________________
४७२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे त्वात् तन्त्वादिवत् । तथा च द्रव्याद्यन्यतमदेव तत् ।
अत एव च 'नास्य सत् तदिदमसत्' इति खान्वयवृत्ति सत्त्वव्यतिरेकवृत्ति च निरूपितमन्वयव्यतिरेकाभ्यां निष्कलं सत्त्वं यस्य तद् द्रव्यादि सिध्यत्येव, तदर्थमभिधानप्रत्ययहेतुना अन्येन सत्तादिना नार्थः, खत एव सिद्धप्रयोजनत्वात् । तत्र 5द्रव्यादिव्यतिरिक्तस्य सदभिधानप्रत्ययहेतोरनवकाशः स्वत एव सिद्धाभिधानप्रत्ययत्वात्, सत्तादिवत्, आकाशादिवत् । खगतपुत्रत्वसंसिद्धान्वयव्यतिरेका
वर्तते, यस्माद् वृत्तस्य निष्पन्नस्य कारणान्तरैः स्वभावसतः ततोऽतिरिक्तं सम्बन्धिसत्त्वं करोति सत्ता तस्मात् कारणमेव । को दृष्टान्तः ? तन्त्वादिवत् , यथा वृत्तसत्त्वं तन्तुत्वं तदतिरिक्तपटसत्त्वकरं कारणं
च तथा सत्तति । अथवा यथा वृत्तस्य तन्तुभिरारब्धस्य पटस्य जन्मोत्तरकालमपि सत्त्वं कुर्वन्तस्तन्तव एंव 10 संयोगापेक्षाः कारणं पटस्येष्यन्ते तथा सत्तापि वृत्तसत्त्वातिरिक्तसत्त्वकरत्वात् कारणमेव स्यात् , आदिग्रहणात् कपालवीरणा दिद्रव्याण्युदाहर्तव्यानीति ।
तथा च द्रव्याद्यन्यतमदेव तत् , सामान्यं सत्ताख्यं द्रव्यं गुणः कर्म वा, नान्यत् स्यात् । यद्धि कारणं तद् द्रव्यं गुणः कर्म वा, नातोऽन्यद् दृष्टम् , यथा तन्तवस्तत्संयोगाश्च तक्रियाश्च । तस्मात् ३२७-१ सामान्यं सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवञ्च द्रव्यादिवत् , अतो द्रव्यादीनामेव सदादिषड15 विशेषा इति व्याख्या व्यर्था ।
अत एव चेत्यादि । एतस्मादेव द्रव्याद्यन्यतमस्वरूपत्वात् सत्तायाः सामान्याख्यायाः 'नास्य सत तदिदमसत्' इति विगृह्य 'अस्य' इत्यन्धयात् 'न' इति च व्यतिरेकाद् द्रव्यगुणकर्माख्यस्य त्रयस्य सतोऽवधारणार्थं प्रतिषेधवाचिना नया व्यवच्छेद्यं सत्त्वमभ्युपगम्य स्वान्वयवृत्ति सत्त्वव्यतिरेकवृत्ति च निरूपितमन्वयव्यतिरेकाभ्यां निष्कलं परिपूर्ण स्वरूपतोऽवधारितं च सत्त्वं यस्य तद् द्रव्यादि द्रव्यान्तरादि20 सद्व्यतिरेकेण स्वान्वयेन च यथा व्याख्यातं "सिध्यत्येव । तस्मात् तदर्थ द्रव्याद्यवधारणार्थमभिधानप्रत्ययहेतुनान्येन सत्तादिना नार्थः न प्रयोजनं स्वत एव सिद्धप्रयोजनत्वादित्युक्तोपसंहारः ।
____ अत्र पृथक साधनम् - तत्रेत्यादि । द्रव्यादिव्यतिरिक्तस्य सदभिधानप्रत्ययहेतोर्द्रव्यादावनवकाशः, स्वत एव सिद्धाभिधानप्रत्ययत्वात् , यत्र स्वत एव सिद्धाभिधानप्रत्ययत्वं तत्रान्यस्य
सदभिधानप्रत्ययहेतो वकाशोऽस्ति यथा सत्तासमवायविशेषेष्विति । अथवाश्रयाश्रयिणोः पारतत्र्यस्वातत्र्य25 व्याख्याकुसृतिप्रत्युत्थानं मा का<द् वैशेषिक इति निराशङ्कमाकाशादिवदिति दृष्टान्तः, दिक्कालाकाशद्रव्याणि हि दिक्कालादिमुख्यसामान्यशून्यानीति । अथवा प्रस्तुतोदाहरणमेव दृष्टान्तः - स्वगतेत्यादि । अन्वय
१ दृश्यतां पृ० ४७३ पं० १८॥ २ कुर्वत वि. विना॥ ३९वं प्र० ॥४°न्यवदेव तत् य० । न्यवतत् भा० ॥ ५ तातोऽन्यद भा० । ततोऽन्यद य०॥ ६ व्यर्थाः भा० वि० ही० ॥ ७ च्छेद्यां सत्वामभ्यु प्र०॥ ८°सत्वा प्र० ॥ ९ व्यतिरेकवृत्ति च निरूपितमन्वयव्यतिरेकवृत्ति च निरूपित
। १०सिध्यतेव भा० । सिध्यते च यः॥ ११ दानवकाशः प्र०॥ १२ द्रव्याणि रि दिकालादिमुख्य° य० । 'द्रव्याणि दि मुख्य भा० । (द्रव्याणि हि मुख्यसामान्यशून्यानीति ? )॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org