________________
असत्लत्करत्व सत्सत्करत्वयोर्निरासः ] द्वादशारं नयचक्रम्
४७३
भिधानप्रत्ययो देवदत्तः पुत्र एव सून्वनपेक्षपुत्रत्वः, एवमत्र खभावसिद्वेरेव द्रव्यादिवं नेतरसत्वात् । एवं सत्तानिराकरणं कृतम् । द्रव्यत्वाद्यप्येवमेव निराकार्य व्याख्यातवत् ।
एतेन सत्सत्करत्वपक्षेऽपि साक्षात्कृतमेव वैयर्थ्यम् । यस्तु 'अनवस्थान, दृष्टान्तात् । तद्यथा - वाचा गमिते विनियोगार्थो न कृत इति तदर्थं प्रदीपप्रकाश : उपादीयते, तस्योपादानं न व्यर्थम्, न च पुनस्तस्यान्यः प्रकाशः प्रकाशनार्थ उपा दीयते, तथेहापि द्रव्यादिकार्येण उपभोगक्रिया नास्ति इत्यसत् अशक्तसदसत्त्वात्
व्यतिरेकयुक्तावभिधानप्रत्ययावश्वरथवदन्वयव्यतिरेकाभिधानप्रत्ययौ तौ स्वगतेन पुत्रत्वेन संसिद्धौ यस्मिन् ३२७-२ सोऽयं स्वगतपुत्रत्वसंसिद्धान्वयव्यतिरेकाभिधानप्रत्ययो देवदत्तः पुत्र एव सून्वनपेक्षपुत्रत्वः स्वसूनुमनपेक्ष्य व्याख्यातविधिना पुरुषान्तरस्य पितुः पुत्र एव सन्नपुत्रः स्वसून्वभावादिति यथा पुत्र एवा- 10 पुत्र इत्युच्यते । इत्येवं दृष्टान्तार्थ भावयित्वा दार्शन्तिकमुपनयति – अत्र स्वभावसिद्धेरित्यादि । स्वभावसद्भावसिद्वेरेव द्रव्यादित्यम्, नेतरसत्वात् न सम्बन्धिसत्त्वादिति, विचारफलं निगम्यते - एवं सदविशेषविचारद्वारेण सत्ताया निराकरणं कृतम् ।
द्रव्यत्वाद्यप्येवमेव निराकार्यम्, द्रव्याद्यप्येवमेव द्रव्यत्वादिनिरपेक्षमित्यतिदिशति । 'द्रव्यं गुणः कर्म' इत्यत्रापि द्रव्यत्वगुणत्व [कर्मत्व ] सामान्यविशेषनिरपेक्षावभिधानप्रत्ययौ स्वत एव द्रव्यादीनां सुलभौ 15 व्याख्यातवदिति, तत्रापि तुल्यप्रचर्चत्वात् ।
एतेन सत्सत्करत्वपक्षेऽपि साक्षात्कृतमेव वैयर्थ्यम्, नास्य सदित्यसत्पक्षे यथाभिहितं विचारावसाने - नासतः सत्करी सत्ता सद्रव्यादिव्यतिरिक्तस्य सत्ताद्रव्यत्वादेस्तत्सदभिधानप्रत्यय हेतोरनवकाशः स्वत एव सिद्धाभिधानप्रत्ययत्वात् सत्तादिवदिति तथा तदेव 'सतां द्रव्यादीनां सत्करी सत्ता ' इत्यत्रापीति प्रत्यक्षीकृतमस्माकं त्वयैव वैयर्थ्यम्, सँत्तासम्बन्धस्य स्वत एव सिद्धत्वादिति ।
यस्त्वनवस्था नेत्यादि यावदर्थवत्प्रकाशनावस्थावदिति पूर्वपक्षप्रत्युच्चारणम् । अनवस्थादोषपरिहारार्थः प्रतिसमाधानविकल्पः - नैष दोषो दृष्टान्तादित्यादि, दृष्टान्तस्तद्यथा - वाचा गमिते प्रकाशिते ३२८-१ घटइति ज्ञानमात्राधाने कृते तावता जलाद्याहरणादिक्रियाविनियोगार्थो न कृत इति तदर्थं घटग्रहणधारणाद्यर्थं च प्रदीपप्रकाश उपादीयते, तस्य वाक्प्रकाशादन्यप्रकारस्य प्रदीपप्रकाशस्योपादानं न व्यर्थं न च पुनस्तस्यान्यः प्रदीपोऽन्यो वा प्रकाशः प्रकाशनार्थ उपादीयते । तस्मात् तत्रैव व्यवस्थितत्वाद् नानवस्थादोषोऽस्तीत्येष दृष्टान्तः । उपनयः - तथेहापि द्रव्यादिकार्येण वस्तूद्भूतिप्रकाशमात्रेण स्वकारणोत्पादितमात्रेण वाक्प्रकाशितघटस्थानीयेन द्रव्यादेः कार्यस्योपभोगक्रिया नास्ति, पुरुषोपभोगार्थाश्च सर्वाः क्रिया इत्यतः कारणादसत्, अशक्तसदसत्त्वात् अशक्तस्य स्वकार्यकरणे सत एवासत्त्वात्,
१ सूचनपेक्ष' प्र० ॥ २ स्वसृतुमन' प्र० ॥ ३ स्वशूत्वभा° भा० । स्वशून्यत्वभा य० ॥ ४ तार्थ भाव भान्तार्थाद्भाव य० । ( दृष्टान्तार्थान् भावयित्वा ? ) ॥ ५ दृश्यतां पृ० ४७२ पं० ५ ॥ ६ सत्वा भा० ॥ ७पयोग प्र० ॥ ८ गार्थश्च प्र० । (गार्थं च ? ) ॥ ९ कारणे प्र० ॥
नय०.६०
Jain Education International
For Private & Personal Use Only
20
25
www.jainelibrary.org