________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतं
[ अष्टम उभयनियमारे
अन्यत्वमेव तर्ह्यतुल्यं शौक्यादेः । रूपादयो नान्ये शौक्लयादेः, अनिष्टापत्तेः । अरूपादित्वे शैौक्लयस्य तच्छौक्लयमेव न स्यात् अरूपादित्वात् उत्क्षेपणादिवत् । तस्मात् तेन सहानन्यत्वाद् रूपादेर्न तदपोहः । ये पुनरन्येऽपि आश्रितादेस्तु गुणादयः तेषामपोहानपोहाभ्यां संशयः । अथैतदेव कुतः ? अस्मदिष्टान्वयदर्शनादेवैतत् सिद्धम् । एवं तावदानन्त्यानुक्तिव्यभिचारदोष योरन्यापोहपक्षेऽपि भावः । 'अनन्तरस्यापि च भावः यस्मात्
5
,
७२८
रुत्क्षेपणादि रूपादि च स्यादिति 'आश्रितत्वात्' इत्यस्माद्धेतोः । संशयो न स्यात् कर्म-गुणेषु सप्रभेदेषु अनुबन्धिवदनन्यत्वात् तदुपायप्रदर्शनं सर्वगुणादिपरिक्रमेण । कस्मात् ? शौकुयैकात्म्यात् त्वदिष्टादिति ।
४७२-१
अत्राह - अन्यत्वमेव तर्ह्यतुल्यं शौक्यादेः । एवं तर्हि नानन्यत्वम्, किं तर्हि ? अन्यत्वमेव । 10 मा भूदेतदनिष्टमिति तद् दर्शयन्नाह - रूपादयो नान्ये शौक्यादेः कस्मात् ? तद्रूपानुबन्धित्वात्, वृक्षादिव पार्थिवत्वम् । किं कारणम् ? अनिष्टापत्तेः । किं तदनिष्टमिति चेत्, अरूपादित्वे शौक्लयस्य तच्छौ क्लयमेव न स्यात्, अरूपादित्वात्, उत्क्षेपणादिवदिति । तस्मात् तेन सहानन्यत्वात् शौक्लन रूपादेर्न तदपोहः न रूपाद्यपोहः । ये पुनरन्येऽपि ततस्तेषामपोहानपोहाभ्यां संशयः । के पुनस्ते ? उच्यन्तेआश्रितादेस्तु गुणादयः, तद्यथा - गुणोऽयमाश्रितत्वात् इत्याश्रित एव नियमाद् गुणो नाऽनाश्रितोऽस्तीति । 15 आश्रितस्तु गुणः कर्म सामान्यं विशेषः समवायो वेत्यनियमः । तस्मात् तेन सहाश्रितत्वेन तेषां गुणादीनामन्यत्वादपोहोऽनपोहचेति संशयः स्यादिति ।
20
आचार्य आह- अथैतदेव कुतः ? 'शौक्कयादिवद्रूपादिषु निश्चयः, आश्रितत्वाद् गुणादिषु संशयः' इति त्वया यतः प्रत्यवगतं तद् वक्तव्यं विशेषकारणं व्यावृत्तिप्राधान्यवादिना, विधिना दर्शनमन्तरेण वस्तुनो न शक्यम्, अस्मदिष्टवस्त्वन्वयदर्शनादेवैतत् सिद्धम्, तदभावे तन्नियमानियमाप्रसिद्धेः ।
एवं तावदित्यादि । भेदपक्षे परं प्रति उक्तयोरानन्त्यानुक्ति-व्यभिचारदोषयोः 'अॅटष्टेरन्यशब्दार्थे' [प्र० समु० ५।३४ ] इत्यादिनाप्यपरिहृतत्वात् सविशेषयोरन्यापोहपक्षेऽप्यस्तित्वं दर्शितमित्युपसंहारः ।
अनन्तरस्यापि च भावः । यदप्युक्तम् अनन्तरस्यापि जातिसम्बन्धाभिधानपक्षयोरुक्तस्य
१ “अनन्तरस्याप्यभावः । कथम् ? यस्माद् व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता । साक्षाद्वृत्तेरभेदाच्च जातिधर्मव्यवस्थितिः ॥ [ प्र० समु० ५/३६ ] सामान्यशब्दस्य हि योऽर्थान्तरव्युदासो व्यापारः स स्वभेदाप्रतिक्षेपेणेति भेदश्रुत्या सह सामानाधिकरण्यमुपपद्यते ।" इत्यादि दिङ्गागमतं निराकर्तुमत्र प्रारभते । दृश्यतां पृ० ७२८ टि० ९ ॥ २ स एवं भा० ॥ ३ वृक्षादि पार्थि य० ॥ ४ तौ पुनस्ते प्र० ॥ ५ आश्रितास्तु य० ॥ ६ दितद्रूपा ० । दिपा भा० ॥ ७] [] इत्यपि पाठः स्यादत्र ॥ ८ दृश्यतां पृ० ६५० टि० २ ॥ ९ दृश्यतां पृ० ६५० पं० ११-२६ । दिङ्गागेन सवृत्तिके प्रमाणसमुच्चये पञ्चमेऽपोहपरिच्छेदे यदभिहितं तदत्र भोटभाषान्तरात् संस्कृते परिवर्त्यो पन्यस्यते-
"व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता ।
साक्षाद्वृत्तेरभेदाच्च जातिधर्मव्यवस्थितिः ॥ ५/३६ ॥
अनन्तरस्याप्यभावः । कथम् ? व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता । सामान्यशब्दस्य हि योऽर्थान्तरव्युदासो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org