________________
प्रशस्तमतिमतखण्डनम् ]
द्वादशारं नयचक्रम्
४६३
सात्मकं न घटादिवत् सात्मकम् । सामान्यादीनां सात्मकत्वमसिद्धमिति चेत्, न, स्वरूपभिन्नत्वे सति अभिन्नवाग्बुद्धिव्यवहारविषयत्वाद् यद् विशेषणं तत् सामान्यम् ।
अत्राप्युत्तरे बह्वेव सम्प्रधार्यम्, 'अत्यन्तनिरात्मकत्वानभ्युपगमात्' इति वचनेन सदसत्त्वयोरपि विकल्पवत्त्वं वर्ण्यते - किञ्चित्सत् समस्तसदिति, एवमसदपि 15 संपूर्णनिरतिशयखात्मन एव तु सत्त्वाद् निरूप्यम् - कतमत् तत् क वा किश्चित्सत्त्वमसत्त्वं वा ? एतर्हि निरूप्यते - नन्विदमेव तदेकसत्तासदसदपि असमर्थगववत् ।
तार्थम् । सामान्यादीनां सात्मकत्वमसिद्धमिति चेदिति दृष्टान्ते साध्यधर्मासिद्धिचोदना । तत्परिहारः - न, स्वरूपभिन्नेत्यादि यावद् विशेषणं तत् सामान्यमिति दृष्टान्तसाधनम् । छत्रवस्त्रकम्बलादिविशेषणैश्छत्रिवस्त्रिकम्बलिनां सात्मकैरे । त्मरूपप्रत्ययकरैर्विशेषणत्ववत् स्वरूपभिन्नत्वे सति अभिन्नवाग्बुद्धिव्यवहार - 10 विषयत्वाद् विशेषणं सामान्यं सात्मकं चेत्यन्तमुत्तरमेतदिति ।
३२०-२
अत्राप्युत्तरे वह्नेव सम्प्रधार्यम्, अस्मान् प्रत्येतदप्युत्तरं न निश्चलमेवेत्यभिप्रायः । यस्मादेत - दप्युत्तरं द्रव्यादीनां शशविषाणवदत्यन्तनिरात्मकत्वानभ्युपगमबलेन सप्रसङ्गमुत्थापितं शैशविषाणादीनामपि सत्करत्वप्रसङ्गस्तदवस्थः इत्यतः प्रभृति समानप्रचर्चम्, अन्यदप्यत्र वक्ष्यामः - ' -'अत्यन्त निरात्मकत्वानभ्युपगमात्' इत्यनेनैव तावद्वचनेन सदसत्त्वयोरपि विकल्पवत्त्वं वर्ण्यते, द्विधा सत् - किश्चित्सत् समस्त. 15 सदिति, ऍवमसदपीत्याभ्यां विकल्पाभ्याम् । सम्पूर्णनिरतिशयस्वात्मन एव तु सस्यात् तुशब्दः परमतव्यावर्तनार्थः, यद्यपि मतं परस्य - सदसतोर्विकल्पवत्त्वमस्तु, को दोष? इति, तन्न भवति, सत् सत्तरं सत्तममिति सतोऽतिशयाभावात् कुतो विकल्पः सत्त्वे ? तस्मात् सम्पूर्णमेव सत्त्वमेवमसत्त्वमपि । ततो 'नात्यन्तानात्मकं सात्मकं च' इत्ययुक्तं वक्तुमित्यभिप्रायः । अस्तु वा विकल्पवत् सत्त्वमसत्त्वं च तत् पुनर्निरूप्यं त्वया कतमत् तत् स्वरूपतः क्व वाश्रये किचित् सत्त्वमसत्त्वं वा ? इति विकल्प्यम् । 20
अत्राह - एतर्हि निरूप्यते, किमत्र निरूप्यम् ? नन्विदमेव तदेकसत्ता सदसदपि, एकया स्वभावसत्तया सत् तदेवासत् संम्बन्धिसत्तयेति । ततस्तत् किञ्चित्सत् किञ्चिदसत् । किमिव ? असमर्थगववत् यथा गोकार्यासमर्थो गौरेव सन्नगौरित्युच्यते नासौ गौर्न भवति तथेदमपि द्रव्यादि संदेवासदिति । ३२१-१
1
१ गतार्थ य० । गतार्थ च भा० । अत्र 'उत्तरम्' इत्यनेन अन्वये 'गतार्थम्' इति 'गतार्थ च' इति वा पाठः साधुरेव, 'ग्रन्थः' इत्यनेन अन्वये तु 'गतार्थः' इति वा 'गतार्थश्व' इति पाठोऽवश्यं कल्पनीयः ॥ २ " सामान्यं द्विविधं परमपरं च खविषयसर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुषु आत्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् ।" इति प्रशस्तपादभाष्ये सामान्यनिरूपणे ॥ ३ वेत्यन्त प्र० ॥ ४ संग उत्था ० ॥ ५ दृश्यतां पृ० ४६१ पं० ५ ॥ ६ दृश्यतां पृ० ४६२ पं० २ ॥ ७ एवमदप प्र० ॥ ८ " इदमो हिंल् [ पा० ५।३।१६ ], सप्तम्यन्तात् काले इत्येव, हस्यापवादः, अस्मिन् काले एतर्हि । काले किम् ? इह देशे । ....अनद्यतने र्हिलन्यतरस्याम् [ पा० ५।३।२१], कर्हि कदा, यर्हि यदा तर्हि तदा, एतस्मिन् काले एतर्हि ।" इति पा० वै० सिद्धान्तकौमुद्याम् ॥ ९ संबंधसत्त प्र० । एवमग्रेऽपि ॥ १० सदिति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org