________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे ज्ञानात्मात्मप्रकाश्यं च । तान्यपि हि निर्वृत्त्युपकरणतद्योग्यपर्याप्तिद्रव्याण्यञ्जनादिबाह्यद्रव्याणि चात्मन्युदितक्षीगोपशान्ताङ्गोपाङ्गनामकर्मोदयज्ञानदर्शनावरणवीर्यान्तरायक्षयोपशमापेक्षात्मलब्धिप्रकाश्यानि, तस्मात निर्माणनाम चात्र वर्धकिस्थानीयं कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुण्यमिति आचार्याः । तदित्थमङ्गोपाङ्ग नाम्ना प्रतिविशिष्टेन कर्मणा निर्वर्तितानि जनितानि इन्द्रियद्वाराणि इन्द्रियविवराणि भावेन्द्रियावधानद्वाराणीति भावः । एतानि च नानासंस्थानादीनि, तथा चागमः - ‘फासिदिए णं भंते ! किंसठिए पण्णत्ते ?........... कलंबुआपुप्फसंठिए पण्णत्ते [प्रज्ञापनासू० १९१], अभ्यन्तरां निर्वृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि, बाह्या पुनर्निवृत्तिश्चित्राकारत्वान्नोपनिबर्द्ध शक्या अश्वमनुष्यादीनां बाह्यश्रोत्रादिभेदादिति । इममेवातिक्रान्तभाष्यार्थ पर्यायान्तरेण स्पष्टयन्नाह-कर्मेत्यादि । कर्मविशेषसंस्कृता इति, कर्मविशेषो नामकर्म, तस्यापि अङ्गोपाङ्गनाम निर्माणकर्म च, आभ्यां संस्कृता विशिष्टावयवरचनया निर्वर्तिताः शरीरप्रदेशाः औदारिकादीनां त्रयाणां प्रतिविशिष्टा देशाः कर्णशष्कुल्यादय इति । मुग्धमतिमोहव्यपोहायाह-निर्माणेत्यादि । निर्माणनाम च अनोपाझंच निर्माणनामाङ्गोपाङ्गे, ते प्रत्ययः कारणं यस्याः सा तथाविधा मूलगुणनिर्वर्तनेत्यर्थः, निगमनमेतत्' नोत्तरगुणनिर्वर्तना, सा हि कर्णयोः वेधप्रलम्बतापादनं चक्षुर्नासिकयोरञ्जननस्याभ्यामुपकारः ब्राहयादियोगाजिह्वायाः स्पर्शस्य गन्धादिभिर्विमलत्वकरणमिति । इत्यर्थ इत्येवमर्थोऽस्याःप्रवचनज्ञैराख्यात इति व्याख्याता निर्वृत्तिः । अधुनोपकरणमाह - उपकरणं बाह्यमभ्यन्तरं च । उपक्रियतेऽनेनेत्युपकरणम् , बाह्यकरणं शष्कुल्यादीति । तत्र अभ्यन्तरं खड्गस्थानीयाया निवृत्तेस्तद्धाराशक्तिकल्पं स्वच्छतरपुद्गलजालनिष्पादितं तदभिन्नदेशमेवेति, यदधिकृत्याह-निर्वर्तितस्येत्यादि, निर्वर्तितस्य निष्पादितस्य स्वावयवविभागेन निवृत्तीन्द्रियस्येति गम्यते, अनुपघातानुग्रहाभ्यामुपकारीति, यदनुपहत्या उपग्रहेण चोपकरोति तदुपकरणेन्द्रियमिति । तथाहिनिवृत्ती सत्यामपि शक्त्युपघाते न विषयग्रहः, बाह्योपकरणघाते च नियमतः शक्त्युपघात इति तत्प्राधान्यतो बाह्यमभ्यन्तरं चेत्याह ।" इति हरिभद्रसूरिविरचिताया तत्त्वार्थभाष्यव्याख्यायाम् । “इष्टानिष्टविषयोपलब्धा(ब्ध्य ?)र्थानि भोक्तुरात्मनो यान्यमूनीन्द्रियाणि तेषामुक्तसामर्थ्यविशेषादुपनिपतितभेदानां प्रत्येक भेदप्रतिपत्त्यर्थमाह-द्विविधानि [ तत्त्वार्थसू० २।१६ ], 'विध'शब्दस्य प्रकारवाचिनो ग्रहणम् । अयं 'विध'शब्दः प्रकारवाची गृह्यते, विध-युक्त-गत-प्रकाराः समानार्था इति । द्वौ विधौ येषां तानि द्विविधानि द्विप्रकाराणीत्यर्थः । कौ च द्वी प्रकारौ? द्रव्येन्द्रियं भावेन्द्रियमिति । तत्र द्रव्येन्द्रियस्वरूपविज्ञानार्थमाह - निवृत्त्युपकरणे द्रव्येन्द्रियम् [ तत्त्वार्थसू० २।