________________
४६४
म्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे ____एवं तर्हि सामान्यसत्तायाः सत्ता अव्यक्तिः किञ्चित्सती न सम्पूर्णा सती एकसद्भावत्वात् स्वसत्तावत्, स्वभावसद्भावत्वात् असमवेतसत्ताकानि द्रव्यादीनि यथा।सा असर्वगताच व्यक्तिरेव वा न भवति एकजातीयापेतखरूपत्वात् घटवत् ।
उभयासम्पूर्णतायां च तद् न सत् असत्त्वात् खपुष्पवत्, नासत् सत्त्वाद् 5 घटवत्, न सदसत् सदसत्ताऽभावात् । सदसद्वैधर्म्यनिराकरणायैव तु प्राय इयं प्रतिपत्तिर्भवतः।
अत्र ब्रूमः - एवं तहीत्यादि । सामान्याख्यायाः सत्तायाः सामान्यसत्तायाः सत्ता, सा चाव्यक्तिः द्रव्यादिव्यक्तिरहिता किश्चित्सती, न सम्पूर्णा सती स्वभावसत्तामात्रेण सती सम्बन्धिसत्तया
न सती, सती चासती च विकल्पवतीत्यर्थः । कस्मात् ? एकसद्भावत्वात् , यदेकसत्तया सत् तत् सञ्चा10 सच्च दृष्टम् , तद्यथा - स्वसत्तावत्, यथा द्रव्यादि स्वभावसत्तया सदेकया सम्बिन्धिसत्तया असत् तथा महासत्तापि स्यादिति । एष एव हेत्वर्थोऽन्यया वाचोच्यते -स्वभावसद्भावत्वात् , असमवेतसत्ताकानि द्रव्यादीनि यथेति गतार्थमेतदनिष्टापादनम् । सा सामान्यसत्ता असर्वगता च स्वविषयसर्वगता न भवतीत्येतदपि दोषापादनम् , न सर्वस्वविषयानुवृत्तिरित्यर्थः । व्यक्तिरेव वा द्रव्यादिव्यतिरिक्ता न
भवतीति दोषापादनप्रतिज्ञान्तरम् । उभयत्रैक एव हेतुः - एकजातीयापेतस्वरूपत्वादिति, एकप्रकार15 मेकजातीयम् , प्रकारवचने जातीयर् [पा० ५।३।६९ ], न तु जात्यन्ताच्छ बन्धुनि [पा० ५।४।९], मा
भूद् द्रव्यत्वसत्तादिवदनैकान्तिकत्वम् । तत एकजातीयादपेतं व्यावृत्तं स्वरूपं यस्याः सा एकजातीयापेतस्वरूपा, तद्भावादेकजातीयव्यावृत्तस्वरूपत्वाद् घटवत सजातीयासजातीयव्यावृत्तस्वरूपत्वादित्यर्थः । यथा घट एकप्रकारेभ्यो व्यावृत्तस्वरूपो देशकालवर्णाकारादिभिर्विशिष्टत्वाद् घटान्तरस्वविषयव्यापी च न
भवति व्यक्तिरेव च न भवति तथा सत्तापि स्यादिति । तस्मादयुक्तमसमर्थगववदेकसत्तासदसत्त्वं द्रव्यादे20 स्तथा सत्तायाश्चेति । ३२१-२ इतश्चायुक्तम्, वक्ष्यमाणदुर्निरूपविकल्पत्वात् खपुष्पवदसत्त्वादित्यनुपपन्नविकल्पत्वहेतोरेवैतानि
व्याख्यानान्तराणि । तद्यथा- उभयासम्पूर्णतायां चेत्यादि । वस्तुनो द्रव्यादेः सामान्यस्य वा सत्त्वेनासत्त्वेन च किश्चित्समस्तत्वाभ्यामसम्पूर्णतायां पुनरपि तद् निरूप्यमेव किं सदसम्पूर्णम् , उतासत् , आहोस्वित् सदसत् ? इति । तत्र यदि तावत् सत् तत् सद् न भवति, कस्मात् ? असत्त्वात् खपुष्पवत् , उभया
१॥ एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ २दनप्रति रं० । ( ‘दनं प्रति° ?)॥ ३ "प्रकारवति चायम् , थाल् तु प्रकारमात्रे, पटुप्रकारः पटुजातीयः ।" इति पाणिनीयव्याकरणव्याख्यायां वैयाकरणसिद्धान्तकौमुद्याम् ॥ ४ "जात्यन्ताच्छ बन्धुनि [५।४।९ ], ब्राह्मणजातीयः । बन्धुनि किम् ? ब्राह्मणजातिः शोभना । जातेय॑क्षकं द्रव्यं बन्धु" इति वैयाकरणसिद्धान्तकौमुद्याम् । अस्य व्याख्या- "ब्राह्मणजातीय इति, 'येकयोः । १।४।२२] इतिवद् भावप्रधानो तस्य जातिशब्देन सह बहुव्रीहिः, ब्राह्मणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राह्मणजातिरिति, षष्ठीतत्पुरुषः भावप्रधानेन सह कर्मधारयो वा । जातव्यंजकमिति, बध्यते जातिरस्मिन्निति बन्धु, 'शस्वृस्निहि [उणा० १०] इत्यादिना अधिकरणे उप्रत्ययः । रूढोऽपि बन्धुशब्द आप्तपर्यायः पुंलिङ्गोऽस्ति तथापि स नेह गृह्यते 'बन्धुनि' इति नपुंसकनिर्देशादिति भावः।" इति ज्ञानेन्द्रसरखतीविरचितायां तत्त्वबोधिन्याम् ॥ ५ रूपादित्यर्थः प्र०॥ ६र्णतासत् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org