________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ सप्तम उभयोभयारे
तु सत् तत्समवायिकारणं तदस्यास्त्येव, तत् किमिति मत्वोक्तं नास्य सत् तदिदमसद् द्रव्यादि कार्यमिति ? यत्त्वस्य नास्ति समवेतं तदपेक्ष्य न युक्तं वक्तुं 'नास्य सत् तदिदमसत्' इति । तद्धि सदेव न भवत्यावयोरपि मतेन । किं तर्हि ? नास्यासत् तदिदमनसत् । न हि वपुष्पं यस्य नास्ति सोऽसन्नित्युच्यते, संस्तु सत्वांश्च नियमाद् भवति प्रतिषेधद्वयार्थत्वात् ।
૪૬૬
विशेषसमवायानामित्यविशेषाभिधानद्वारेण त्रयाणां त्रिभ्यो नानात्वं परस्परतश्च लक्षणादिना व्याचिख्यासितं भवता । अस्माभिश्च द्रव्यव्यतिरिक्तगुणाद्यभावात् सामान्याद्यभावाच्च सत्त्वेनाविशेष एव विशेषे वान्यतरद् द्रव्यादित्रयं सामान्यादित्रयं वा खपुष्पतुल्यं स्यादित्यासञ्जितं प्रोक्तद्वारेण वादप्रस्तावादिति । तत्र सदादिषडविशेषो द्रव्यादित्रयविषय एव न सामान्यादित्रयविषय इत्युक्त्वा सामान्यादीनां सत्त्वमुच्य10 मानं सदित्यसदिति च स्ववचनविरोधाय 'सदा मौनव्रतिकोऽस्मि' इति वचनवत् ।
३२२.२
यसदित्यादि । यत्तु सत्यं मुख्यं सत् तत्समवायिकारणं देव्यादि कार्यस्याश्रयः परमाणुतन्तुकपालादि घटपटादिपरिणामिकारणं तदस्यास्त्येव बीजभूतं साधयिष्यमाणं तैत् तत् किमिति मत्वोक्तं मत्वर्थसत्त्वादिना बहुव्रीहिणा नास्य सदस्ति तदिदमसद् द्रव्यादि कार्यमिति ? तस्य मुख्यस्य सतोऽस्तित्वादेयुक्तं वक्तुम्, न च 'सद् न भवत्यसत्' इति तत्पुरुषेण द्रव्यादिकार्यस्या15 सत्त्वादिति वा ।
ननूक्तम् - सामान्यं समवायिसत्, तदस्य नास्ति यत्सम्बन्धाद् द्रव्यादिकार्यं सद्वयपदेशं लभते इति तदपेक्षयोक्तम् 'असत्' इति । अत्रोच्यते - यत्त्वस्य नास्ति समवेतमिति सामान्यं तदपेक्ष्य न युक्तं वक्तुं 'नास्य सत् तदिदमसत्' इति । यस्मात् तत् सदेव न भवत्यावयोरपि मतेन त्वन्मतेन तावत् सदविशेषाभावात् सामान्यादित्रयस्य द्रव्यादेरेव सदाद्यविशेषात्, अस्मन्मतेन द्रव्यादिव्यतिरिक्त20 सामान्यविशेषसमवायसत्त्वादेव तस्यैव विवादस्य प्रस्तुतत्वात् तस्यासत्त्वाद् द्रव्यादि कथं 'नास्त्यस्य सत् तदिदमसत्' इति बहुव्रीहिणा वक्तुं शक्यम् । किं तर्हि युक्तं वक्तुम् ? नास्यासत् तदिदमनस दिति, तस्मादसद् यस्य नास्ति तत् सदेव अनसदित्यर्थः । तन्निदर्शनम् - न हि खपुष्पं यस्य नास्ति सोsसन्नि त्युच्यत इति, सामान्यापेक्षया नपुंसकनिर्देशे प्राप्ते पुंलिङ्गनिर्देशोऽर्थसामानाधिकरण्यादुत्तानार्थः । संस्तु ३२३-१ सत्वांश्च नियमाद् भवति, सन्नस्यास्तीति सत्वान् यथा गौरस्यास्तीति गोमान् बहुव्रीहिः सदपेक्ष एव 25 सत्येवार्थे युज्यते नान्यथेति तथा तत्पुरुषेऽपि योज्यमेतदेव वैधर्म्यनिदर्शनम् । कस्मात् ? प्रतिषेधद्वयार्थ - त्वात्, यथा प्रतिषेधद्वयमर्थवदेव दृष्टम् 'अनगुः' इति तथा द्विः प्रतिषेधस्य प्रकृत्यर्थापत्तेः ‘नास्यासत्’ इत्युक्ते सत्वानेव भवितुमर्हति, नासन् सदर्थत्वात् ।
१ भावच्च भा० । भावतच्च य० ॥ २ द्रव्यादे प्र० । अत्र द्रव्यादेः इत्यपि पाठः स्यात् ॥ ३ तत्तत्कि मिति प्र० । ( तत् किमिति ? ) ॥ ४ मत्वर्थ सत्वादिना य० । मत्वमर्थमत्वादिना भा० । “ तदस्यास्त्यस्मिन्निति मतुप् [ ५।२।९४ ], गावोऽस्यास्मिन् वा सन्ति गोमान् । 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥” इति पा० सिद्धान्तकौमुद्याम् ॥ ५°दु युक्तं प्र० ॥ ६ समवे प्र० । ( असमवे ? ) ॥ ७ पुलिंग प्र० ॥ ८ भन्नास्या य० । तन्नास्यां भा० ॥ ९ (द्वयार्थवत्वात् ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org