१७], निर्वर्त्यत इति निर्वृत्तिः । कर्मणा या निवर्त्यते निष्पाद्यते सा निवृत्तिरित्युपदिश्यते । सा द्वेधा बाह्याभ्यन्तरभेदात् । सा निर्वृत्तिर्द्वधा, कुतः ? बाह्याभ्यन्तरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिराभ्यन्तरा । उत्सेध गुलस्यासङ्ख्येभागप्रमितानां विशुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियमानावमानावस्थितानां वृत्तिराभ्यन्तरा निवृत्तिः । तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । तेषु आत्मप्रदेशेषु इन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः स बाह्या निर्वृत्तिः । उपक्रियतेऽनेनेत्युपकरणम् । येन निवृत्तेरुपकारः क्रियते तदुपकरणम् । तद् द्विविधं पूर्ववत् । तदुपकरण द्विविधं पूर्ववद् बाह्याभ्यन्तरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम् , बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् ।" इति अकलकदेवविरचिते तत्त्वार्थराजवार्तिके ॥
१°णातद्यो भा० पा० डे० । णात्तद्यो वि०॥ २ “लब्ध्युपयोगी भावेन्द्रियम् [ तत्त्वार्थसू० २।१८], लब्धिरुपयोगस्तु भावेन्द्रियं भवति । लब्धिर्नाम गतिजात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता च इन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा, तद्यथा - स्पर्शनेन्द्रियलब्धिः रसनेन्द्रियल ब्धिः घ्राणेन्द्रियलब्धिः चक्षुरिन्द्रियलब्धि: श्रोत्रेन्द्रियलब्धिरिति । उपयोगः स्पर्शादिषु [ तत्त्वार्थसू० २।१९], स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतत् ‘उपयोगो लक्षणम्' [ तत्त्वार्थसू० २१८ ] । उपयोगः प्रणिधानम् , आयोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगी भवतः, सत्यां च लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्ति निवृत्त्यादीनामेकतराभावेऽपि विषयालोचनं न भवति ।" इति वाचकवरश्रीउमाखातिप्रणीते तत्त्वार्थभाष्ये । अस्य सिद्धसेनगणिकृता व्याख्या-“लब्ध्युपयोगी भावेन्द्रियम् । लब्धिः प्रतिस्वमिन्द्रियावरणक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति । अत्राचार्यों लब्धिखरूपनिर्वर्णनायाह-लब्धिर्नामेत्यादि भाष्यम् । लाभो लब्धिः प्राप्तिः, नामशब्दो वाक्यालङ्कारार्थः, अथवा लब्धिरिति यदेतद् नाम अभिधानं तस्यायमर्थः - गतिजात्यादिनामकर्मजनिता लब्धिरुच्यते । गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नामकर्म च गतिजात्यादिनामकर्म, तेन जनिता निर्वर्तिता मनुष्यगतिनामोदयाद् मनुष्यः तथा पञ्चेन्द्रियजातिनामोदयात् पञ्चेन्द्रिय इत्यतो मनुष्यत्वपञ्चेन्द्रियत्वादिलामे प्रतिखं तदावरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामक कारणवानिदिष्टमाचार्येण । आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org