________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे प्रागपि स्युः सत्तासम्बन्धित्वात् भवनात् इदानीं भावात् आकाशवत् । इदानीमपि सत्तया न सम्बध्येत कार्यम् । प्रागसत्त्वात् खपुष्पवत् ।।
अन्यथाभूतत्वाद् नेति चेत्, अन्यथाभवनेऽपि तदनन्यथाभवनमेव मृत्तन्त्वादितद्भावानतिक्रमात् सजातीयासजातीयेतरस्वभावभूतत्वात् सुचिरादपि 5 तत्तत्त्वात् दृढीभूतघटवत् ।
___ यदपि चोक्तं नास्य पुत्रोऽस्तीत्यपुत्र इति पुत्रान्तरसम्बन्धः प्रतिषिध्यते इति इदमपि नातिगमितार्थम् , अत्रापि हि पुत्रान्तरसम्बन्धो न प्रतिषिध्यते ना उत्तरपदाभिधेयनिवारणार्थतत्पुरुषसमाससम्भवसामर्थ्यात्, बहुव्रीहावपि पुत्रात्मत्व
द्रव्यादिवत् । किमुक्तं भवति 'सत्तासम्बन्धित्वात्' इति ? अत आह -भवनात् , अभूतक्रियागुण10 व्यपदेशाभिमतावस्थं कार्यं ततः पूर्वमपि वस्तुस्वरूपैमेव, नाभावः, इदानीं भावात् आकाशवदिति ३२... तद्वयक्त्यर्थम् । इदानीमपि न सत्तया सम्बध्येत कार्यम् , प्रागसत्त्वात् , खपुष्पवदिति विपर्ययेणानिष्टापादनसाधनम् । भवदेव हि भवति गगनवत् , नाविद्यमानमश्वविषाणवदिति ।
अन्यथाभूतत्वाद् नेति चेत्, प्रत्यक्षं तन्तुभ्योऽन्यथा पटभवनात् प्रत्यक्षविरुद्धं 'प्रागपि सत् कार्यम्' इति वचनमिति चेत्, तद् न, प्रत्यक्षमन्यथाभवनेऽपि तदनन्यथाभवनमेव प्रत्यक्षतः । किं कारणम् ? 15 मृत्तन्त्वादितद्भावानतिक्रमात् अनतिक्रान्ततद्भावत्वादित्यर्थः । दृढीभूतघटवदिति दृष्टान्तो वक्ष्यते ।
हेतोरस्य व्याख्या - सजातीयासजातीयेतरस्वभावभूतत्वात् , घटस्य सजातीयानि घटान्तराणि, असजातीयानि पटादीनि, तेभ्य उभयेभ्य इतरः अन्यो घटः सजातीयासजातीयभिन्नो देशकालाकारप्रमाणरूपादिभेदात् । नन्वेवं सजातीयासजातीय भिन्नत्वे स्वकारणेभ्योऽपि भिन्नत्वात् प्रागसत्त्वमेव प्राप्तं कार्यस्येति ।
एतच्चायुक्तम् , 'स्वभावभूतत्वात्' इति विशेष्योक्तत्वात् स्वसमवायिकारणभूतपरमाणुद्वयणुकादिरूपरसाद्या20 त्मकपरिणामस्वभावेनैव भूतत्वादिति तद्भावानतिक्रम एवैवं व्याख्यातो भवति । किश्चान्यत् , सुचिरादपि
तत्तत्त्वात् ; देशकालाकारादिभेदे सत्यपि मृदः पिण्डाद्यवस्थासु मृदवस्थागतरूपादिस्वरूपानतिवृत्तेः पर३२४..माणुरूपादितत्त्व एव घटः, तस्मादन्यथाभवनेऽपि तदनन्यथाभवनमेव । किमिव ? दृढीभूतघटवत् ,
यथा मोलवनगरे घटो दृढीभूत आर्द्रादि-सामिशुष्क-नव-युव-मध्यम-पुराणाद्यवस्थासु अन्यथाभवनेऽपि
घटत्वमनतिक्रामन् सप्तसु वर्षशतेषु नीतेष्वपि स एव तथा भवति एवं तदपि कार्य द्रव्यादीति । 25 किञ्चान्यत् , यदपि चेत्यादि पूर्वपक्षप्रत्युच्चारणं यावत् प्रतिषिध्यत इति । तदुत्तरम् - इदमपि
नातिगमितार्थमित्यादि यावत् सम्भवसामर्थ्यादिति । तद् विव्रियते - यदपि सत एवासत्त्वप्रतिपादनाथ दृष्टान्तत्वेनोक्तम् - नास्य पुत्रोऽस्तीत्यपुत्रः, न तु पुत्रो न भवतीति, तस्यान्यपुत्रत्वादिति । तदपि नातिगमितार्थमिति दाक्षिण्यवचनमेतत् , मा निष्ठुरं वोचमिति । कथमगमितार्थम् ? यस्मादत्रापि पुत्रान्तर
१पमेव भावः भा० ॥ २ वि० विना तयक्तार्थर्थम् यः । तद्यक्तार्थम् वि० ॥ ३ मृत्तत्वादि वि०
पत्र मृत्तत्त्वादितद्भावानतिक्रमात् इत्यपि पाठः स्यात् ॥ ४ तत्वत्वात् प्र.। (तत्त्वत्वात् ?)॥ ५ दृश्यतां पृ० ४०१ पं०.६॥ ६ “सामि त्वर्धे” इति अमरकोशे ३१२४८॥ ततः सामिशुष्कोऽर्धशुष्क इत्यर्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org