________________
प्रशस्तमतिमतखण्डनम्] द्वादशा नयचक्रम्
४६५ योऽपि चासच्छब्दस्य नास्य सदित्यसदगुणगुणवत् सत्सत्तासम्बन्धरहितमित्यर्थः सोऽप्यनुपपन्नो विकल्पः कृत्तद्धितान्तरूपार्थविप्रकृष्टान्तरत्वात् ।
अथ नास्य सदिति सत्तापि स्वभावसत्तया सती यस्य नास्ति तदप्यसद् द्रव्यादि उच्यते गुरुत्वा भावाद् गुणागुरुत्ववत् । एतदेव ननु प्रस्तुतम् , सदादयः षडविशेषा द्रव्यादीनामेव त्रयाणां न सामान्यादीनामित्युक्त्वा सामान्यादीनां सत्त्वमुच्यमानं सदित्यसदिति च स्ववचनविरोधाय ।
सम्पूर्णत्वाभ्युपगमाद् नासिद्धमसत्त्वमसत्त्वस्यापीष्टत्वात् । नासत् न च तदसत् सत्त्वाद् घटवत् , सत्त्वमपि नासिद्धमुभयासम्पूर्णत्वेष्टेरेव । न सदसत् , नापि तत् सदसदुभयरूपमित्यर्थः, त्वन्मतेनैव सैदसतोर्वैधात् कार्य सदसत्ता न [वै० सू० ९।१।१२ ] इति वचनात् । किञ्चान्यत् , सदसत्ताभावात् , यथा सत्तासम्बन्धात् सद् भवति तथा सदसत्तासम्बन्धात् सदसत् स्यात् असत्तासम्बन्धादसद् वा स्यात् , 10 न चैवं भवितुमर्हत्यदृष्टानिष्टत्वात् । तस्मादसत्ताऽभावात् सदसत्ताऽभावाच्च न संदसद् नासदसम्पूर्णमिति । अहं पुनरेवं तर्कयामि त्वया नोपलक्षिता सदसद्वैधर्म्यनिराकरणायैव तु प्राय इयं प्रतिपत्तिर्भवतः किञ्चित्सत् समस्तसदिति तथा किञ्चिदसत् समस्तासदिति ब्रुवतः, उभयासम्पूर्णतायां तदेव सञ्चासञ्चेति सदसतोः साधर्म्यमेव, न वैधर्म्यमिति प्रतिपन्नत्वादिति ।
किश्चान्यत् , नैत एव दोषाः, किं तर्हि ? योऽपि चासच्छब्दस्येत्यादि यावत् सत्सत्तासम्बन्ध-15 रहितमित्यर्थ इति पूर्व पक्षप्रत्युच्चारणम् । योऽप्यसौ नास्य सदित्यसदगुणगुणवदिति तस्य बहुव्रीहिसमासाश्रयात् सामान्यविशेषसमवायैः सद्भिः शून्यं सत्तया न सम्बद्धं तस्मादसच्छब्दस्य सर्दर्थवाचित्वमेवेति ३२२-१ विकल्प इति । तत्रोत्तरमुच्यते - सोऽप्यनुपपन्नो विकल्पः कृत्तद्धितान्तरूपार्थविप्रकृष्टान्तरत्वात् , भवत्यस्ति वेति 'सत्' कृदन्तरूपम्, अर्थश्चास्य द्रव्यभूतः, सतो भावः सत्तेति तद्धितान्तं रूपम् , अर्थश्चास्य यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ [पा० वा० ५।१।११२ ] इति सतोऽसाधारणं 20 स्वरूपं सदन्तरव्यापि सामान्यं चेति शब्दतोऽर्थतश्चात्यन्तभेदादनयोः कथं सत्ता सत् स्यात् यदभावाद् नास्य सदित्यसद् द्रव्यादि भण्येत ? एवं तावत् सदुक्तौ नैव सत्तोक्तिः ।
अथ नास्य सदित्यादि । अथ मा भूच्छब्दार्थविप्रकृष्टत्वात् कृच्छब्देन तद्धितार्थानभिधानाच्छब्दार्थसङ्करदोष इति सत्तापि स्वभावसत्तया सती तस्याः सत्त्वात् , सा यस्य नास्ति तदप्यसद् द्रव्यादि उच्यते, यथा गुरुगुणाभावादगुरु द्रव्यं गुणः कर्म चोच्यते गुरुत्वाभावाद् गुणागुरुत्ववत् तथा सद-25 भावसत्ताभावतुल्यवादसदित्युच्यमानमदोषमिति ।
अत्रोच्यते - एतदेव ननु प्रस्तुतम् , सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः [वै० सू० ११३८] इति सदादयः षडविशेषा द्रव्यादीनामेव त्रयाणां न सामान्य
१°द्धमसत्त्वस्यापी प्र०॥ २ दृश्यतां पृ० ४६० टि. १॥ ३ वि० विना सदरुत्तसदसम्पूर्ण य० । सदसत्तदसम्पूर्ण वि० । सत्तदसम्पूर्ण भा०। ( सदसन्न सदसम्पूर्णमिति ? )॥ ४ यावच्छत्सत्ता प्र०॥ ५ समाश्रयात् प्र०॥ ६ °र्थवात्वमें प्र० । ( °र्थवत्त्वमे ? ) ॥ ७ कृच्छेन प्र० ॥ ८'त्वासदि प्र०॥
नय०५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org