________________
४७०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे यदप्युक्तम् 'अगुणो गुणः' इति तदपि गुणभूतोऽयमर्थो न भवति, किं तर्हि ? खतनं द्रव्यमेवेति गुणसन्द्राववादे गुणभावो गुणस्य प्रतिषिध्यते न गुणसम्बन्धो युगपदयुगपद्भाविता, भवनलक्षणद्रव्यत्वात् , सङ्ग्रहवादवद्वा । तस्माद् बहुव्रीह्यसदपि नासत्, सदेव ।
खवचनविरोधादेः सदप्यसत् सत्तासम्बन्धरहितत्वात् । सत्तासम्बन्धेन
शुक्राद्यङ्गानि पुत्राङ्गत्वेन परिणमन्ति क्षीरदधित्ववत् । हृदयादभिजायसे इति, प्रज्ञापि सैव पुत्रस्य या पितुः, अश्वादिप्रज्ञाया मनुष्यादिष्वभावात् ।
___यदप्युक्तं द्वितीयमुदाहरणं तत्रैव 'अगुणो गुणः' इति शास्त्रीयं तदपि गुणभूतोऽप्रधानो द्रव्याश्रयी उपसर्जन इतीष्टोऽयमर्थो न भवति, किं तर्हि ? स्वतत्रं प्रधानं द्रव्यमेवेति, उत्तरपदाभिधेयनिवारणार्थत्वाद् 10 नयः । न तु नास्य गुणोऽस्तीत्यगुणो गुणः, तस्य हि रूपादेः परस्परतोऽन्यरसादिगुणकस्य गुणसद्भावात् ।
सत्त्वादेर्वा गुणसन्द्राववादे गुणवत्त्वाद् गुणभावो गुणस्य गुणत्वमेव प्रतिषिध्यते, न गुणसम्बन्धः । स च दृष्टो गुणसम्बन्धः युगपदयुगपद्भाविता, [युगपद्भाविता] सैंपरसगन्धस्पर्शसङ्ख्यानादीनां गुणानां सम्बन्धः, अयुगपद्भाविमृत्पिण्डशिवकस्थासकादीनामयुगपद्भाविता, कृष्णनीलशुक्लरक्तादिवर्णादिभेदानामयुगपद्भावितादि
शेषगुणानामिति । तथा सत्त्वादीनामङ्गाङ्गिभावेन युगपद्भाविता, महदहङ्कारतन्मात्रादीनामयुगपद्भाविता ३२५-२ चेति । कस्मात् ? भवनलक्षणद्रव्यत्वात् , द्रव्यं च भव्ये [पा० ५।३।१०४ ] भवतीति द्रव्यं भव्यं 1 भवनसम्बन्धयोग्यम् , गुणाः सन्द्रुत्यैव तिष्ठन्ति भवन्ति द्रवन्तीति गुणयन्ति गुण्यन्ते द्रूयन्ते ज्ञायन्ते
चेत्येक एवार्थ इति । सङ्ग्रहवादवद्वा, यथा वा सङ्ग्रहनयवादे सर्वस्य सर्वात्मकत्वात् त एव रूपपरमाण्वादिद्रव्यविशेषाः स्वजात्यपरित्यागेन युगपदयुगपञ्च भवन्ति द्रवन्ति द्रूयते भूयते तैरेवेत्युक्तम् ।
तस्माद् बहुव्रीह्यसदपि नासत् , सदेवेति प्रस्तुतोपनयः । यथोक्तम् – अस्थित्तं अत्थित्ते परिणम20 तीति गत्थित्तं णस्थित्ते परिणमति [भगवतीसू० १।३।३२] इति । तस्मात् सम्पूर्णनिरतिशयं सदसद् वैति । तस्मादसत् कार्य न सत्तया सम्बध्यते सत्वाभावादसम्पूर्णसदसत्त्वाभावादित्युक्तम् ।।
___ तथा स्ववचनविरोधादेः सदप्यसदिति, यदपि 'सत्' इति द्रव्यादि कार्यमिष्टं तदपि स्ववचनविरोधादेर्दोषादसदेव जायत इति पक्षः । स्ववचनादिविरोधाश्चानुमानविरोधद्वारेणैवोद्भावयिष्यन्ते, तत्र
तावत् तस्यासत्त्वे हेतुः - सत्तासम्बन्धरहितत्वात् । संत्तया, सम्बन्धमनुभूय 'सत्' इत्यभिधानं प्रत्ययं 25 च लभते कार्यम् , विशेषणस्वरूपाभिधानप्रत्ययभाक्त्वाद् विशेष्यस्य, दण्डनिमित्तदण्ड्यभिधानप्रत्ययभाग्देव
दत्तवत् । सत्तासम्बन्धश्च सन्निहिताल्लिङ्गात् सदभिधानप्रत्ययदर्शनादनुमीयते, अतः 'सत्तासम्बन्धात् सद् भवति' इत्युक्तं भवतीति परमतसमर्थनमेव तावदेतत् । तस्मात् सत्तासम्बन्धेन भाव्यमानं सद् भवति,
१°व गुणो गुणः प्र०। (°व गुणोऽगुणः ? )॥ २'त्वमेवं प्र० ॥ ३ युगपद्भाविता डे । एतदनुसारेण स च दृष्टो गुणसम्बन्धः, युगपद्भाविता रूपरसगन्धस्पर्शसयानादीनां गुणानां सम्बन्धः' इत्यपि पाठः स्यात् ॥ ४॥ एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ५ वेति प्र०॥ २ भव्यं य० प्रतिषु नास्ति ॥ ६णस्थिति प्र.। दृश्यतां पृ० २९६ टि० १॥ ७भावत् भा० । भावात् य०॥ ८ सत्ता भा० प्रतौ नास्ति ॥ ९ सत्ताया यः। ( सत्तायाः १)। भा० प्रतौ तु 14 एतदन्तर्गतः पाठो नास्त्येध ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org