________________
प्रशस्तमतिमतखण्डनम्] द्वादशारं नयचक्रम्
४६९ मेव प्रतिषिध्यते नत्रा अतव्यत्वात् खयं पुत्रीभावपरिणामशून्यत्वात् खपुष्पवत्। तथा चान्वाह -
___अङ्गादङ्गं सम्भवसि हृदयादभिजायसे। [कौषीतकिबा० २।७]
सम्बन्धो न प्रतिषिध्यते, अन्यस्य स्वामिपुत्रादेईष्टत्वात् तस्य पुत्रोऽस्तीति बहुव्रीहिसमासार्थस्य प्रत्यक्षविरुद्धस्यासम्भवात् । किं तर्हि वक्तव्यम् ? नत्र उत्तरपदाभिधेयनिवारणार्थतत्पुरुषसमाससम्भव- 5 सामर्थ्यात् , यथा 'भिक्षां 'देहि' इति गृहबहिरन्तःस्थयोर्याचकदायकयोर्याच्यादानसम्भववत् को भिक्षां ददाति ?' इति प्रश्ने प्रत्याख्यानदौनसम्भववत् 'गवाक्षे गावः' इत्यादित्यकिरणसम्भववद्वा उत्तरपदाभिधेयसम्भवः 'स्वयमेवासौ पुत्रो न भवति' इत्युक्तं भवति, तच्च वक्ष्यते । तस्माद् नास्य पुत्रोऽस्तीत्यपुत्र इत्ययुक्तो दृष्टान्तः । अभ्युपगम्य बहुव्रीहिं बहुव्रीहावपि पुत्रात्मत्वमेव प्रतिषिध्यते ना न पुत्रान्तरसम्बन्धः । ३२५-१ कस्मात् ? अतद्रव्यत्वात् , तद् द्रव्यं तत् कारणं तद् बीजं परिणामि अस्य तदिदं तद्रव्यम् , न तद्रव्यम-10 तद्र्व्यम् , तद्भावादतद्रव्यत्वात् स्वयं पुत्रीभावपरिणामशून्यत्वात् स्वयं स्वपुत्रत्वेनानुत्पित्सुत्वादित्यर्थः । खपुष्पवदिति गतार्थम् । यथोक्तम् – अगणिरूपिता अगणिपरिणामिता अगणिसरीरेति वत्तव्वं सिया [ भगवतीसू० ५।२।१८१ ] इति । तथा चान्योऽप्यन्वाह - अङ्गादङ्गं सम्भवसीत्यादि । तान्येव पितुः
१ "अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे । आत्मा त्वं पुत्र माविथ[-जानीथ ] स जीव शरदः शतम् ।” इति कौषीतकिब्राह्मणोपनिषदि पाठः । “अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति” इति बृहदारण्यकोपनिषदि पाठः ६।४।९। “अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।” इति आवलायनगृह्यसूत्रे पाठः १११५ ॥ २ देही देहीति य० ॥ ३ दापकयोर्याच्यादापनसम्भववत् प्र० । अत्र "दापकयोः' इति पाठाभिरुचौ दापकयोर्याच्आदापनसम्भववत्' इति पाठः समीचीन एव ॥ ४ का भा० वि० २०॥ ५ दानदान भा०॥ ६ यथोक्तं गणिरूपिता प्र.। "अह भंते ! ओदणे कुम्मासे सुरा एए णं किंसरीराति वत्तव्वं सिया ? गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च वणस्सइजीबसरीरा तओ पच्छा सत्थातीया सत्थपरिणामिआ अगणिज्झामिया अगणिज्झसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा ति वत्तव्वं सिया । सुराए य जे दवे दव्वे एए णं पुव्वभावपन्नवणं पडुच्च आउजीवसरीरा, तओ पच्छा सत्थातीया जाव अणगिकायसरीराति वत्तव्वं सिया।" इति भगवतीसूत्रे पाठः ५।२।१८१। अस्य व्याख्या- “अहेत्यादि । एए णंति एतानि, णमित्यलङ्कारे, किंसरीरत्ति केषां शरीराणि किंशरीराणि ? सुराए य जे घणेत्ति, सुरायां द्वे द्रव्ये स्याताम् - घनद्रव्यं द्रवद्रव्यं च । तत्र यद् घनद्रव्यं पुव्वभावपन्नवणं पडुच्चत्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीराणि, पूर्व हि ओदनादयो वनस्पतयः । तओ पच्छत्ति वनस्पतिजीवशरीरवाच्यत्वानन्तरम् 'अग्निजीवशरीराणि' इति वक्तव्यं स्यादिति सम्बन्धः । किम्भूतानि सन्ति ? इत्याह - सत्थातीयत्ति, शस्त्रेण उदूखलमुशलयन्त्रकादिना करणभूतेन अतीतानि अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि । सत्थपरिणामियत्ति शस्त्रेण परिणामितानि कृतानि नवपर्यायाणि शस्त्रपरिणामितानि । ततश्च अगणिज्झामियत्ति, वह्निना ध्यामितानि श्यामीकृतानि खकीयवर्णत्याजनात् । तथा अगणिज्यूसियत्ति अग्निना शोषितानि पूर्वस्वभावक्षपणात्, अग्मिना सेवितानि वा 'जुषी प्रीतिसेवनयोः' [पा.धा. तुदादि. ८] इत्यस्य ध तोः प्रयोगात् । अगणिपरिणामियाइंति सजातामिपरिणामानि उष्णयोगादिति । अथवा 'सत्थातीता' इत्यादौ शस्त्रममिरेव, 'अगणिज्झ मिया' इत्यादि तु तद्व्याख्यानमेवेति ।" इति अभयवेधसूरिविरचित्तायां भगवतीसूत्रवृत्तौ ॥ ७ तथा व्यत्योष्यत्वाह प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org