________________
सत्तायाः सत्सत्करत्वखण्डनम्] द्वादशारं नयचक्रम्
४७५ योग्यात्मोपात्तेन्द्रियपर्याप्त्याख्यपुद्गलद्रव्यप्रकाश्यमञ्जन-पादाभ्यङ्ग-नस्य-पध्यभोजन-प्रदीपादिबाह्यद्रव्यप्रकाश्यं णामरूपमपि सत् 'इन्द्रिय'व्यपदेशमश्नते भावेन्द्रियोपयोगकारणत्वात् , यस्माद्धि तत्साचिव्यं भावस्यैवोल्लिङ्गने समायाति । आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षम द्रव्यं तदिह द्रव्येन्द्रि ! प्रस्थदारुवदेषितव्यम् । तत्र निवृत्त्युपकरणयोः खरूपमाविष्करोति भाष्येणैव-निर्वृत्तिरङ्गोपाङ्गनामेत्यादिना । निर्माणनाम नामकर्मान्तर्गतः कर्मभेदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुणः, तथा औदारिकादिशरीरत्रयाङ्गोपाङ्गनामकर्मभेदो यदुदयादङ्गानि उपाङ्गानि द्यन्ते शिरोङ्गुल्यादीनि, एतत् कर्मद्वयमुभयरूपद्रव्येन्द्रियप्रसाधनाय यतते । भाष्यभावना चैवं कार्या-निवृत्तिः किंरूपा ? इत्यत आह - अङ्गेति । अङ्गोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मभेदेन 'निर्वर्तितानि' जनितानि घटितानि 'इन्द्रियद्वाराणि' इन्द्रियविवराणि । 'इन्द्रिय'शब्देन चात्र भावेन्द्रियमुपयोगरूपं विवक्षितम् , तस्य इन्द्रियस्य द्वाराणि अवधानप्रदानमार्गाश्चित्राः। शष्कुल्यादिरूपा बहिरुपलभ्यमानाकारा निर्वृत्तिरेका, अपरा तु अभ्यन्तरनिर्वृत्तिः । नानाकारं कायेन्द्रियमसङ्ख्येयमेदत्वात् , अस्य चान्तर्बहिर्भेदो निवृत्तेर्न कश्चित् प्रायः । प्रदीर्घत्र्यस्रसंस्थितं कर्णाटकायुधं क्षुरप्रः, तदाकारं रसनेन्द्रियम् । अतिमुक्तकपुष्पदलचन्द्रकाकारं किञ्चित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् । किञ्चित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूरवच्चक्षुरिन्द्रियम् । पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम् । तत्राद्यं स्खकायपरिमाणं द्रव्यमनश्च, शेषाणि अङ्गुलासङ्ख्येयभागप्रमाणानि सर्वजीवानाम् । तथा चागमः - ‘फासिदिए णं भंते । किसंठिए पण्णत्ते ? गोयमा । नाणासंठाणसंठिए। जिभिदिए णं भंते ! किसंठिए पण्णत्ते ? गोयमा ! खुरप्पसंठिए । घाणिदिए णं भंते ! किसंठिए पण्णत्ते ? गोयमा ! अतिमुत्तयचंदकसंठिए पण्णत्ते । चक्खुरिं दिए णं भंते ! किंसंठिए पण्णत्ते? गोयमा ! मसूरयचंदसंठिए पण्णत्ते । सोईदिए णं भंते । किंसंठिए पण्णत्ते ? गोयमा | कलंबुयापुप्फसंठिए पण्णत्ते'[प्रज्ञापनासू. १९१1, अभ्यन्तरां निवृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि । बाह्या पुनर्निर्वृत्तिश्चित्राकारत्वानोपनिबद्धुं शक्या, यथा मनुष्यस्य श्रोत्रं भ्रूसमं नेत्रयोरुभयपार्श्वतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रम् , इत्यादिजातिभेदाद् बहुविधाकारा । इममेव चातिक्रान्तभाष्यार्थ पर्यायान्तरेण स्पष्टयति भाष्यकारः- कर्मविशेषसंस्कृताः शरीरप्रदेशाः । अथवा अङ्गोपाङ्गनामैवोपात्तमतीतभाष्ये, न तु निर्माणकर्म, तदुपादानायेदमुच्यतेकर्मविशेषेत्यादि । कर्मविशेषो नामकर्म, तस्यापि विशेषः अङ्गोपाङ्गनाम निर्माणकर्म च, आभ्यां कर्मविशेषाभ्यां संस्कृता विशिष्टावयवरचनया निष्पादिता निर्वर्तिताः