________________
सत्तासमवायनिराकरणम् ] द्वादशारं नयचक्रम्
४७१ भाव्यमानं सद् भवति, यच्च भाव्यमानं सद् भवति तदारम्भकेभ्यो भवति द्रव्याद्यारब्धद्रव्यान्तरादिवद् भाव्यमानभवितृत्वात्।
सत्तापि यदि द्रव्यादेर्भाविका ततः कारणम् , भावकत्वात् , आरम्भकवत् । सति सत्तान्तराधानाद् नेति चेत्, न, तुल्यत्वात्, एवमपि कारणमेव ते सत्ता सति सत्तान्तराधायित्वात् पटसत्ताधायितन्तुसंयोगवत्, वृत्तसत्त्वातिरिक्तसत्त्वकारण-5
परत आत्मानं लभते न स्वत इत्यर्थः । ततः किम् ? तत इदं भवति - यच्च भाव्यमानं सद् भवति ३२६ १ तदारम्भकेभ्यो भवति कारणद्रव्यादिभ्य इत्यर्थः । साध्यानुगतसाधनवचनात् साधर्म्यदृष्टान्त एषः, तन्निदर्शनं हेतुना[s]व्यवहितं प्रतिपत्तिलाघवार्थम् - द्रव्याद्यारब्धद्रव्यान्तरादिवदिति, यथा द्रव्यगुणकर्मभिर्द्रव्यगुणान्तराण्यारभ्यन्ते, कर्म च गुणैः संयोगविभागप्रयत्नगुरुत्वसंस्कारादृष्टैः, तथा सत्तया आरभ्यते तत् सत् कार्यम् । हेतुरत्र भाव्यमानभवितृत्वादिति व्याख्यातार्थः । तस्मात् तस्यामवस्था- 10 यामसत् तद् द्रव्यादिकार्यम् । 'असत् तत्' इति च ब्रुवतः स्ववचनविरोधोऽनुमानविरोधश्च, प्रत्यक्षाभ्युपगमरूढिविरोधा अपि योज्यास्तथैव । एवं तावद् द्रव्यादिकार्यमुत्पत्त्यवस्थायां 'स्वत एवास्ति' इतीष्टमपि सत्तासम्बन्धाद् भवितृत्वात् 'असदेव' इत्युक्तम् ।
___ न केवलं द्रव्यमेवासत् तदा, किं तर्हि ? 'सत्तापि च नास्ति' इत्यापादयिष्यते हेतुसद्भावेन कारणत्वादिभ्यः । कारणत्वात् तावत् - सत्तापि यदि द्रव्यादेः कार्यस्य भवतो भाविका तत उक्तविधिना 15 कारणम् , भावकत्वात् भावयितृत्वादित्यर्थः, तसिलादिष्वाकृत्वसुचः [ पा० ६।३।३५] इति पुंवद्भावात् । आरम्भकवदिति पटस्य तन्त्वादिवदिति वक्ष्यते, इह तु सामान्येन यथारम्भकाः परमाणवस्तत्समवायिनः संयोगविभागा अदृष्टादिगुणाश्च सापेक्षा निरपेक्षाः क्रियाश्चादृष्टादिहेतुकाः कारणानि भावकानि यथासम्भवं द्वयणुकादिकार्यद्रव्याणां गुणानां कर्मणां च तथा सत्तापि कारणमिति ।
सति सत्तान्तराधानाद् नेति चेत् । स्यान्मतम् – स्वयमुत्पन्ने समवाय्यसमवायिकारणारब्धे 20 द्रव्यादौ कार्ये स्वभावतः सत्येव सत्तान्तरं सम्बन्धिसत्त्वमाधीयते तया सत्तया, तस्माद् नारम्भिका सा, ३२६-२ अनारम्भकत्वाचाऽकारणमण्वादिवत् , अतो वैषम्यं दृष्टान्तदा न्तिकयोः, भावकत्वं वा तस्या नास्तीति । एतच्च न, तुल्यत्वादनन्तरोक्तंदण्ड्यादिवद् विशेषणस्वरूपसदभिधानप्रत्ययानुमितसत्तासम्बन्धनिवृत्तेः । अभ्युपेत्याप्यभावकत्वं सति सत्तान्तराधायित्वं च सत्तायाः एवमपि कारणमेव ते सत्ता, सति सत्तान्तराधायित्वात् , पटसत्ताधायितन्तुसंयोगवत्, यथा तन्तुभिः परस्परसंयोगापेक्षैरारब्धे पटे 25 सति तत्संयोगः सत्तासमवायजं सम्बन्धिसत्त्वमादधानः कारणं दृष्टः तथा सत्तापि स्यादिति । स्यान्मतम् - आरम्भकाः परमाणवो न संयोगः, तस्माद् वैषम्यमिति । एतच्चायुक्तम् , संयोगस्याप्यारम्भकत्वेष्टेः कारणत्वमात्रसाधनाद् वा न दोष इति । अथवा वृत्तसत्त्वातिरिक्तसत्त्वकारणत्वात् 'कारणमेव सत्ता' इति
१ गतेसा भा०॥ २ दृश्यतां पृ० ४३७ टि. ८। प्रशस्तपादभाष्ये कर्मनिरूपणमपि द्रष्टव्यम् ॥ ३ हेतुमद्धावेन वि० विना । ( हेतुहेतुमद्भावेन ?)॥ ४ वि० विना कारणत्वात्तवत् प्र० । कारणत्वात्तद्वत् वि० । (कारणत्वं तावत् ?) ॥ ५ दृश्यतां पृ. ४७२ पं० १॥ ६सापेक्षनिर भा० वि०॥ ७°च्चारणमाणदिवत प्र०। 'अण्वादिवत्' इति वैधर्म्यदृष्टान्तोऽत्र विवक्षित इति भाति ॥ ८ दृश्यतां पृ. ४७० पं० २५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org