________________
४७४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे क्षुत्प्रतीकाराशक्तासीहिवत्, विचित्रोपभोगसिद्ध्यर्थ भिन्नेषु अभिन्नाभिधानप्रत्ययव्यवहारसिद्ध्यर्थं च सत्त्वविशेषणेन संम्बन्धः अर्थवत्प्रकाशनावस्थावत् इति प्रतिसमाधानविकल्पः सोऽप्यनुपपन्नोऽवस्थादृष्टान्तासत्त्वात् अनेकान्तत्वात् । वाक्प्रकाशप्रकाशकप्रदीपवत् प्रदीपप्रकाशस्यापि इन्द्रियप्रकाश्यत्वात् तस्यापि 5 बहुप्रभेदोपकरणप्रकाश्यत्वात् तेषामपि लब्धिप्रकाश्यत्वात् लब्धेरप्युपयोगफलाया
अङ्कुरावस्थायामिव व्रीहेरकठिनावस्थायामिव वा क्षुत्प्रतीकाराशक्तासद्रीहिवत् । विचित्रोपभोगसिद्ध्यर्थ घटपटकटादिभिः परस्परव्यतिरिक्तैर्जलधारणत्वक्त्राणप्रच्छादनाद्युपभोगसिद्धयर्थं भिन्नेषु घटादिषु देशकालादिभिः समाजातीयेषु अभिन्नाभिधानप्रत्ययव्यवहारसिद्ध्यर्थ च सामान्यान्वितेषु सत्त्वविशेषणेन प्रकारान्तरेण संबन्धः, अर्थवत एव वाक्प्रकाशस्य पुनः प्रकाशने प्रदीपप्रकाशस्येव वाक्प्र10 काशितघटविषयस्यावस्थावदनवस्थादोषाभाववञ्चेति योऽयं प्रतिसमाधानविकल्पः सोऽप्यनुपपन्न इत्यादि
तदुत्तरं यावत् प्रदीपादिप्रकाशनवदिति । कस्मादनुपपन्न इति चेत्, उच्यते - अवस्थादृष्टान्ता३२८-२ सत्त्वात् , असावेव प्रदीपदृष्टान्तः 'अवस्थावान्' इत्यभिमतोऽवस्थावान् न भवति, अनेकान्तत्वात्,
एकान्तरूपो हि निश्चितोऽर्थो दृष्टान्तः स्यात् स्यात् । त्वदुद्राहितस्यार्थस्य तु न हि व्यर्थत्वैकान्तानुगतं प्रकाशनम् , यदि प्रदीपस्य प्रकाशान्तरेण प्रकाशनं व्यर्थं स्यात् तत्रैवावस्था स्यात् , सा तु नास्ति । यस्माद् 15 वाक्प्रकाशप्रकाशकप्रदीपवत् प्रदीपप्रकाशस्यापि इन्द्रियप्रकाश्यत्वात् , इन्द्रियेण हि प्रदीपोऽपि
प्रकाश्यते, वाक्प्रकाशप्रकाशंकप्रदीपवदिन्द्रियेणानुपलब्धस्यागृहीतस्य घटादेर्विचित्रोपभोगासिद्धेः । किमिन्द्रियेऽवस्था स्यात् ? नेत्युच्यते, तस्यापि बहुप्रभेदोपकरणप्रकाश्यत्वात् , तदपि हीन्द्रियं "निर्वृत्त्युपकरण
१ दृश्यतां पृ० ३३२-२॥ २ स्थामिव प्र० ॥ ३ देशकालाकालादिभिः य० । अत्र देशकालाकारादिभिः इत्यपि पाठः स्यात् , दृश्यतां पृ० ४६८ पं० १७ ॥ ४°सिद्ध्यर्थ खसामा भा० वि० । सिद्ध्यर्थ स्वसामा डे० । सिद्ध्यर्थे स्वसामा पा० २० ॥ ५°कान्तात् भा० ॥ ६ अत्र 'स्यात्' इत्येकं पदमपि निर्वहेत् ॥ ७॥ एतदन्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ८ प्रदीपवत्प्रकाशस्यापि भा० । (प्रकाशस्यापि ? प्रदीपस्यापि ?)॥ ९ शनप्रदी भा० ॥१० निवृत्त्युपकरणेन्द्रियखरूपविषये कश्चन मतभेदः शास्त्रेष्ववलोक्यते। तथाहि-नयचक्रवृत्तिकारमतेन तत्वरूपं प्राग वर्णितमेव, दृश्यतां पृ० १८३ पं० १९-२०, पृ. ३७२ पं० १९-२१ । "द्विविधानि [तत्त्वार्थसू० २।१६ ], द्विविधानीन्द्रियाणि भवन्ति - द्रव्येन्द्रियाणि भावेन्द्रियाणि च । निवृत्त्युपकरणे द्रव्येन्द्रियम् [ तत्त्वार्थसू० २।१७ ], तत्र निवृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम्। निवृत्तिरङ्गोपाङ्गनामनिर्वर्तितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः शरी निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्य अनुपघातानुग्रहाभ्यामुपकारीति ।" इति वाचकवरश्रीउमास्वातिप्रणीते तत्त्वार्थभाष्ये । अस्य सिद्धसेनगणिकृता व्याख्या- "द्विविधानीन्द्रियाणि भवन्ति सामान्यतः द्रव्यमयानि द्रव्यात्मकानि द्रव्येन्द्रियाणि, भावेन्द्रियाणि तु भावात्मकानि आत्मपरिणतिरूपाणीति । अत्र च पुद्गलद्रव्यमेवानन्तप्रदेशस्कन्धमात्मप्रयोगापेक्षमायतते निवृत्त्युपकरणरूपतया, सर्वाणीन्द्रियाणि अनन्तप्रदेशानि असङ्ख्येयात्मप्रदेशाधिष्ठितानि च द्रव्यात्मकानि भवन्ति। इतरत्र द्वये आत्मपरिणामो भावः प्रयत्नमातिष्ठते इति । उक्तमिन्द्रियं द्रव्यभावभेदतो द्विविधम् , अधुना खरूपतो निरूपयितुकाम आह, तत्र निवृत्त्युपकरणे द्रव्येन्द्रियम् [तत्त्वार्थसू. २॥ भाष्यकारः सूत्रं सम्बन्धयति, 'तत्र' द्वितये द्रव्येन्द्रियं तावन्निायते स्वरूपभेदाभ्याम् । निर्वर्तनं निवृत्तिः प्रतिविशिष्टसंस्थानोत्पादः । उपक्रियतेऽनेनेति उपकरणम् । निर्वृत्तिरेवेन्द्रियं निवृत्तीन्द्रियम् । उपकरणेन्द्रियमप्येवम् । उभयमेतत् पुद्गलपारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org