्वार्थभेदगतौ जडाः ।
एकत्राभिन्नकार्यत्वाद विशेषणविशेष्यकाः ॥ [ प्र० समु० ५ । १५ ] इति ।
अत्र चोद्यम् — कथं तहींति 'यत् सत् तद् द्रव्यम्, यद् द्रव्यं तत् सत्' इति भिन्नार्थत्वेन युक्तम् ? इति । अत्र तेनैवोच्यते - उभयशब्दव्युदासानुगृहीतस्य असदद्रव्यनिवृत्त्यनुगृहीतस्य संहत25 शब्दद्वयाभिधेयस्य समुदायार्थस्यैकत्वात् तथोच्यते, न तु सदर्थस्य द्रव्यशब्देनाभिधानादिति पूर्वपक्षः ।
"
१ 'उभयशब्दव्युदा सानुगृहीतस्य शब्दद्वयाभिधेयत्वात्, न तु सदर्थस्य द्रव्यशब्देनाभिधानात्' इत्यपि मूलं स्यादत्र । तुलना - पृ० ७३३ पं० ३, पृ० ७३३ पं० ५ ॥ २ 'तत्' इति पाठः शोभनः । ( तद्वद्वस्तु ? ) ॥ ३ तुलना - पृ० ७३३ पं० २ ॥ ४ " न्तरापोहे' इत्यपि पाठः स्यात् ॥ ५ वस्तुनि अपोहः य० ॥ ६ तुलना पृ० ६०७ पं० २६ ॥ ७ संशयोत्पत्तेरूप त्तत्वे सति प्र० ॥ ८ ' अनुपात्तत्वे' इत्यपि चिन्त्यम्, दृश्यतां पृ० ६३८ पं० १४ ॥ ९ दृश्यतां पृ० ६३० ॥ १० ‘कथं तति । 'यत् सत् तद् द्रव्यम्, यद् द्रव्यं तत् सत्' इति भिन्नार्थत्वे न युक्तमिति । इत्यपि योजना ११ तुलना - पृ० ७३३ पं० ३ ॥ १२ तुलना - पृ० ७३३ पं० ५ ॥
स्यादत्र ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org