औदारिकादिशरीराणां त्रयाणां प्रदेशाः प्रतिविशिष्टा देशाः कर्णशष्कुल्यादयः प्रदेशाः । कर्मविशेषाभिधानश्रवणादतिसम्प्रमुग्धबद्धामोहस्तदवस्थ एव चेतसीत्यतस्तदवबोधार्थं भूयोऽप्याह-निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । कर्मविशेषं नामग्राहमाचष्टे, निर्माणनाम च अङ्गोपाङ्गं च निमोणनामाङ्गोपाझे, मध्यव्यवस्थितो नामशब्द उभयं विशेष्यतयाक्षिपति. ते कर्मणी प्रत्ययः कारणं निमित्तं यस्या निवृत्तेः सा निर्माणनामाङ्गोपाङ्गप्रत्यया, मूलगुणनिर्वर्तना उत्तरगुणनिर्वर्तनापेक्षयोच्यते । उत्तरगुणनिर्वर्तना हि श्रवणयोर्वेधः प्रलम्बतापादनम्, चक्षुर्नासिकयोरजननस्याभ्यामुपस्कारः, तथा भेषजप्रदानाजिह्वाया जाड्यापनयः. स्पर्शनस्य विविधचूर्णगन्धवासप्रघोदिभिर्विमलत्वकरणम् । एवंविधानेकविशेषनिरपेक्षा यथोत्पन्नवर्तिनी औदारिकादिप्रायोग्यद्रव्यवर्गणा मूलकारणव्यवस्थितगुणनिर्वर्तनोच्यते । 'इति'शब्द एवंशब्दार्थः, एवमेषोऽर्थः प्रवचनविद्धिराख्यात इति । सम्प्रति उपकरणेन्द्रियस्वरूपमाख्यातुमाह-उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्य अनुपघातानुग्रहाभ्याम पकारीति । निवृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रियमवश्यमपेक्षितव्यम्, तच खावेषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था, तच्छक्तिरूपमिन्द्रियान्तरं निवृत्तौ सत्यामपि शक्त्युपधातैर्विषयं न गृह्णाति । तस्मानिवृत्ते श्रवणादिसंज्ञके द्रव्येन्द्रिये तदावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति । तच बहिर्वेति अन्तर्वेति च, निवृत्तिद्रव्येन्द्रियापेक्षया अस्यापि दैविध्यमावेद्यते । यत्र निवृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशपति तस्येति कथयति तस्याः स्वविषयग्रहणशक्तनिवत्तिमध्यवर्तिनीत्वात् । एतदेव स्फुटयति-निवर्तितस्य निष्पादितस्य खावयव विभागेन यदनुपहत्या अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिमोपितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः । आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति । 'निवृत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थम् , तद्भावे छुपकरणसद्भावाच्छाशक्तिवदिति ।" इति सिद्धसेनगणिकृतायां तत्त्वार्थभाष्यव्याख्यायाम् । अथ एतदनुसारिणी हरिभद्रसूरिकृता व्याख्या- "अनन्तरोक्तानि पञ्चापीन्द्रियाणि द्विविधानि भवन्तीति सूत्रसमुदायार्थः । अवयवार्थ स्वाह-द्विविधानीत्यादिना ।....-निर्वत्त्यपकरणे पदलमये द्रव्येन्द्रिय मिति सत्रसमुदायार्थः । अवयवाथै स्वाह-निवृत्ती. न्द्रियामत्यादिना । निवर्तन निवृत्तिः प्रति विशिष्टसंस्थानोत्पत्तिः सैवेन्द्रियं निवृत्तीन्द्रियम । उपक्रियतेऽननत्यपकरणम. एत. दवान्द्रयमुपकरणेन्द्रियम् । चः समुच्चये, द्विविधमेतद् द्रव्येन्द्रियं भावेन्द्रियोपकरणत्वाद् द्रव्यात्मकत्वाचेति । निवृत्तेलेक्षणमाहनिवृत्तिरियादिना ।...''इहाजोपागनाम औदारिका दिशरीरत्रयाङ्गोपालनिर्वर्तक यदुदयादगोपाङ्गान्युत्पद्यन्ते शिरोडुल्यादीनि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org