________________
दिङ्गागप्रणीतापोहवाद निरासः ]
द्वादशारं नयचक्रम् ।
व्यापारः स स्वभेदाप्रतिक्षेपेणेति भेदशब्दैः सह सामानाधिकरण्यमुपपद्यते । तस्मात् स्वभेदार्थैः पृथक्छ्रुतिदोषो नास्ति । योऽर्थ उभयशब्दाभिधेयः तत्रार्थान्तरे सामानाधिकरण्यम् । तथा हि स्वार्थाव्यभिचारः, 'केवलस्यान्यत्रावृत्तेः । पश्चिमस्यापि दोषस्याभावः । कथम् ? साक्षाद् वृत्तेरभेदाच्च । अर्थान्तरमुपादाय स्वभेदेषु शब्दो न वर्तते । तस्मात् पारतन्त्र्येण स्वभेदानाक्षेप दोषो भाक्तदोषश्च न स्तः । नापि भेदानवस्थानादव्यापकत्वाच्चानभिधाना सामान्यदोषौ स्तः, अर्थान्तरापोहमात्रस्याभिन्नत्वादद्रव्यत्वाच्च । तत एव सामान्यविशेषान्तरयोगानुसरणमपि न कर्तव्यम्, साक्षादर्थान्तरनिषेधात् । एवं पूर्वोकदोषाभावादर्थान्तरापोह एव शब्दार्थः साधुः । अतश्च जातिधर्मव्यवस्थितिः । जातिधर्माचैकत्व-नित्यत्व-प्रत्येकपरिसमाप्तिलक्षणा अत्रैव व्यवतिष्ठन्ते, अमेदादाश्रयानुच्छेदात् कृत्स्नार्थप्रतीतेश्च । एवं दोषाभावाद् गुणोत्कर्षाच्च शब्दोऽर्थान्तर निवृत्तिविशिष्टानेव भावानाह ।"Psv' c. ed. n. ed. पृ० ७४ -७, a, N. ed. पृ० ८३-८४ । Psv N. ed. पृ० १६७, P. ed. पृ० १६५ b-१६६a ।
अस्य जिनेन्द्रबुद्धिरचिता विशाला मलवती टीकापि भोटभाषानुवादात् संस्कृते परिवर्सेहोपन्यस्यते— “व्याप्तेरन्यनिषेधस्येति । व्याप्तिः स्वभेदाप्रतिक्षेपः, अन्यनिषेधो यथोक्तं सामान्यम्, तस्य व्याप्तेः स्वभेदेषु व्यापकत्वादित्यर्थः । अन्यनिषेधस्येति कृद्योगलक्षणेयं कर्तरि षष्ठी । तद्भेदार्थैरभिन्नतेति अन्यापोहभेदार्थवाचकैर्द्रव्यादिशब्दैः सदादिशब्दस्य सामानाधिकरण्यमित्यर्थः । सामान्यशब्दस्य हीत्यादि । सामान्यशब्दस्य यो व्यापारः प्रतीयते स च कीदृश इति चेत् अर्थान्तरव्युदासः, स स्वार्थाप्रतिक्षेपेण । एतेन व्यापकत्वमाह । यथा जात्यभिधाने जात्यन्तराणां प्रतिक्षेपस्तथार्थान्तरापोहाभिधाने न द्रव्यत्वादिविशेषाणाम् । हिशब्दो यस्मादर्थ इतिशब्दस्तस्मादर्थो (र्थे), यस्मादेवं तस्माद् भेदार्थैर्द्रव्यादिशब्दैः सच्छब्दस्य सामानाधिकरण्यमुपपद्यते । तस्मादेकमेव वस्तु सत्त्वद्रव्यत्वाभ्यां व्यज्यमानं 'सद् द्रव्यम्' इति सद्द्रव्यशब्दाभ्यामभिधीयते । तथा हि स्वार्थाव्यभिचार इति, समुदायार्थो हि विशिष्टः, यदि पदं तद्वाचकं स्यात् तदा तदभावेऽपि पदस्य वृत्तस्तत्प्रतीतिर्न स्यात् । यस्मात् समुदायस्तद्वाचकं शब्दान्तरमेव तस्मादव्यभिचारः । पश्चिमस्यापीति 'द्वतो नास्वतन्त्रत्वात्' इत्यस्य । साक्षाद्वृत्तेरिति " ...... । अत्र सत्तादिगुणान्तरानपेक्षया असदपोहवस्तुनि शब्दः प्रवर्तते । तद् दर्शयति — अर्थान्तरमुपादायेत्यादि । तस्मात् पारतन्त्र्येणेति, यमुपादाय द्रव्ये शब्दः प्रवर्तते सोऽर्थान्तरापोहो न जात्यादिवत् किमप्यर्थान्तरम्, ततो व्यवधानाभावात् कुतः पारतन्त्र्यम् ? तदेव हि वस्तु असदादिभ्यो व्यावृत्तं साक्षादभिधीयते, तस्माद् यस्तस्य भेदः [स] तत्राभेदाद् न प्रतिक्षिप्यते । भाक्तदोषोऽप्यत एव नास्ति । न ह्यन्यत्र मुख्ये वर्तमानः शब्दो द्रव्यादिषूपचर्यते । नापीत्यादि, भेदानामानन्त्यमनवस्थानम्, तस्मादनभिधानदोषो नास्ति 'तद्वांश्च भेद एवोक्तः स च पूर्वं निराकृतः' इत्यनेनोकः । व्यापकत्वाद सामान्यदोषोऽपि नास्ति यः 'तद्वानर्थो घटादिश्च' इत्यादिनोक्तः । कुतो नास्तीत्याह - अर्थान्तरापोहमात्रस्याभिन्नत्वादिति, 'अभेदात्' इत्येतदनेन व्याख्यायते । भेदसद्भावे हि आनन्त्यदोषः स्यात् असामान्यदोषथ, अन्यस्यान्यत्रावृत्तेः । अर्थान्तरापोहमात्रं त्वभिन्नम्, तत्र कुतोऽस्य दोषस्यावकाशः ? ननु यो ज्ञानस्य सामन्याकारः सामान्यं व्यवस्थाप्यते सोऽपि ज्ञानादभिन्नत्वादन्यत्रावर्तमानः कथं सामान्यम् ? इति चेत्, उच्यते - अद्रव्यत्वादित्यादि । स विज्ञानस्याकारोऽपि सामान्यरूपेण । परिनिष्पन्नत्वात् सामान्यमद्रव्यसदेव । नेदमनिष्टमेव ।....... ....तत एवेति साक्षाद्वृत्तेः । तत्र सत्ताया विशेषणरूपेणाभिधानाद् वस्तुस्वरूपस्य व्यवधनम् । तेन सम्बन्धिनो हि घटत्वादयः, न सत्तया सम्बन्धिनः जातौ जात्यभावात् । तस्मात् तद्वारेण अनेकार्थाकाङ्क्षाया न कारणम् । अत्र तु साक्षादसन्निषेधेन स्वार्थे शब्दो वर्तते, तस्मात् तस्य विशेषाकाङ्क्षाकारणत्वमुपपद्यते सामान्यान्तरयोगाभावेऽपि साक्षादर्थान्तरनिषेधादिति, अर्थान्तर निषेधोपायभूतं स्वार्थाभिधानमेवमुच्यते, साक्षात् स्वार्थाभिधानादित्यर्थः । एतेन 'तत एव' इत्यस्यार्थो दर्शितः । अत्र च वस्तुसज्जात्यन्तरयोगनिषेधो विवक्षितः, नोपचरितजात्यन्तरयोगोऽपि । अत्रैव व्यवतिष्ठन्त इति ।......... नित्यत्वेन कल्पनमप्युपपद्यते कृत्स्नार्थप्रतीतेस्तु प्रत्येकं परिसमाप्तिः । ........ गुणोत्कर्षादिति जातिधर्मव्यवस्थाया अत्रैव युक्तत्वात् । " - VI. D. ed. पृ० २७७ – २७९, P. ed. पृ० ३१२ b - ३१४ ॥
1 तस्मादस्य भेदाथैः Psv ॥ पं० २५ ॥ 5 पृ० ६२९ पं० ७ ॥ नय० ९२
Jain Education International
७२९
2 केवलेऽन्यत्रावृत्तेः (?) ॥ 3 कुतः ? जातिधर्म' Psv ॥ 4 पृ० ६०७ 6 पृ० ६२९ पं० १४ ॥
For Private & Personal Use Only
www.jainelibrary.org