________________
सत्तासमवायनिराकरणम् ] द्वादशारं नयचक्रम्
४६७ ननु द्विविधभावत्वात् सत्त्वासद्वचनेऽपि न दोषः । ननु तदेवेदं भवनं विचायंते, तस्यैव द्वैविध्यस्यास्मान् प्रत्यसिद्धिः, उक्तवत् ।
कस्मात् खपुष्पं दलमकरन्दादिषु कारणेषु न समवैति? अद्रव्यत्वात् अभूतत्वात् असन्निहितत्वात् । कस्माचम्पकपुष्पं तु समवैति? तद्व्यत्वादेः। ___ यथा च द्रव्यादीनि प्राक् सन्ति सत्तयाभिसम्बध्यन्ते तथोत्पत्त्यवस्थायाः।
अत्राह - ननु द्विविधभावत्वात् सत्वासद्धचनेऽपि न दोषः, स्वभावसत् सम्बन्धिसदिति च द्विविधं सदुक्तम् , तस्मात् सत्तायाः सामान्याख्याया अपि स्वभावसत्त्वमस्तीति नास्य सत् तदिदमसदिति वक्तुं युज्यत एवेति ।
अत्रोच्यते - ननु तदेवेदं भवनं विचार्यते, किमेकविधमेव निरतिशयमस्मन्मतवत् ? उत त्वन्मतवत् किश्चित्सत् समस्तसदिति स्वभावसत् सम्बन्धिसदिति च ? तस्यैव द्वैविध्यस्यास्मान् प्रत्यसिद्धिः। सत्तासम्बन्ध-10 रहितत्वमपि सत्तोपपत्तिरहितत्वमेव । उक्तवत् , यथानन्तरमेवोक्तम् - न किञ्चित्सत् समस्तसन्नाम स्वभावसत् सम्बन्धसन्नाम वेति विकल्पजातं सतोऽस्तीति । अथवा खैपुष्पमप्यसन्निहितभवितृकत्वात् कार्यवद् भवेदित्यतीतं सर्वमेवोक्तं तत् सम्पूर्णनिरतिशयं सत्त्वमसत्त्वं 'चेत्येतस्य प्रतिपादनार्थमिति ।
अत्र केनचित् पृच्छयेत-कस्मात् खपुष्पं दल केसर-मकरन्दादिषु कारणेषु न समवैति ? इति । वयमत्रोपपत्तिं ब्रमः - अद्रव्यत्वात् निर्बीजवादित्यर्थः । द्रव्यं सामान्यमाश्रय इत्यादिपर्यायाः । 15 कस्माद् निर्बीजम् ? इति चेत् , अभूतत्वात् , अतीतेऽधुनानागते काले न भूतं हि तत् , भूतशब्दस्य त्रिकालवाचित्वादाकाशभूतवत्, असत्त्वादकारणत्वादकार्यत्वादित्याद्यर्थः । तत् कुत इति चेत्, असन्नि-३२३-२ हितत्वात् , यत् सततं भवति तत् सन्निहितम् , सन्निहितमेव हि भवति, असन्निहितं नैव भवति, वन्ध्यापुत्र इव वन्ध्यायां 'बीजाधानादिभावेनासन्निहितः । अथवा अद्रव्यत्वादसन्निहितत्वादभूतत्वादिति पर्यायशब्दा एवेति ।
___ पुनः पृच्छेत् कश्चित् - कस्माच्चम्पकपुष्पं दलादिषु तु समवैतीति । तुशब्दः खपुष्पादस्य विशेषं दर्शयति । अत्रोच्यते विशेषः -तद्रव्यत्वादेरिति त एव हेतवस्तुल्यव्याख्यानाः । एष खपुष्पचम्पकपुष्पयोर्विशेषोऽसत्त्वात् सत्त्वाच्च भवति । इयं च भावाभावयोः प्रश्नोपक्रमा स्वरूपविशेषव्याख्या।
यथा च द्रव्यादीनि प्राक् सन्तीत्यादि । अत्रानुमानम् - यस्यामवस्थायामुत्पन्नमात्राणि द्रव्यादीनि सन्त्येव सत्तयाभिसम्बध्यन्त इतीष्यन्ते तस्या अवस्थायाः प्रागपि सन्तीति प्रतिज्ञा । तस्यामवस्थायां सत्तया-* भिसम्बध्यमानत्वात् , यस्यामवस्थायां सत्तयाभिसम्बध्यन्ते तस्या अवस्थायाः प्रागपि सन्त्येव दृष्टानि यथा उत्पत्त्युत्तरकालं सत्तयाभिसम्बध्यमानानि उत्पत्त्यवस्थायां तान्येव । तथोत्पत्त्यवस्थायाः प्रागपि स्युरिति अभूतक्रियागुणव्यपदेशमुत्पत्त्यवस्थमपि कार्यं ततः प्रागपि सत् संत्तया सम्बन्धित्वात् तत्काल
20
१ सत्वाऽसद्धप्र० । अत्र सत्ताऽसद्वचनेऽपि इत्यपि पाठः स्यात् ॥ २ किंचित्समस्तसन्नाम प्र० ॥ ३ दृश्यतां पृ० ४५५ पं० १॥ ४ वेत्ये वि० २०॥ ५ चेत् भूतत्वात् प्र.॥ ६ बीजादानादिप्र.॥ ७°सत्वासत्याच य० । सस्वाश्च भा॥ ८स्वास्वरूप भा०॥ ९ ष्यते वि.२०॥ १० सत्ताया प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org