________________
७३०
४७२-२
न्यायागमानुसारिणीवृत्त्यलङ्कतं [अष्टम उभयनियमारे
असन्निषेधाभावत्वाद विशेषार्थविभिन्नता। सामान्यशब्दस्य हि योऽर्थान्तरव्युदासो व्यापारः स स्वभेदाप्रतिक्षेपेण [प्र०समु०३०५।३६] इति वाङ्मात्रेणोक्तम् । स खभेदप्रतिक्षेपेणैव, तस्य सन्नियमार्थत्वादसत्प्रतिषेधस्याभावत्वात् भेदानां परस्परतः सदसत्त्वात् भेदश्रुत्या सह सामानाधिकरण्यमनु5 पपन्नम् । सम्बन्धस्यापि भेदैरभावस्यानुपपत्तेः कस्य वा ते भेदाः १ तस्माद
पृथक्छ्रतिदोषोऽस्त्येव । - सुकरो हि [शब्दस्यान्यापोहेन सम्बन्धः, शब्दो जातिमात्रस्य तद्योगस्य वा न वाचको भेदार्थैरपृथक्छ्रुतेः । तथा हि 'सद् द्रव्यं सन् गुणः सत् कर्म' इति भेदाथैद्रव्यादिशब्दैः सामानाधिकरण्यं न स्यात्, तच्च दृष्टम् । न हि सत्ता योगो वा द्रव्यं 10 गुणो वा भवति, किं तर्हि ? ] द्रव्यस्य गुणस्य वा। तथैव हि [अन्यापोहस्य न
समानाधिकरणाभावप्रसङ्गदोषजातस्य [अ]भाव इति । तद्यथा-व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता [प्र. समु० ५।३६] । 'सदित्यसन्न भवति' इत्यसतो निवृत्तिः सर्वद्रव्यगुणकर्मघटरूपोत्क्षेपणादिभेदव्यापिनी, तस्या असन्निवृत्तेः सर्वभेदव्यापित्वात् तैरभिन्नार्थत्वात् सामानाधिकरण्यमुपपन्नमिति । एतन्न, यस्मादसन्निषेधा
भावत्वाद् विशेषार्थविभिन्नता । तद्व्याख्या सामान्यशब्दस्य हीत्यादि, सामान्यशब्दस्य हि सदादे15 र्योऽर्थान्तरव्युदासः 'असन्न भवति' इति कृत्यं व्यापारः स त्वयेत्थमवधारितः स्वभेदाप्रतिक्षेपेणेति वाङ्मात्रेणोक्तं प्रागुक्तं विस्मृत्येति पूर्वपक्षप्रत्युच्चारणम् । अत्र तु वयं ब्रूमः-स स्वभेदप्रतिक्षेपेणैवेति । कस्मात् ? तस्य सच्छब्दस्य सन्नियमार्थत्वात्-'असन्न भवति' इति द्विःप्रतिषेधस्य प्रकृत्यापत्तेः सत्त्वेन नियतत्वादसत्प्रतिषेधस्याभावत्वात् । ततः किम् ? ततो भेदानां परस्परतः सदसत्त्वात् , इतरेतराभावत्वादसत्त्वम् , सन्नियमात् सत्त्वम् , अतः स्वभेदाः प्रतिक्षिप्ता एव, सन्तोऽप्यसन्त एव न भवन्तीति 20 प्राप्तम् । ततश्च भेदश्रुत्या द्रव्यगुणादिकया घटपटादिकया च सह सामानाधिकरण्यमनुपपन्नमसन्नि
वृत्तेरभावसाधनत्वात् , अभावेन चैकविभक्तित्वमनुपपन्नं भेदानां 'सव्यं सद्गुणः सन् घटः' इत्यादि । न विभक्तिमात्रसामानाधिकरण्यानुपपत्तिरेव, किं तर्हि ? पदस्याप्यनुपपन्नं सामानाधिकरण्यं विभक्तिभेदेनापि 'सैद् द्रव्यस्य गुणस्य वा' इत्यादि । सम्बन्धस्यापि भेदैर्द्रव्यादिभिरमावस्यानुपपत्तेः कस्य वा ते भेदाः
सच्छब्देनाभिन्नासत्त्वनिवृत्तिमात्रोपादानात् ? तस्मादपृथक्छुतिदोषोऽस्त्येव । 25 तद्व्याख्यानार्था टीका तँदीयैव —सुकरो हीत्यादिका दृष्टान्तत्वेन गतार्था यावद् द्रव्यस्य गुणस्य
वेति । तथैव हीति दार्टान्तिकत्वेन त्वन्मतप्रदर्शनमेव यावत् सामानाधिकरण्यं न स्यात् । यथा न ११,हि सत्ता द्रव्यं गुणो वा भवतीत्यादि तथा न हि सदसन्निषेधाभावस्त्वन्मतोऽस्मन्मतस्य प्रतिषेधद्वयविधेयस्य सतः सभेदस्यानभ्युपगमे द्रव्यं भवति गुणो वा, किं तर्हि ? द्रव्यस्य गुणस्य वा भावा
१ तुलना-पृ० ६०७ पं० १६॥ २ समाधिकरणाभाव भा० ॥ ३ दृश्यतां पृ० ७२८ टि० ९॥ ४ 'सन् गुणः' इति सम्यक् प्रतिभाति । तुलना-पृ० ६०७ पं० १७ ॥ ५ तुलना-पृ० ६०७ पं० १८ ॥ ६ कस्य धातो भेदाः भा० । कस्य धातोर्भेदाः य० ॥ ७ तदैयैव सुकरा ही प्र० ॥ ८ (ऽभावाभावः, असदसन्मात्रमित्यर्थः ? ? ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org