________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७३१ वाचकः, भेदार्थैरपृथक्छतेः। तथा हि 'सद द्रव्यं सन् गुणः सत् कर्म' इति भेदाथैद्रव्यादिशब्दैः ] सामानाधिकरण्यं न स्यात् । यथा न हि सत्ता द्रव्यं गुणो वा, भवति, किं तर्हि ? द्रव्यस्य गुणस्य वा, तथा न हि सदसन्निषेधाभावो द्रव्यं भवति गुणो वा, किं तार्ह ? द्रव्यस्य गुणस्य वा भावाभावः। आह च
विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः ।
सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः ॥ [ वाक्यप० ३।१४।८ ] यत्तु सत्तासम्बन्धाभिधानपक्षाभ्यामपोहपक्षे विशेषहेतुप्रतिपादनार्थमुक्तम्-तत्र हि सत्तासम्बन्धयोर्गुणत्वाद् वस्तुनश्च गुणित्वात् सामानाधिकर
10
भावः, सदसन्मात्रमित्यर्थः, इतीयं व्याख्या त्वन्मतानुसारिण्येवेति आहे चेति ज्ञापकमप्याह -विभक्तिभेदो नियमादित्यादि ।
यत्तु सत्तेत्यादि । सत्ता-सम्बन्धाभिधानपक्षयोरपृथक्छुतिदोषोऽस्ति, नापोहपक्षे विशेषहेतुसद्भावादिति तस्य विशेषहेतोः प्रतिपादनार्थमुक्तम्-तत्र हीत्यादि । सत्तासम्बन्धा[भिधा]नपक्षयोर्गुणौ सत्ता
१अत्रेदमवधेयम् । नयचक्रवृत्तौ 'विभक्तिभेदो नियमादित्यादि' इत्येव प्रतीक उपलभ्यते । न्यायवार्तिके २१६६ 1 दिङागमतनिराकरणप्रसङ्गे 'विभक्तिभेदो नियमाद गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्यासिद्धिः सद्रव्यशब्दयोः ॥' इति कारिका उद्दयोतकरेण पूर्वपक्षरूपेणोपन्यस्ता, अतः सा दिनागस्येति सम्भाव्यते । भर्तृहरेर्वाक्यपदीये [ ३।१४।८ ] तु 'विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः॥' इति कारिका दृश्यते । एतच्चास्माभिरत्र पृ० ७३१ टि० ३ इत्यत्र विस्तरेणोपदर्शितम् । अतोऽत्र मल्लवादिक्षमाश्रमणानां कीदृशी कारिकाभिमतेति निर्णेतुं न पार्यते । तथापि भर्तृहरेः कारिका दिङागेनापि पृ० ६०७ पं० १९ इत्यत्रास्मिन् प्रसङ्गे निर्दिष्टा, अतोऽस्माभिरपि सैव कारिका सम्भावनयात्रोपन्यस्तेति सुधीभिर्विभावनीयम् ॥ २ वेति प्र०। तुलना-पृ. ६०७ पं० १८॥ ३ "विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धि ब्दयोः॥ [वाक्यप० ३।१४।८], पटस्य शुक्ल इति द्रव्यगुणाभिधायिपदप्रयोगे शाब्दो गुणप्रधानभावः। तथाहि-अत्रोपसर्जनं प्रधानोपकारपरिणतं स्वार्थमाचष्ट इति गुणविभक्तिं षष्ठीमुपादत्ते । प्रधानं तु स्वात्मन्यवस्थितमपरोपकारीति प्रथमया युज्यते इति नियतो विभक्तिभेदो व्यधिकरणे विषये । वीरः पुरुष इत्यादौ तु समानाधिकरणे विषये द्वावपि द्रव्यशब्दौ खनिष्ठं स्वार्थमाचक्षाते । तथा च तत्र प्रथमैव । सामर्थ्यनिबन्धनस्तु गुणप्रधानभाव उक्तो 'विशेष्यं स्यादनितिम्। [ वाक्यप० ३।१४।७] इत्यादिना । एवं च सत्यपि गुणप्रधानभावे शाब्दाशाब्दत्वकृतो विशेषः सामानाधिकरण्यवैयधिकरण्ययोरिति षष्ठीसमानाधिकरणयोः समासयोर्भेदः ।" इति हेलाराजकृतायां वाक्यपदीयटीकायां वृत्तिसमुद्देशे ॥ “यत् पुनरेतद् 'भेदार्थैरभिन्नविभक्तिकत्वात्' इति तन्न, समानार्थापरिज्ञानात् । न ब्रूमः सत्ताशब्देन सामानाधिकरण्यम् , अपि तु सत्तायाः प्रधानसाधनवाचिना सच्छब्देन द्रव्यगुणकर्माण्य भिधीयन्ते । गुणकर्मशब्दैरपीतरेतरविशेषणविशेष्यभावापनस्तान्येव । एवं च सति युक्तं सामानाधिकरण्यमुभयोः सद्व्यशब्दयोः, एकविषयत्वात् । यदा पुनरयं सत्ताशब्दः सत्ताप्रधान एवाङ्गभूतं साधनमभिधत्ते न तदा सामानाधिकरण्यं द्रव्यस्य सत्तेति भवति । तस्मात् सामानाधिकरण्यानुपपत्तिरदोषः । 'विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्यासिद्धिः सद्रव्यशब्दयोः ॥ इति तदनेन प्रत्युक्तम् ।”न्यायवार्तिकम् [जेसलमेरस्थं हस्तलिखितम् ] २।२।६६ ॥
1दिङ्गागमतस्य निराकरणमत्र प्रस्तुतम् , अतोऽयं श्लोको दिङ्गागस्यैव कस्मिंश्चिद् ग्रन्थान्तरे भवेदिति सम्भाव्यते । यस्तु भर्तृहरेः श्लोको दिङ्गागेनोद्धृतः स पृ० ६०७ पं० १९ इत्यत्र द्रष्टव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org