________________
सत्तायाः सत्सत्करत्वखण्डनम्] द्वादशारं नयचक्रम् तेषामपि लब्धिप्रकाश्यत्वादनवस्था । सापि लब्धिरात्मनः प्रणिधानाख्येन वीर्येणापनीते ज्ञानावरणादिकालुष्ये जीवस्योपयोगलक्षणस्य प्रसादमात्रं ज्ञानमुपयोगस्तेन प्रकाश्यते लब्धेरप्युपयोगफलायास्तत्प्र
नामान्तःपाति तत् सकलमादीयते । अपरे तु आयुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य । एवं विदूरवर्ति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोति - तदावरणीयकर्मक्षयोपशमजनिता चेति। तस्याः खलु रूपादिग्रहणपरिणतेरावणीयमावारकमाच्छादकम् , बाहुलकात् कर्तरि व्युत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म, मतिज्ञानदर्शनावरणकर्मेत्यर्थः । तस्योभयस्य क्षयोपशमोऽभिहितलक्षणः, तजनिता च तन्निष्पादिता चेत्यर्थः । चशब्दः पूर्वकं कारणं समुच्चिनोति । ननु च क्षयोपशम एव लब्धिरुका, तेन जनिता अन्या का भवेल्लब्धिः ? उच्यते- मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते । कथं कृत्वोक्तं प्राक्क्षयोपशमो लब्धिरिति ? कारणे कार्योपचारमालम्ब्य नवलोदकं पादरोगवदित्य भिहितमतो न दोषाय । अन्ये पुनराहुः - अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविषयोपभो(यो ?)गज्ञानशक्तिर्लब्धिरित्युच्यते । पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया भाष्यकृत् प्रतनुते ग्रन्थम्-इन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवतीति । इन्द्रियाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिद् निर्माणाङ्गोपाङ्गादीनि यैर्विना तानि न निष्पद्यन्ते तदुदयेन तद्विपाकेन निर्वृत्ता जनिता आत्मनो लब्धिरुद्भवति, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गादिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेरतुलं बलमुपयच्छन्ति कारणतां बिभ्रतीति । सैषा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति । तद्यथा-स्पर्शेनेन्द्रियलब्धिरित्यादि भाष्यम् । यथा तत् पञ्चविधत्वं तस्यास्तथा दर्श्यते । स्पृष्टिः स्पर्शनम् , स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियम् , एतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तमुपयोगात्मनेति यावत् , एवं जिह्वेन्द्रियादिलब्धयोऽपि वाच्याः । इति शब्दो लब्धेरियतामावेदयति । उक्ता लब्धिः, अधुनोपयोग उच्यते । यदि लब्धिनिर्वृत्त्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो निवृत्त्याद्यपेक्षाऽभावात् । एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव । विशेषो वाच्यः । उच्यते - न खलु सर्व उपयोगो लब्धिनिर्वृत्त्युपकरणेन्द्रियकृतः, किं तर्हि ? स एवैकस्त्रितयनिमित्त इत्यत आह - उपयोगः स्पर्शादिषु । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोग गृह्यते स्पर्शनेन्द्रियादिनिमित्तः, नावध्याधुपयोगः । अमुमेवार्थ स्पष्टयन् भाष्यकृदाह-स्पशोदिषु मतिज्ञानोपयोग इत्यर्थः । स्पशोदिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति अनेन शेषज्ञानव्युदासमादर्शयति, मतिज्ञानोपयोग एव लब्धिनिवृत्त्युपकरणापेक्षः प्रवर्तते न शेष इति । अत्रोपयोगसामान्यश्रुत्यपहृतावधानश्चोदयति-स्पर्शादिविषयो य उपयोगः परिसमाप्तिव्यापार इत्युक्तम् । एतच परमाणुद्वयणुकादिष्यपि दृष्टम् । परमागुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकारः-उक्तमेतदुपयोगो लक्षणमिति । अथवा भाष्यकारः स्वयमेवोपयोगविशेषव्याख्यामातितनिषुराह-उक्तमेतदित्यादि । अभिहितमेतदुपयोगचैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणम् , कः परमाण्वादिष्वत्र प्रसङ्गः ? अत्यन्तासम्बन्ध एव । तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण उपयोग इत्यादि । उपयोगस्तु द्विविधा चेतना- संविज्ञानलक्षणा अनुभवनलक्षणा च । तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदना अनुभवनलक्षणा । एतदुभयमुपयोगग्रहणाद् गृह्यते । प्रणिधानमवहितमनस्कत्वम् । एतदुत्कीर्तयति-स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्च, नावध्याधुपयोगस्तथेति । आयोग इति स्वविषयमयोदया स्पशादिभेदनिभासो ज्ञानोदयः स्पर्शनेन्द्रियादिजन्मा अभिधीयते । तद्भाव इति, उपयोगलाञ्छनो जन्तुः तच्छन्देनामृश्यते, तस्य भावः स्पर्शनादिद्वारजन्म ज्ञानमात्मनो भूतिरुद्भव इति यावत् । परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणतिरूपत्वादित्यर्थः । सम्प्रति प्रवृत्ती क्रमनियममापादयन्नाह - एषामित्यादि भाष्यम् । एषामिति व्याख्यातस्वरूपाणां निर्वृत्त्युपकरणलब्ध्युपयोगेन्द्रिय णामयं प्रवृत्तिक्रमो यदुत निर्वृत्तिः प्राक, तस्यां सत्यामुपकरणमुपयोगश्च भवति निवृत्त्याश्रयत्वादुपकरणस्य तदारजन्मत्वाचोपयोगस्य । एतच्च निवृत्त्यादित्रय लब्धीन्द्रियपूर्वकं दर्शयति-श्रोत्रादिक्षयोपशमलब्धौ सत्यां निवृत्तिः शकुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽवयवा निवर्त्यन्ते,,तस्मालब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नवते, एकेनाप्यवयवेन विकलमिन्द्रिय नोच्यते न च स्वविषयग्रहणसमर्थ भवति । अमुमर्थ भाष्येण दर्शयति-निर्वृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते । निवृत्त्युपकरणलब्ध्युपयोगानामन्यतमाभ'वे एकेनाप्यनेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो भवत्यात्मनः धिकलकरणत्वात्... ...... । 'उपयोगः स्पर्शादिषु' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org